२६ श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

श्रावणे कृष्णपक्षे या चतुर्थी सङ्कटी भवेत् ।
माहात्म्यं वद तस्या मे सर्वेभ्यः सुखदायकम् ॥ १ ॥

वसिष्ठ उवाच ।

इतिहासं प्रवक्ष्यामि श्रावणे सङ्कटीभवम् ।
श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥ २ ॥

चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् ।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ ३ ॥

साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः ।
पाण्डुपुत्रो महातेजाः प्रजापालनतत्परः ॥ ४ ॥

द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसम्मतः ।
कुन्त्या मात्रा महाभागो विख्यातः सर्वमण्डले ॥ ५ ॥

कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः ।
साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥ ६ ॥

एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः ।
राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥ ७ ॥

धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् ।
आजगाम स तं दृष्ट्वा मानयामास कुन्तिजः ॥ ८ ॥

भोजितं परमान्नेन विदुरं सदसि स्थितम् ।
तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥ ९ ॥

धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् ।
वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥ १० ॥

कुशलं स्वजनानां ते किमर्थं त्वं समागतः ।
वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगम् ॥ ११ ॥

विदुर उवाच ।

सर्वत्र कुशलं वत्स स्वजनेषु महामते ।
धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु ॥ १२ ॥

पुत्रवत्सलभावेन दुर्योधनसमाश्रितः ।
तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥ १३ ॥

इच्छति त्वां विजेतुं स प्रभो द्यूतेन मन्दधीः ।
दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥ १४ ॥

कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः ।
सक्तस्ते राज्यहरणे दुःशासनसमन्वितः ॥ १५ ॥

धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् ।
स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥ १६ ॥

मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् ।
धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रातृभिः कदा ॥ १७ ॥

वसिष्ठ उवाच ।

विदुरस्य वचः श्रुत्वा युधिष्ठिरो महायशाः ।
उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥ १८ ॥

[[७३]]

युधिष्ठिर उवाच ।

शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् ।
राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥ १९ ॥

तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल ।
अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥ २० ॥

धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः ।
न किञ्चिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥ २१ ॥

विदुरेण युताः सर्वे सस्त्रीकाः पाण्डवा नृप ।
समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥ २२ ॥

तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः ।
चिक्रीडुर्द्यूतमुग्रं वै दुर्योधनमुखैः पुरा ॥ २३ ॥

शकुनिना महोग्रेण तपसा साधितं पुरा ।
द्यूतं तदेव राजेन्द्र तदधीनं बभूव ह ॥ २४ ॥

क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः ।
वनवासे पाण्डवान् स स्थापयामास दुर्मतिः ॥ २५ ॥

द्रौपदी तेन दुष्टेन सभायां सर्वसन्निधौ ।
समानीता स तां प्राह पत्नी मे भव सुन्दरि ॥ २६ ॥

पतयः पञ्च कुत्राऽपि न दृश्यन्ते स्त्रियाः क्वचित् ।
अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥ २७ ॥

भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः ।
भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥ २८ ॥

पाण्डवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् ।
द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥ २९ ॥

मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः ।
चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥ ३० ॥

द्रौपदी पाण्डवैः सार्धं ययौ मुक्ता वने तदा ।
तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥ ३१ ॥

उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् ।
कृष्ण उवाच ।

हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥ ३२ ॥

त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च ।
ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥ ३३ ॥

क्रोधं त्यज महाबाहो धर्मं रक्ष जनार्दन ।
धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥ ३४ ॥

एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह ।
कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं स्त्रिया ॥ ३५ ॥

सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः ।
स्वानन्दवासकर्ताऽसावस्माकं कुलदैवतम् ॥ ३६ ॥

एवमुक्त्वा ददौ तस्मै प्रभुर्मन्त्रं दशाक्षरम् ।
स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥ ३७ ॥

माहात्म्यं व्रतजं तत्र श्रावयामास केशवः ।
युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रान्तिनाशनम् ॥ ३८ ॥

चतुर्विधप्रदं पूर्णं सर्वादौ सम्मतं व्रतम् ।
कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥ ३९ ॥

तव राज्ये व्रतं मुख्यं नष्टं तेन महामते ।
राज्यभ्रष्टश्च सञ्जातश्चतुःपदविवर्जितः ॥ ४० ॥

श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः ।
गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥ ४१ ॥

तत्रादौ श्रावणे मासे प्राप्ता सङ्कटनाशिनी ।
चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥ ४२ ॥

शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पाण्डवाः ।
सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥ ४३ ॥

[[७४]]

पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् ।
हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥ ४४ ॥

पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् ।
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥ ४५ ॥

इह भुक्त्वाऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते ।
पाण्डवा ज्ञानसंयुक्ता बभुः स्वांशेषु सङ्गताः ॥ ४६ ॥

अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् ।
दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥ ४७ ॥

एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥ ४८ ॥

कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् ।
वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥ ४९ ॥

परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तथा दरात् ।
अयभद्धठसंयुक्तो बलेन स महाखलः ॥ ५० ॥

गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् ।
चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥ ५१ ॥

एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः ।
चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥ ५२ ॥

कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् ।
जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूव ह ॥ ५३ ॥

अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः ।
यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते ॥ ५४ ॥

तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप ।
दैवयोगेन सा देवी चतुर्थी तिथिराबभौ ॥ ५५ ॥

श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् ।
कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥ ५६ ॥

चन्द्रोदये समुत्पन्ने जलेनागतमादरात् ।
फलं च नारिकेलं यत्तद्बभञ्ज बभक्ष सः ॥ ५७ ॥

निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ ।
व्याघ्रः सङ्गृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥ ५८ ॥

गाणपास्तं सम्प्रगृह्य ययुः स्वानन्दके पुरे ।
चक्रुर्व्रतप्रभावेण तत्र ब्रह्ममयं ततः ॥ ५९ ॥

महापापी व्रतेनैवाज्ञानजेन नृपात्मज ।
ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥ ६० ॥

नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् ।
ययुः स्वानन्दके वर्णयितुं तत्र न शक्यते ॥ ६१ ॥

इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् ।
माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विन्दति ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥

[[७५]]