२५ आषाढकृष्णचतुर्थीवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

आषाढे सङ्कटी प्रोक्ता चतुर्थी चरितं शुभम् ।
तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥ १ ॥

वसिष्ठ उवाच ।

अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मज ॥ २ ॥

वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः ।
वने वसत्तु सन्त्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥ ३ ॥

मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समन्ततः ।
अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥ ४ ॥

कर्मखण्डनभावेन देवाः परमविह्वलाः ।
उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥ ५ ॥

गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुङ्गवम् ।
विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥ ६ ॥

तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः ।
पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥ ७ ॥

इन्द्र उवाच ।

दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् ।
यज्ञो ज्ञानादिकं मे वै त्वदङ्घ्रेर्दर्शनात् प्रभो ॥ ८ ॥

तव दर्शनमात्रेण कल्याणं नो भविष्यति ।
साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥ ९ ॥

वृत्रासुरेण दुष्टेन निर्जिता वयमेव च ।
राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥ १० ॥

अत्रातिकर्मनाशेनोपोषणेन समन्विताः ।
मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेत् ॥ ११ ॥

तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् ।
वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥ १२ ॥

जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा ।
किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तम ॥ १३ ॥

[[७१]]

वसिष्ठ उवाच ।

एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः ।
विश्वरक्षणभावार्थं दुष्टनाशकरं वचः ॥ १४ ॥

गृत्समद उवाच ।

राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका ।
व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं कुरु ॥ १५ ॥

ज्ञानमदेन विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया ।
किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥ १६ ॥

एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः ।
कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयम् ॥ १७ ॥

यदृच्छया गते राजन् मुनाविन्द्रेण तत्ततः ।
व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च ॥ १८ ॥

तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः ।
प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥ १९ ॥

गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् ।
वज्रं धृत्वा ययौ देवैर्वृत्रं युद्धपरायणः ॥ २० ॥

चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् ।
कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥ २१ ॥

हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः ।
स्वस्थोऽभूदमरावत्या मुमुदे स्वजनैर्नृप ॥ २२ ॥

ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः ।
शुक्लकृष्णभवं चक्रुश्चतुर्थीसञ्ज्ञितं व्रतम् ॥ २३ ॥

पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः ।
इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥ २४ ॥

मन्वन्तरे गते देवैरिन्द्रः स्वानन्दगोऽभवत् ।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ २५ ॥

भूमिसंस्था नराः सर्वे क्रमेण प्रययुर्नृप ।
गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥ २६ ॥

एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसम्भवम् ।
पुनरन्यच्छृणुष्व त्वं पापकञ्चुकनाशनम् ॥ २७ ॥

गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः ।
परयोनिषु संसक्तो जीवघातं चकार ह ॥ २८ ॥

एकदा भगिनी यब्धा तेन दुष्टेन चाऽभवत् ।
मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥ २९ ॥

द्रव्यलोभी जघानाऽसो द्विजादींश्च विशेषतः ।
पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥ ३० ॥

नित्यं चकार स खलो यवनैः सह भोजनम् ।
न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥ ३१ ॥

एकदा वनमध्यस्थो बभूवे जातिदूषकः ।
आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥ ३२ ॥

दैवयोगेन तेनैव न प्राप्तं वनगह्वरे ।
किञ्चित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥ ३३ ॥

तथाऽपि नालभत् किञ्चित् ततो दुःखपरायणः ।
अपराह्णे पुनः सोऽपि स्वगृहं गन्तुमुत्सुकः ॥ ३४ ॥

न ददर्श स तत्राऽपि जलान्नं दैवयोगतः ।
आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥ ३५ ॥

यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप ।
बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥ ३६ ॥

ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः ।
राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥ ३७ ॥

पञ्चम्यां स मृतस्तत्र भृशं दुःखेन पीडितः ।
गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ ३८ ॥

एतादृशा महापापा उद्धरन्ति व्रतेन वै ।
अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥ ३९ ॥

[[७२]]

विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः ।
दर्शनेन जनानां ते तारकाः सम्भवन्ति हि ॥ ४० ॥

एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे ।
अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥ ४१ ॥

इदमाषाढसङ्कष्ट्याश्चरितं यः शृणोति चेत् ।
पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥ ४२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः ॥