॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् ।
सङ्कष्टीसम्भवं मुख्यं न तृप्तस्तदपि प्रभो ॥ १ ॥
अतो ज्येष्ठे चतुर्थी या सङ्कष्टी मुनिसत्तम ।
तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥ २ ॥
वसिष्ठ उवाच ।
निषधेषु महाभागो नलो नामाऽभवन्नृपः ।
तेजस्वी शस्त्रसम्पन्नः शास्त्रज्ञश्च बभूव ह ॥ ३ ॥
रूपवान् धनसम्पन्नश्चतुरङ्गबलान्वितः ।
शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥ ४ ॥
सामन्ता वशगा यस्य करदा इतरे नृपाः ।
सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥ ५ ॥
धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः ।
यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥ ६ ॥
इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे ।
यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥ ७ ॥
त्रिलोकीगमने सक्तः साधुदर्शनतत्परः ।
देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयत् ॥ ८ ॥
दमयन्ती महाभागा रूपेणाऽप्रतिमा भुवि ।
भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥ ९ ॥
गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः ।
पुण्यश्लोकः स वै राजा कलिं जिग्ये महायशाः ॥ १० ॥
कदाचिद्वनगेनैव भ्रात्रा कलिवशेन सः ।
जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥ ११ ॥
तत्राऽपि कलिना मत्स्यमिषेणैव महासती ।
प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनान्तरे ॥ १२ ॥
अर्धवस्त्रधरा साऽपि दमयन्ती पितुर्गृहे ।
नानादुःखसमायुक्ता जगाम नलवर्जिता ॥ १३ ॥
गृप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः ।
नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥ १४ ॥
धर्मशीलं स राजानं कलिना पीडितं परम् ।
दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥ १५ ॥
तं दृष्ट्वा लज्जितो राजा प्रणनाम कृताञ्जलिः ।
लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥ १६ ॥
नारद उवाच ।
मा लज्जां कुरु राजेन्द्र कर्मणां गतिरीदृशी ।
सावधानमना भूत्वा शृणु मे परमं वचः ॥ १७ ॥
तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् ।
चतुर्थीसञ्ज्ञितं तेन राज्यभ्रष्टोऽसि साम्प्रतम् ॥ १८ ॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् ।
न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥ १९ ॥
चतुःफलविहीनस्त्वं भवस्यत्र न संशयः ।
अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥ २० ॥
एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् ।
माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शान्तिकारकम् ॥ २१ ॥
तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह ।
गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥ २२ ॥
नारद उवाच ।
गणेश्वरस्य माहात्म्यं शान्तियोगफलप्रदम् ।
वक्तुं न शक्यते राजंस्तथापि शृणु मे वचः ॥ २३ ॥
ब्रह्मा विष्णुश्च शम्भुश्च शक्तिः सूर्योऽमरास्तथा ।
शेषादिनागमुख्यास्तं भजन्ति कुलदैवतम् ॥ २४ ॥
अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम ।
भजन्ति तं विशेषेण कुलदेवं सनातनम् ॥ २५ ॥
[[२४]]
महावाक्यादिभिर्वेदास्तं भजन्ति सुयोगदम् ।
महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकम् ॥ २६ ॥
सर्वसिद्धिप्रदा यस्य वामाङ्गे प्रकृतिः परा ।
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ॥ २७ ॥
स्वानन्दे वसतिर्यस्य सर्वपूज्योऽयमुच्यते ।
सर्वादिर्गणनाथश्च विप्रैः सोऽन्तेषु तिष्ठति ॥ २८ ॥
गणाः समूहरूपाश्चान्तरबाह्यादियोगतः ।
तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥ २९ ॥
एवमुक्त्वा ददौ तस्मै नृप मन्त्रं षडक्षरम् ।
विधियुक्तं ततः सोऽन्तर्दधे गाणेशको मुनिः ॥ ३० ॥
ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् ।
मन्त्रं जजाप भावेन स्वात्मानं निन्दयन् भृशम् ॥ ३१ ॥
ततः कर्कोटकेनैव दष्टस्तेन बभूव ह ।
विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥ ३२ ॥
तेन संहर्षितो भूप ऋतुपर्णं जगाम ह ।
तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुतः ॥ ३३ ॥
पितुर्गृहे गता नारी दमयन्ती महासती ।
तद्व्रतं कारयामास गत्वा तामपि नारदः ॥ ३४ ॥
नलेन दमयन्त्या तज्ज्येष्ठमासे समागतम् ।
प्रथमं तद्व्रतं मुख्यं सङ्कष्टीसञ्ज्ञकं कृतम् ॥ ३५ ॥
त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः ।
नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥ ३६ ॥
ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः ।
स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥ ३७ ॥
दमयन्त्या युतः सोऽपि श्वशुरेण च सेनया ।
ऋतुपर्णेन राजेन्द्रो गतः स्वनगरे ततः ॥ ३८ ॥
भ्रात्रा सम्मानितोऽत्यन्तं चकार राज्यमुत्तमम् ।
विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥ ३९ ॥
ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः ।
सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥ ४० ॥
अन्ते जगाम राजाऽसौ स्वानन्दे गणपं नृप ।
तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥ ४१ ॥
नलेन सम्प्रदिष्टा ये जना भूमितले ततः ।
शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥ ४२ ॥
ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् ।
पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥ ४३ ॥
अन्ते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे ।
एवं कृष्णे ज्येष्ठमासे माहात्म्यं सङ्कटीभवम् ॥ ४४ ॥
कथितं ते नृपश्रेष्ठ पुनस्त्वं शृणु सिद्धिदम् ।
ज्येष्ठकृष्णचतुर्थीजं सर्वसङ्कटहारकम् ॥ ४५ ॥
मालवेन्त्यजजः कश्चित् पापकर्मा बभूव ह ।
वनं गत्वा द्विजादीन् स जघान द्रव्यलोलुपः ॥ ४६ ॥
एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः ।
सती परनरस्पर्शहीना तत्याज सा तनुम् ॥ ४७ ॥
एवं नानाविधं पापं चकार जातिदूषणः ।
न तच्छक्यं कथयितुं पापभोगभयान् मया ॥ ४८ ॥
एकदा वनसंस्थश्च चाण्डालः शस्त्रधारकः ।
कञ्चित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥ ४९ ॥
पलायनपरः सोऽपि जगाम भयसङ्कुलः ।
हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥ ५० ॥
एतस्मिन्नन्तरे तत्र पुरुषाः शस्त्रधारकाः ।
राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥ ५१ ॥
[[७०]]
ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः ।
बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बन्धने ॥ ५२ ॥
तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्थिका ।
कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः ॥ ५३ ॥
चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामते ।
अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥ ५४ ॥
राजाज्ञया च तं दुष्टं पञ्चम्यां जघ्नुरादरात् ।
स मृतोन्त्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥ ५५ ॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः ।
भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥ ५६ ॥
अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते ।
तथाऽपि कथितं भूप माहात्म्यं सङ्कटीभवम् ॥ ५७ ॥
इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः ।
माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥ ५८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥