२७ भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने ।
न तृप्यामि कथां शृण्वन् सर्वसिद्धिप्रदायिनीम् ॥ १ ॥

वसिष्ठ उवाच ।

द्राविडे राजशार्दूलो बभूव परमद्युतिः ।
वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥ २ ॥

नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् ।
सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥ ३ ॥

धर्मशीलः सदानन्दं चाददाद्भक्तिसंयुतः ।
क्षुधितं न नरं नारीमसहत् सुखकारकः ॥ ४ ॥

पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः ।
अपुत्रो दैवयोगेन बभूव परवीरहा ॥ ६ ॥

पुत्रार्थं यत्नमत्यन्तं जपहोमादिभिः सदा ।
चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥ ६ ॥

एवं बहौ गते काले पुत्रो नासीन् महीपते ।
ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥ ७ ॥

सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह ।
ततो महावनं गत्वा पपात क्षुधयान्वितः ॥ ८ ॥

सुमन्तुस्तत्र विप्रर्षिः समिदर्थं समाययौ ।
नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥ ९ ॥

वेदवेदाङ्गवित् साक्षात् सर्वशास्त्रप्रवर्तकः ।
पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥ १० ॥

तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् ।
वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥ ११ ॥

करसम्पुटमुत्थाय पुरः कृत्वा महामुनेः ।
तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥ १२ ॥

वीरसेन उवाच ।

धन्यं मे कर्म जन्मादि पिता माता कुलं यशः ।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १३ ॥

राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् ।
तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥ १४ ॥

नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल ।
त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥ १५ ॥

वसिष्ठ उवाच ।

एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् ।
सन्तुष्टस्तं जगादेदं सुमन्तुर्मुनिसत्तमः ॥ १६ ॥

सुमन्तुरुवाच ।
मा चिन्तां कुरु राजेन्द्र पुत्रस्ते कुलतारकः ।
भविष्यति न सन्देहः शृणु मे वचनं हितम् ॥ १७ ॥

राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् ।
तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥ १८ ॥

सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धिदम् ।
चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥ १९ ॥

त्वया कर्म कृतं नानापुण्यदं सर्वसम्मतम् ।
चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥ २० ॥

एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् ।
श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥ २१ ॥

वीरसेन उवाच ।

वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् ।
व्रतं सर्वादिसम्मान्यं तं भजिष्यामि नित्यदा ॥ २२ ॥

सुमन्तुरुवाच ।
गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः ।
उपाधिसंयुतं ज्ञानं शृणु राजेन्द्र सर्वदम् ॥ २३ ॥

अहं तपःप्रभावेण पुरा जातो विशेषतः ।
शापानुग्रहणे राजन् समर्थः सर्वमण्डले ॥ २४ ॥

ततोऽतितपसा युक्तोऽभवं तेन महामते ।
अन्तर्ज्ञानं समुत्पन्नं स दृष्ट्वा विस्मितो ह्यहम् ॥ २५ ॥

[[७६]]

ततो जडादिका नाना भूमिकाः साधयंस्ततः ।
नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥ २६ ॥

एवं क्रमेण राजेन्द्र आसं स्वानन्दगोऽभवम् ।
तत्र शान्तिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥ २७ ॥

तस्माद्भेदमयं द्वन्द्वं दृष्ट्वा शान्तो महामुनिम् ।
व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥ २८ ॥

ब्रह्मभूतस्वरूपां मे वद शान्तिं महामुने ।
शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥ २९ ॥

इति पृष्टो महायोगी मामुवाच प्रहर्षितः ।
तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥ ३० ॥

व्यास उवाच ।

शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् ।
शान्तीनां शान्तिरूपं तं ज्ञातव्यं योगसेवया ॥ ३१ ॥

स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा ।
तयोरभेदभावे च ह्यसत् स्वानन्द उच्यते ॥ ३२ ॥

तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् ।
तयोरभेदभावे चानन्दः स्वानन्द उच्यते ॥ ३३ ॥

त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते ।
चतुर्णामेव संयोगे स्वानन्दो ब्रह्म उच्यते ॥ ३४ ॥

पञ्चभिर्गतिहीनं यन्मतं चायोगवाचकम् ।
न तत्र कस्यचिद्योगस्ततः कुत्राऽपि पुत्रक ॥ ३५ ॥

संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥ ३६ ॥

गणाः समूहरूपाश्चान्तरबाह्यादियोगतः ।
अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥ ३७ ॥

तेषां स्वामी गणेशानस्तं भजस्व विधानतः ।
तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥ ३८ ॥

चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकम् ।
चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदन्ति च ॥ ३९ ॥

तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः ।
पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः ॥ ४० ॥

अतश्चिन्तामणिः प्रोक्तो पश्य वेदेषु पुत्रक ।
चित्तं त्यक्त्वा समोहं त्वं भव चिन्तामणिस्ततः ॥ ४१ ॥

एवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः ।
सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥ ४२ ॥

ध्यात्वा गणपतिं राजन् मन्त्रे जपपरोऽभवम् ।
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ॥ ४३ ॥

तथाऽपि गणराजं त्वपूजयन्तं विशेषतः ।
ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥ ४४ ॥

समागतं गणेशानं दृष्ट्वा विस्मितमानसः ।
अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥ ४५ ॥

अथर्वोपनिषद्भिः स संस्तुतो गणनायकः ।
भक्तिं दत्त्वा स्वकीयां मेऽन्तर्धानं प्रचकार ह ॥ ४६ ॥

तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् ।
तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥ ४७ ॥

एवमुक्त्वा ददौ तस्मै स मन्त्रं षोडशाक्षरम् ।
सविधिं मुनिमुख्यः सोऽन्तर्धानमगमत्ततः ॥ ४८ ॥

राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् ।
स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥ ४९ ॥

तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका ।
कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥ ५० ॥

विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं कृतम् ।
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥ ५१ ॥

[[७७]]

व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः ।
बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥ ५२ ॥

पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः ।
सपत्नीको गणेशानमभजन्नित्यमादरात् ॥ ५३ ॥

अन्ते गणेशलोके स गत्वा ब्रह्ममयोऽभवत् ।
क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥ ५४ ॥

एतत्ते कथितं भूप माहात्म्यं सङ्कटीभवम् ।
अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥ ५५ ॥

आन्ध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः ।
बाल्यात् प्रभृति सोऽत्यन्तं पापकर्मपरायणः ॥ ५६ ॥

वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः ।
लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥ ५७ ॥

वने गत्वा महापापी मार्गस्थान् प्रजघान वै ।
ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥ ५८ ॥

न तस्य कर्म वक्तुं वै शक्यते पापभीतितः ।
ग्रन्थबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥ ५९ ॥

भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा ।
व्रते प्राप्ते महापापी निराहारो बभूव ह ॥ ६० ॥

अकस्मात् तत्र सम्प्राप्तो जनसङ्घो महान्नृप ।
भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥ ६१ ॥

किञ्चिद्दिनावशेषे स जनसङ्घो गतोऽभवत् ।
तदा बहिर्विनिःसृत्य गृहे गन्तुं मनो दधे ॥ ६२ ॥

न प्राप्तं तेन दुष्टेन किञ्चित्तदपि दारुणः ।
स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥ ६३ ॥

रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम ।
चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥ ६४ ॥

पञ्चम्यां सर्पदंशेन मृतः पापेन निश्चयः ।
गणराजस्य तदपि दूता नेतुं समागमन् ॥ ६५ ॥

गृहीत्वा धीवरं तेऽयुर्गणाः स्वानन्दके पुरे ।
गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६६ ॥

व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप ।
ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किम् ॥ ६७ ॥

एवं नाना जना राजन् ब्रह्मभूता बभूविरे ।
चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥ ६८ ॥

इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः ।
माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥ ६९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥

[[७८]]