॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम ।
सङ्कष्ट्यां तस्य माहात्म्यं वद मे करुणानिधे ॥ १ ॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं नृप ।
सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥ २ ॥
पाञ्चाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः ।
पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥ ३ ॥
नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः ।
कीटकैः सर्वतो व्याप्तो ह्यन्धः कुब्जोऽभवन्नृप ॥ ४ ॥
तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः ।
अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः ॥ ५ ॥
तेनापि कथितं राजन् शमीमूले स्थितो भवेत् ।
चतुर्थीं सङ्कटीं कुर्यात्तदा पापात् प्रमुच्यते ॥ ६ ॥
ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते ।
समानाय्य बबन्धैव दाम्ना सर्वार्थसाधकः ॥ ७ ॥
सूर्योदयात् समारभ्य यावच्चन्द्रोदयोऽभवत् ।
तावत्तत्र महारोगी सोऽतिष्ठद्बन्धनाकुलः ॥ ८ ॥
ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् ।
नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः ॥ ९ ॥
कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् ।
तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे ॥ १० ॥
ततः सोऽपि गणेशानमभजन्नित्यमादरात् ।
चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥ ११ ॥
अन्ते शान्तिसमायुक्तो ब्रह्मभूतो बभूव ह ।
एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥ १२ ॥
अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् ।
चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥ १३ ॥
स्फोटयित्वा गृहं किञ्चित्तेन तत्र प्रविश्य सः ।
धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः ॥ १४ ॥
जनैः कोलाहलस्तत्र कृतः परमदारुणः ।
श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥ १५ ॥
[[३३]]
ज्ञात्वा वृत्तान्तमुग्रं ते धाविताः क्रोधसंयुताः ।
वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥ १६ ॥
छिन्नाङ्गं पतितं चौरं दूताः सङ्गृह्य दारुणम् ।
तं बबन्धुः शमीवृक्षे ततो राजानमाययुः ॥ १७ ॥
समागता चतुर्थी सा तत्राऽकस्मान् महीपते ।
कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥ १८ ॥
पञ्चम्यां क्षतहीनाङ्गं चौरं सर्वत्र शोभनम् ।
सञ्जातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् ॥ १९ ॥
राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः ।
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ॥ २० ॥
तं तत्रागृह्य निक्षिप्य गणान् शुण्डाविराजितान् ।
तान् प्रणम्य स पप्रच्छ राजर्षिर्गन्तुमुत्सुकान् ॥ २१ ॥
महासेन उवाच ।
भो भो गणपतेर्दूताः किमनेन कृतं महत् ।
वदेत करुणायुक्तास्तद्वयं करवामहै ॥ २२ ॥
गाणेशा ऊचुः ।
कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम् ।
तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥ २३ ॥
निराहारः स विघ्नेशं पूजयेत् व्रतकारकः ।
पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जीत वाग्यतः ॥ २४ ॥
रात्रौ जागरणं कुर्यात् पञ्चम्यां पूजनं पुनः ।
प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात् ॥ २५ ॥
फलयुक्तः सद्य एव भवत्यत्र न संशयः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतः स जायते ॥ २६ ॥
एवमुक्त्वा गता दूताश्चौरेण सहिता नृप ।
चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २७ ॥
ततो राजा महाभागो गणेशभजने रतः ।
स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥ २८ ॥
ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः ।
ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥ २९ ॥
पुनः स्वनगरे राजा चम्पावत्यां जगाम ह ।
एवं सर्वत्रगो भूत्वा रराजे राजमण्डले ॥ ३० ॥
अन्ते सर्वजनै राजा नगरस्थैर्महामते ।
जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥ ३१ ॥
इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महत् ।
चतुर्थ्यां कथितं राजन् सङ्कष्ट्यां सर्वसिद्धिदम् ॥ ३२ ॥
शृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् ।
ईप्सितं गणराजस्य प्रसादान्नात्र संशयः ॥ ३३ ॥
एवं नाना जना राजन्नान्ध्यदोषादिवर्जिताः ।
बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॥ ३४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
[[९२]]