॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो ।
न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम् ॥ १ ॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं महान् ।
राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥ २ ॥
बलवान्नीतियुक्तश्चाभवच्छस्त्रास्त्रपारगः ।
धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥ ३ ॥
नानादानरतश्चापि वान्ध्यदोषयुतोऽभवत् ।
तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥ ४ ॥
ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् ।
नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥ ५ ॥
तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् ।
स्वयं पूजापरो भूत्वा न लेभे सन्ततिं ततः ॥ ६ ॥
ततोऽतिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ ।
सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥ ७ ॥
महावनान्तरं गत्वा दुःखशोकसमन्वितः ।
सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥ ८ ॥
तत्राऽऽजगाम योगीन्द्रस्त्रितो नाम महामुनिः ।
तं दृष्ट्वा प्रणनामाऽऽदौ कृताञ्जलिपुटः स्थितः ॥ ९ ॥
तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः ।
रुरोद तं महायोगी जगाद करुणायुतः ॥ १० ॥
त्रित उवाच ।
राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् ।
नष्टं चतुर्थीजं पूर्णं तेन वन्ध्योऽसि निश्चितम् ॥ ११ ॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् ।
तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥ १२ ॥
नानाधर्मपरस्त्वं वै जनास्तथैव मानद ।
फलहीनप्रभावेण पतिष्यन्ति च रौरवे ॥ १३ ॥
[[८६]]
एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः ।
श्रावयामास सम्पूर्णं ततस्तं त्वब्रवीन्नृपः ॥ १४ ॥
वीरसह उवाच ।
गणेश्वरस्य माहात्म्यं वद मे करुणानिधे ।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ १५ ॥
त्रित उवाच ।
गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् ।
उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥ १६ ॥
अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः ।
एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥ १७ ॥
ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः ।
अभवं कारयित्वा तं स्वगृहे गन्तुमुत्सुकः ॥ १८ ॥
दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् ।
भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥ १९ ॥
जलहीने हि कूपेऽहं पतितः खेदसंयुतः ।
तत्र मानसिकं यज्ञं प्रचकार हितावहम् ॥ २० ॥
आजग्मुस्तत्र देवाद्या हविर्भागार्थमादरात् ।
मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥ २१ ॥
अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप ।
ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥ २२ ॥
ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः ।
हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥ २३ ॥
ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः ।
तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः ॥ २४ ॥
जडोन्मत्तपिशाचाद्या भूमयः साधिता मया ।
अन्ते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशान्तिदे ॥ २५ ॥
स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः ।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ २६ ॥
योगीन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् ।
पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः ।
शान्तियोगं वद स्वामिन् शान्तिभ्यः शान्तिदायकम् ॥ २७ ॥
मुद्गल उवाच ।
असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने ।
अव्यक्तः शङ्करस्तेषां संयोगे गणपोऽभवत् ॥ २८ ॥
संयोगे मायया युक्तो गणेशो ब्रह्मनायकः ।
अयोगे मायया हीनो भव ते मुनिसत्तम ॥ २९ ॥
संयोगायोगयोर्योगे योगो गाणेशसञ्ज्ञकः ।
शान्तिभ्यः शान्तिदः प्रोक्तो भज तं भक्तिसंयुतः ॥ ३० ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः ।
एकाक्षरं विधियुतं ततः सोऽन्तर्हितोऽभवत् ॥ ३१ ॥
ततोऽहं गणराजं तमभजं सर्वभावतः ।
तेन शान्तिसमायुक्तश्चरामि ह्यकुतोभयः ॥ ३२ ॥
न गणेशात् परं ब्रह्म न गणेशात् परं तपः ।
न गणेशात् परं कर्म ज्ञानं न गणपात् परम् ॥ ३३ ॥
न गणेशात् परो योगो भक्तिर्न गणपात् परा ।
तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ ३४ ॥
गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत् ।
तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ ३५ ॥
सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्यचेतसा ।
सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥ ३६ ॥
एवमुक्त्वा त्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् ।
विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ ३७ ॥
[[८७]]
राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ ।
प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥ ३८ ॥
तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागताम् ।
चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥ ३९ ॥
प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४० ॥
ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुतम् ।
लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥ ४१ ॥
रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् ।
यत्र तत्र चतुर्थीजं माहात्म्यमवदन् जनाः ॥ ४२ ॥
पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः ।
सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥ ४३ ॥
अन्ते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः ।
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ४४ ॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यच्छृणु महाभाग पापनाशकरं महत् ॥ ४५ ॥
गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह ।
द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥ ४६ ॥
मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा ।
वणिजो विषयोगेन मारयामास नित्यदा ॥ ४७ ॥
एवं बहुधनो जातः परस्त्रीलालसोऽभवत् ।
मद्यमांसपरो दुष्टो सतीसङ्गेषु लालसः ॥ ४८ ॥
नानामिषेण दुष्टः स्म सतीर्यभति वेगतः ।
परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥ ४९ ॥
निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि ।
दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥ ५० ॥
तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः ।
चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयत् ॥ ५१ ॥
पञ्चम्यां राजदूतैः स शूलप्रोतो ममार ह ।
ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥ ५२ ॥
एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे ।
ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥ ५३ ॥
तत्रैव कति ते राजन् कथयामि विशेषतः ।
न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपतो मया ॥ ५४ ॥
इदं पौषस्य सङ्कष्ट्या माहात्म्यं संशृणोति यः ।
पठेद्वा तस्य शुभदं भविष्यति निरन्तरम् ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥
[[८८]]