२३ वैशाखकृष्णचतुर्थीचरितम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद साम्प्रतम् ।
माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥ १ ॥

वसिष्ठ उवाच ।

अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः ।
न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥ २ ॥

ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् ।
वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥ ३ ॥

ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्त्रपरायणः ।
शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥ ४ ॥

दशरथ उवाच ।

तपस्तेजोयुतः साक्षादगस्त्यः सर्वशास्त्रवित् ।
व्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युतिः ॥ ५ ॥

वसिष्ठ उवाच ।

शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण ।
अधुना तस्य माहात्म्यं कथयामि समासतः ॥ ६ ॥

[[६६]]

अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः ।
न समस्तेन राजेन्द्र ब्राह्मणेषु तपस्विषु ॥ ७ ॥

न व्रतं तेन तदपि कृतमज्ञानभावतः ।
ब्रवीमि कारणं तत्र शृणु संशयनाशनम् ॥ ८ ॥

वेदशास्त्रपुराणेषु कर्म नानाविधं नृप ।
कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥ ९ ॥

स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः ।
तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ १० ॥

नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः ।
तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥ ११ ॥

अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः ।
तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥ १२ ॥

अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम ।
न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥ १३ ॥

गणेशभजनं मुख्यं सर्वेषां नात्र संशयः ।
सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥ १४ ॥

राजशार्दूल तदपि नराः संस्कारहीनकाः ।
नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥ १५ ॥

तपसा दग्धपापश्च पुण्यराशिः प्रजायते ।
तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥ १६ ॥

अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः ।
जातः पात्रं विजानीहि ज्ञाने गाणेशसञ्ज्ञिते ॥ १७ ॥

अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् ।
समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥ १८ ॥

तत्राऽतिकुण्ठितो जातस्तदर्थं विस्मितः स्वयम् ।
गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥ १९ ॥

अगस्त्य उवाच ।

तपसा जलधिं ब्रह्मन् शोषयामि न संशयः ।
तत्र मे तपसः शक्तिः कुण्ठिताऽभूत् कथं वद ॥ २० ॥

ब्रह्मोवाच ।
शृणु पुत्र महाभाग कारणं कथयामि ते ।
नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥ २१ ॥

गणेशस्मरणं वत्स पूजनं नित्यमादरात् ।
करोषि तेन भवति कर्म ते सफलं मुने ॥ २२ ॥

तथापि नित्यवत्तात चतुर्थी व्रतमुत्तमम् ।
कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥ २३ ॥

चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतम् ।
तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः ॥ २४ ॥

अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः ।
नित्यवत्तन् महाभाग समाचर विशेषतः ॥ २५ ॥

तदा सङ्कटहीनस्त्वं चतुष्पदसमन्वितः ।
पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥ २६ ॥

ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् ।
पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥ २७ ॥

समुद्रं शोषयामास व्रतपुण्यप्रभावतः ।
अचलां गणनाथस्य भक्तिं चकार नित्यदा ॥ २८ ॥

ततस्तेन मुनीन्द्रेषु विख्यातं तत् कृतं व्रतम् ।
नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥ २९ ॥

अन्यच्च शृणु माहात्म्यं पुण्यदं श्रवणान्नृणाम् ।
अवन्तीनगरे वैश्यो बभूवे पापकारकः ॥ ३० ॥

बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् ।
मरणावधि राजेन्द्र वक्तुं तन्न प्रशक्यते ॥ ३१ ॥

[[६७]]

मातृहा द्रव्यलोभार्थं पितृहा सम्बभूव ह ।
गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥ ३२ ॥

ततो लोकैः समाज्ञप्तो राजा तं निरवासयत् ।
ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥ ३३ ॥

जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा ।
तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥ ३४ ॥

ततो बहुधनो जातश्चौराः सम्मिलिताः परे ।
सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥ ३५ ॥

पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः ।
चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥ ३६ ॥

तेषां राजा बभूवाऽसौ भार्या तत्र महीपते ।
समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥ ३७ ॥

यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः ।
चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥ ३८ ॥

मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽयभत् ।
काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥ ३९ ॥

सोऽवन्तीपालको लोकै राजेन्द्रो बोधितस्ततः ।
मार्गरोधभयाच्चौरं तं हन्तुं प्रोद्यतोऽभवत् ॥ ४० ॥

सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः ।
राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥ ४१ ॥

ततस्ते सन्धृतं चौरं पुत्रश्चौरैः समन्वितम् ।
राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥ ४२ ॥

राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप ।
तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥ ४३ ॥

ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता ।
कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥ ४४ ॥

नित्यताडनभावेन दुःखितोऽतितरां खलः ।
क्षुधया पीडितोऽत्यन्तं पापी स निशि चैककः ॥ ४५ ॥

ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् ।
किञ्चिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥ ४६ ॥

पञ्चम्यां स मृतस्तत्र बन्धने ताडितो भृशम् ।
गाणेशैर्ब्रह्मभूतः स कृतः स्वानन्दके पुरे ॥ ४७ ॥

एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः ।
ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥ ४८ ॥

एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ।
तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तम ॥ ४९ ॥

इदं वैशाखमासे वै चतुर्थ्याः संशृणोति चेत् ।
कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥ ५० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥