३२ मलमासकृष्णपक्षचतुर्थी-माहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

मलमासे च सङ्कष्ट्याश्चतुर्थ्या वद मानद ।
माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे ॥ १ ॥

वसिष्ठ उवाच ।

आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे ।
धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥ २ ॥

यज्वा विनीतकोऽत्यन्तं नीतिज्ञोऽखिलतोषकृत् ।
षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥ ३ ॥

जलोदरयुतोऽकस्मादभवन् मानदायकः ।
सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥ ४ ॥

नानोपायाः कृतास्तस्य शान्तये नृपसत्तम ।
तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः ॥ ५ ॥

तुलादानादिकान्येव महादानानि पीडितः ।
चकार रोगयुक्तस्तदप्यत्यन्तमजायत ॥ ६ ॥

परिभ्रमन् स तीर्थानि चकार विधिसंयुतः ।
देवताऽऽराधनं राजा नाऽभवद्रोगवर्जितः ॥ ७ ॥

ततोऽतिदुःखितो राजा जलेनैवात्मघातनम् ।
विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥ ८ ॥

ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ ।
तद्गृहे तं नमस्कृत्य पूजयामास बान्धवैः ॥ ९ ॥

भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः ।
धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥ १० ॥

धर्मदत्त उवाच ।

धन्योऽस्म्यनुगृहीतोस्मि सफलो मे भवोऽभवत् ।
तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥ ११ ॥

आत्मघातेऽहमुद्युक्तस्तत्र ते दर्शनं महत् ।
प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥ १२ ॥

वसिष्ठ उवाच ।

एवं वदन्तमानन्दयुक्तो योगीन्द्रसत्तमः ।
उवाच तं महाराजं दयया करुणानिधिः ॥ १३ ॥

अष्टावक्र उवाच ।

किमर्थं देहघाते त्वमुद्यतोऽसि महामते ।
रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥ १४ ॥

तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् ।
नष्टं तेन महोग्रेण पापेन संयुतो भवान् ॥ १५ ॥

राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् ।
त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥ १६ ॥

सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् ।
तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥ १७ ॥

त्वया धर्मयुतं कर्म कृतं नानाविधं तथा ।
चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥ १८ ॥

सर्वैः सह जनै राजन्नरके त्वं पतिष्यसि ।
तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः ॥ १९ ॥

एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः ।
श्रावयामास तस्मै स करुणायुतचेतसा ॥ २० ॥

श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः ।
उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा ॥ २१ ॥

धर्मदत्त उवाच ।

पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते ।
मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥ २२ ॥

अधुना विघ्नराजस्य स्वरूपं मे दयानिधे ।
कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥ २३ ॥

न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् ।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २४ ॥

अष्टावक्र उवाच ।

धर्मदत्त महाभाग शृणु त्वं गणपस्य यत् ।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २५ ॥

[[८९]]

निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च ।
तस्य देहः सगुणकं ब्रह्म योगे गजाननः ॥ २६ ॥

सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधराऽभवत् ।
ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥ २७ ॥

स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् ।
तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः ॥ २८ ॥

संयोगेऽयं गकारः सो योगेऽयं च णकारकः ।
तयोः स्वामी गणेशानः शान्तियोगेन लभ्यते ॥ २९ ॥

पञ्चधा चित्तवृत्तिर्या तस्यां मोहस्तु पञ्चधा ।
समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥ ३० ॥

तेनाऽयं गणनाथस्तु चिन्तामणिरिति स्मृतः ।
तं भजस्व महाभाग तदा शान्तो भविष्यसि ॥ ३१ ॥

एवमुक्त्वा ददौ तस्मै मन्त्रं मालात्मकं प्रभुः ।
सविधिं धर्मदत्ताय ततः सोऽन्तर्हितोऽभवत् ॥ ३२ ॥

राजाऽपि हर्षसंयुक्तो बभूवातितरां ततः ।
धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥ ३३ ॥

तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा ।
समागता जनै राजा तां चकार विधानतः ॥ ३४ ॥

ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् ।
ततो जना व्रतं चक्रुर्भूमिस्था यत्र तत्र ते ॥ ३५ ॥

ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह ।
जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥ ३६ ॥

नित्यं गणपतिं राजाऽभजच्चानन्यमानसः ।
गणेशप्रीतये नानादानानि स ददौ सदा ॥ ३७ ॥

ततो राज्ये स्वपुत्रं स संस्थाप्यैकान्तसंस्थितः ।
सस्त्रीको गणनाथं तमभजद्ध्यानमार्गतः ॥ ३८ ॥

अन्ते जगाम विघ्नेशं तल्लीनः स बभूव ह ।
जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥ ३९ ॥

एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् ।
कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥ ४० ॥

गान्धारदेशवासीयः क्षत्रियः पापकारकः ।
बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥ ४१ ॥

द्यूतमद्यरतो नित्यं परस्त्रीलम्पटोऽभवत् ।
गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥ ४२ ॥

नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै ।
चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥ ४३ ॥

ततो राज्ञा महापापी वने निष्कासितो बलात् ।
जघान मार्गगांस्तत्र जन्तून्नानाविधान् खलः ॥ ४४ ॥

द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः ।
एवं नानाविधं पापं नित्यमेव चकार सः ॥ ४५ ॥

ततो द्रव्ययुतोऽत्यन्तं बुभुजे भोगमुत्तमम् ।
हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥ ४६ ॥

कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः ।
चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥ ४७ ॥

ततो मानवमेकं तु मार्गस्थं स ददर्श ह ।
निःसृत्याधावदत्यन्तं शस्त्रहस्तो वधाय वै ॥ ४८ ॥

पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः ।
क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥ ४९ ॥

पतितं तं समाज्ञाय नरः क्रोधसमन्वितः ।
पाषाणेन महादुष्टं मारयामास मस्तके ॥ ५० ॥

मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप ।
तेन स व्याकुलोऽत्यन्तं गतचेष्टो बभूव ह ॥ ५१ ॥

[[९०]]

रात्रौ चन्द्रोदये किञ्चित् सावधानोऽभवत् कुधीः ।
पायसं भक्षयामास स्वल्पं दुःखसमन्वितः ॥ ५२ ॥

ततो ममार पञ्चम्यां गतः स्वानन्दके पुरे ।
तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥ ५३ ॥

एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः ।
ब्रह्मभूतो बभूवाऽपि किं पुनर्ज्ञानतः कृतम् ॥ ५४ ॥

नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् ।
ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥ ५५ ॥

इदं कृष्णचतुर्थ्या यन् माहात्म्यं मलमासके ।
शृणोति यस्तु पठति स ईप्सितमवाप्नुयात् ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते मलमासकृष्णपक्षचतुर्थी-माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥