॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् ।
चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥ १ ॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥ २ ॥
पार्वतीशङ्कराभ्यां च तपसाऽऽराधितोऽभवत् ।
दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥ ३ ॥
कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः ।
न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥ ४ ॥
कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् ।
विवाहो मे पुरा पश्चात्तवापि स्म भविष्यति ॥ ५ ॥
एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ ।
विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥ ६ ॥
अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः ।
क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥ ७ ॥
साक्षात् पुत्रं समुत्पन्नं स्कन्दं सन्त्यज्य विघ्नपम् ।
ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥ ८ ॥
त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते ।
अतः कपटरूपेण कर्तव्यं कार्यमुत्तमम् ॥ ९ ॥
ततः शिवो गणेशानं स्कन्दं चैवाऽब्रवीद्वचः ।
धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥ १० ॥
पूर्वं विवाहकं तस्य करिष्यामि न संशयः ।
ततस्तं गणनाथस्तु जगाद वचनं हितम् ॥ ११ ॥
ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर ।
वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥ १२ ॥
स्थूलदेहधरोऽहं मे वाहनं मूषको मतः ।
पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिव ॥ १३ ॥
एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् ।
जगाम स्कन्द आरुह्य मयूरं हर्षसंयुतः ॥ १४ ॥
पृथ्वीप्रदक्षिणायां स रतः स्कन्दः स वेगवान् ।
चकार मायया तत्र गणेशः कौतुकं महत् ॥ १५ ॥
सम्पूज्य पार्वतीं शङ्करं चकार प्रदक्षिणाम् ।
उवाच शङ्करं तत्र विवाहो मे विधीयताम् ॥ १६ ॥
प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव ।
पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥ १७ ॥
श्रुत्वा गणपतेर्वाक्यं कम्पितः शङ्करोऽब्रवीत् ।
करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥ १८ ॥
तत एकान्तगं शम्भुं पार्वती प्रेमविह्वला ।
उवाच कार्तिकेयं किं त्यक्त्वा ढुण्ढिः स मानितः ॥ १९ ॥
ततस्तां शङ्करो वाक्यं जगाद शृणु पार्वति ।
अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥ २० ॥
अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् ।
नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥ २१ ॥
एवमुक्त्वा सतीं शम्भुविवाहमकरोत्ततः ।
गणेशस्य विधानेन हृदयेनाविदूयता ॥ २२ ॥
सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः ।
तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥ २३ ॥
नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह ।
विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥ २४ ॥
त्वां वञ्चयित्वा सेनानीः कृतं कर्म जुगुप्सितम् ।
नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥ २५ ॥
एवमुक्त्वा गतो विप्रो नारदः कलहप्रियः ।
स्कन्दो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥ २६ ॥
[[२८]]
ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वतीशङ्कराविमम् ।
शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥ २७ ॥
क्रौञ्चे स्कन्दं स्थितं ज्ञात्वा पार्वतीशङ्करौ नृप ।
शोकसंविग्नचित्तौ तौ विलापं चक्रतुः पुरा ॥ २८ ॥
तत्राऽऽजगाम विप्रेन्द्रो मुद्गलः सर्वमुद्गलः ।
तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥ २९ ॥
सुखासीनं महाभाग उवाच शोकसङ्कुलः ।
भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥ ३० ॥
स्कन्दसंयोगदं पूर्णमुपायं तं करोम्यहम् ।
रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥ ३१ ॥
मुद्गल उवाच ।
शम्भो शृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः ।
विद्यारूपेयमाद्या सा शक्तिः सर्वार्थदायिनी ॥ ३२ ॥
तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ ।
द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥ ३३ ॥
योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव ।
पुत्रः समाधिजः प्रोक्तस्ततश्चिन्तामणिः स्मृतः ॥ ३४ ॥
देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे ।
ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥ ३५ ॥
अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः ।
ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥ ३६ ॥
भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः ।
भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कन्द एव च ॥ ३७ ॥
देहसौख्यकरः प्रोक्तः स्कन्दः सर्वत्र सम्मतः ।
शान्तिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥ ३८ ॥
तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः ।
स्कन्दं स्नेहेन शम्भो त्वमधिकं मन्यसे सदा ॥ ३९ ॥
न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना ।
तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥ ४० ॥
ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः ।
तदा विषयतापास्ते स्वयं वश्या भवन्ति वै ॥ ४१ ॥
विघ्नेश्वरमनादृत्य स्कन्दं विवाहसंयुतम् ।
आदौ पश्यामि शक्त्या वै सन्धृतं मानसे त्वया ॥ ४२ ॥
तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते ।
वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥ ४३ ॥
एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् ।
शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥ ४४ ॥
त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा ।
तत्रादौ सङ्कटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥ ४५ ॥
मायां भ्रान्तिकरीं सर्वां भिन्नभावप्रमोहतः ।
त्यक्त्वा शिवश्च शक्तिश्च शान्तिस्थौ तौ बभूवतुः ॥ ४६ ॥
कस्य पुत्रश्च का माता पिता को भ्रमदायकम् ।
कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥ ४७ ॥
ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् ।
बुद्धिभेदः कृतस्तत्र स्कन्दस्य नृप तच् शृणु ॥ ४८ ॥
त्यक्तौ मयाऽतिमूढेन पार्वतीशङ्करावहो ।
ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥ ४९ ॥
शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् ।
सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥ ५० ॥
स्वानन्दवासकारी स सिद्धिबुद्धिपतिः स्वयम् ।
[[८०]]
योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवत् ॥ ५१ ॥
एवं विचार्य स्कन्दः स ययौ कैलासमादरात् ।
आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥ ५२ ॥
अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् ।
उमां सम्पूज्य तुष्टाव प्रणनामाऽथ दण्डवत् ॥ ५३ ॥
सम्मानितः स तैः स्कन्दोऽतिष्ठत्तद्भक्तिसंयुतः ।
तदाज्ञावशगो भूत्वा शान्तियोगपरोऽभवत् ॥ ५४ ॥
विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह ।
स्त्रियं बन्धकरीं नाथ नेच्छामि गणपे रतः ॥ ५५ ॥
अत्याग्रहयुतः स्कन्दोऽभजत्तं गणनायकम् ।
मायासुखं परित्यज्य तन्निष्ठः स बभूव ह ॥ ५६ ॥
एवं सङ्कटहारिण्या चतुर्थ्या महिमाद्भुतः ।
कथितः शान्तिदः सर्वसम्मेलनकरोऽभवत् ॥ ५७ ॥
अन्यच्छृणु महाभाग चरित्रं पापनाशनम् ।
वङ्गदेशे द्विजः कश्चित् पापकर्मा बभूव ह ॥ ५८ ॥
त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत् ।
यवनीं स समादाय यवनोऽभून् महाबलः ॥ ५९ ॥
वक्तुं न शक्यते तस्य कर्म पापमयं महत् ।
कथने परदोषाणां दोषी भवति मानवः ॥ ६० ॥
कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः ।
तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका ॥ ६१ ॥
तत्र तेन जलान्नं च भक्षितं न भयान्नृप ।
सुपक्वानां तन्दुलानां पीतं चन्द्रोदये जलम् ॥ ६२ ॥
ततो बहौ गते काले ममार यवनो द्विजः ।
सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप ॥ ६३ ॥
एतादृशा महापापा व्रतपुण्यप्रभावतः ।
ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम् ॥ ६४ ॥
एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान् ।
ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते ॥ ६५ ॥
इदमाश्विनजायास्तु माहात्म्यं यः शृणोति वा ।
पठेत् स कृष्णसङ्कष्ट्याः सर्वार्थं लभते नरः ॥ ६६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ॥