॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
कार्तिके कृष्णपक्षे या चतुर्थी सङ्कटी मता ।
माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम् ॥ १ ॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः ॥ २ ॥
वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत् ।
लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा ॥ ३ ॥
अपारसेनया युक्तश्चतुरङ्गप्रमोदया ।
पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः ॥ ४ ॥
स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः ।
चकार वशगां पृथ्वीं समुद्रान्तां विशेषतः ॥ ५ ॥
[[८१]]
करदा इतरे सर्वे राजानः सेवका इव ।
सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः ॥ ६ ॥
पुण्यवान् धर्मशीलश्च नानादानपरायणः ।
देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥ ७ ॥
यज्वा विनीतकस्तीर्थकारकः परवीरहा ।
नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥ ८ ॥
स एव यक्ष्मणाऽत्यन्तं पीडितः पापरूपिणा ।
शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥ ९ ॥
नानोपायाः कृतास्तस्य शान्तये न च सोऽभवत् ।
शान्तस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥ १० ॥
नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो ।
पीडया नैव मुक्तोऽभूत्ततो दुःखितमानसः ॥ ११ ॥
देवार्चनरता विप्राः कृतास्तेन महात्मना ।
तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥ १२ ॥
ततः शान्तिधरो राजा वैराग्ये निदधे मनः ।
राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥ १३ ॥
बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः ।
ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमम् ॥ १४ ॥
तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः ।
ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥ १५ ॥
मङ्कणक उवाच ।
शृणु राजन् महाभाग येन त्वं रोगपीडितः ।
अभवस्तदघं सर्वं कथयामि नृपाधम ॥ १६ ॥
मुख्यं नष्टं च राज्ये ते चतुर्थीसञ्ज्ञितं व्रतम् ।
तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥ १७ ॥
सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम ।
सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥ १८ ॥
तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः ।
चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥ १९ ॥
एवमुक्त्वा च माहात्म्यं चतुर्थीसम्भवं मुनिः ।
श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥ २० ॥
कर्दम उवाच ।
धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् ।
व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥ २१ ॥
दयानिधे गणेशस्य स्वरूपं वद विस्तरात् ।
सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम् ॥ २२ ॥
मङ्कणक उवाच ।
गणेशस्य स्वरूपं कथयितुं शक्यते न तत् ।
तथाप्युपाधिसंयुक्तं वदामि शृणु कर्दम ॥ २३ ॥
पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् ।
बहुकाले गते हस्तो विद्धो मे कण्टकेन च ॥ २४ ॥
तदा पत्ररसस्तस्मादस्रवत् किञ्चिदप्यहो ।
दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा ॥ २५ ॥
अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् ।
पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥ २६ ॥
ततो नृत्यस्य वेगेन कम्पितं स चराचरम् ।
मदीयतपसा युक्तं देवाः शङ्करमाययुः ॥ २७ ॥
शङ्करः सर्वदेवैश्चागत्य मामब्रवीद्वचः ।
किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥ २८ ॥
इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे ।
भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥ २९ ॥
त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् ।
अन्तर्धाय स्वमात्मानं शङ्करः स गतोऽभवत् ॥ ३० ॥
[[८२]]
मया मनसि राजेन्द्र सन्धृतं शङ्करात् परम् ।
विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥ ३१ ॥
दर्शयित्वा तपोरूपमतो भस्म कृतं महत् ।
रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥ ३२ ॥
त्यक्त्वा विष्णुं महेशस्य भजने निरतोऽभवम् ।
क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥ ३३ ॥
जडादिका मया योगभूमयः क्रमितास्ततः ।
क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥ ३४ ॥
यत्र तत्र महीदेशे भ्रान्तोऽहं योगधारकः ।
सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥ ३५ ॥
स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे ।
तेनाऽहं ब्रह्मणि भ्रान्तः सूर्यं च शरणं गतः ॥ ३६ ॥
प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया ।
प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥ ३७ ॥
ततोऽहमवदं सूर्यं वद शान्तिप्रदं प्रभो ।
सहजं मोहहीनत्वात् स्वाधीनं नैव शान्तिदम् ॥ ३८ ॥
ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियन्त्रितः ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ॥ ३९ ॥
असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने ।
सहजः शङ्करः प्रोक्तस्तेषां योगे गणेश्वरः ॥ ४० ॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ ॥ ४१ ॥
संयोगे मायया युक्तो योगे मायाविवर्जितः ।
तयोर्योगे शान्तिदः स गणेशो ब्रह्मनायकः ॥ ४२ ॥
चित्तरूपा महाबुद्धिः पञ्चधा परिकीर्तिता ।
चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥ ४३ ॥
चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शान्तिदम् ।
चिन्तामणिं भजस्व त्वं योगिवन्द्यो भविष्यसि ॥ ४४ ॥
एवमुक्त्वा ददौ मन्त्रं प्रभुर्मह्यं षडक्षरम् ।
स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥ ४५ ॥
तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् ।
ततः स्वल्पेन शान्तिस्थोऽभवं योगस्य सेवया ॥ ४६ ॥
तथापि गणराजं सम्पूज्य मन्त्रपरायणः ।
अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥ ४७ ॥
मया सम्पूजितो भक्त्या स्तुतो नानाविधैः स्तवैः ।
मह्यं दत्त्वा दृढां भक्तिमन्तर्धानं चकार ह ॥ ४८ ॥
तदारभ्य महीपाल गाणपत्योऽहमादरात् ।
भजामि तं गणेशानं स्वच्छन्देन महामते ॥ ४९ ॥
एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् ।
मन्त्रं विधियुतं विप्रो गणेशकृपया युतः ॥ ५० ॥
अन्तर्धानं चकारापि महान् मङ्कणको मुनिः ।
राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५१ ॥
तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका ।
तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥ ५२ ॥
ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ५३ ॥
रोगहीनः स राजर्षिरभजद्गणनायकम् ।
जना वन्ध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥ ५४ ॥
पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ ।
तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥ ५५ ॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ५६ ॥
[[८३]]
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यत्त्वं शृणु भावेन परं कार्तिकसम्भवम् ॥ ५७ ॥
चाण्डालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् ।
जघान ब्राह्मणानन्यान् जन्तून् वनसमाश्रितान् ॥ ५८ ॥
परस्त्रियं वने दृष्ट्वाऽयभत्तां हठसंयुतः ।
एवं नानाविधं पापं चकार दुर्मतिः सदा ॥ ५९ ॥
कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः ।
कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥ ६० ॥
ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत ।
तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥ ६१ ॥
तथापि विषबाधा च न जहौ तं सुदुर्मतिम् ।
ततश्चन्द्रोदये किञ्चित् सावधानो बभूव ह ॥ ६२ ॥
तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च ।
व्याकुलः पतितस्तत्र गतचेष्टोऽन्त्यजोऽभवत् ॥ ६३ ॥
पञ्चम्यां स मृतः पापी ब्रह्मभूतो बभूव ह ।
व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥ ६४ ॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः ।
बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥ ६५ ॥
एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप ।
सङ्कष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥ ६६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥