३० मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद ।
माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥ १ ॥

वसिष्ठ उवाच ।

इतिहासं पुरावृत्तं कथयामि सविस्तरम् ।
राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान् ॥ २ ॥

अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः ।
सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥ ३ ॥

यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः ।
तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥ ४ ॥

ततश्छलयितुं योगी विश्वामित्रः समाययौ ।
सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥ ५ ॥

राज्यभ्रष्टं नृपं कृत्वा परप्रान्ते गतं पुनः ।
नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥ ६ ॥

ततः सोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूव ह ।
न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥ ७ ॥

तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता ।
कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥ ८ ॥

छलितो मुनिनाऽत्यन्तं ततश्चन्द्रोदयोऽभवत् ।
तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगतः ॥ ९ ॥

पञ्चम्यां बुद्धिसम्भेदो विश्वामित्रस्य चाऽभवत् ।
तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥ १० ॥

[[८४]]

ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् ।
प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाच ह ॥ ११ ॥

कुरु राज्यं महाबुद्धे शृणु मे परमं वचः ।
तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥ १२ ॥

तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम ।
अहं सङ्क्षुभितो वाऽपि तदर्थं नात्र संशयः ॥ १३ ॥

सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप ।
नित्यवन्नात्र सन्देहः सर्वसिद्धिप्रदायकम् ॥ १४ ॥

त्वया नानाविधं पुण्यं कृतं विधियुतं महत् ।
तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥ १५ ॥

जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि ।
त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥ १६ ॥

तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम ।
तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि ॥ १७ ॥

एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः ।
सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत् ॥ १८ ॥

हरिश्चन्द्र उवाच ।

गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ।
व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥ १९ ॥

विश्वामित्र उवाच ।

गणेश्वरस्य माहात्म्यं शृणु सङ्क्षेपतो नृप ।
एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥ २० ॥

मनोवाणीमयं विश्वं तदेव गणवाचकम् ।
नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥ २१ ॥

मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् ।
गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥ २२ ॥

सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप ।
ताभ्यां क्रीडति विघ्नेशश्चित्ते चिन्तामणिः स्थितः ॥ २३ ॥

तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ।
राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥ २४ ॥

चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
समोऽहं चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि ॥ २५ ॥

एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः ।
श्रावयामास तस्मै तत्ततश्चान्तर्हितोऽभवत् ॥ २६ ॥

विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः ।
अयोध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥ २७ ॥

नागरैः सह राजाऽपि चकार व्रतमुत्तमम् ।
शुक्लकृष्णचतुर्थीजं गणेशभजने रतः ॥ २८ ॥

सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः ।
भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥ २९ ॥

नानेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमम् ।
ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥ ३० ॥

राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम् ॥ ३१ ॥

तत्रैव गणराजं सोऽभजत् सुतपसा युतः ।
शान्तिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥ ३२ ॥

अन्ते स्वानन्दगो भूत्वा गणेशे लीनतां गतः ।
एवं व्रतस्य माहात्म्यं कथितं तेऽजनन्दन ॥ ३३ ॥

जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे ।
चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥ ३४ ॥

अन्यच्छृणु महीपाल मालवे नगरं महत् ।
कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी ॥ ३५ ॥

लोकान् सा हावभावेन मोहयामास तत्क्षणात् ।
नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः ॥ ३६ ॥

[[८५]]

स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे ।
मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥ ३७ ॥

ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः ।
चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥ ३८ ॥

कथने परदोषाणां दोषी भवति मानवः ।
एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥ ३९ ॥

नानाजनैर्युता राजन्नरके कृतनिश्चया ।
न विरामं चकाराऽपि नराणां मोहने कदा ॥ ४० ॥

एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च ।
चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥ ४१ ॥

पञ्चम्यां सा मृता तत्र ब्रह्मभूता बभूव ह ।
व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥ ४२ ॥

एवं नाना जना राजन् ब्रह्मभूता बभूविरे ।
तत्र ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥ ४३ ॥

मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् ।
पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥ ४४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥