॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
चैत्रकृष्णचतुर्थी या तां मे वद महामुने ।
न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥ १ ॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २ ॥
कलिङ्गे नृपवर्यश्चोग्रसेनो धर्मतत्परः ।
यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥ ३ ॥
शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः ।
जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥ ४ ॥
तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् ।
अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥ ६ ॥
उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः ।
तथा स्म न शमं यान्ति व्याघ्रा दैवोद्भवा यथा ॥ ६ ॥
लोकाः सम्पीडिता व्याघ्रैर्निनिन्दुस्तं नृपं तदा ।
पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥ ७ ॥
धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः ।
किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥ ८ ॥
स राजर्षिर्दूतमुखाच्छ्रुत्वा दुःखसमन्वितः ।
ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥ ९ ॥
तत्र गत्वा स एकान्ते तताप तप उत्तमम् ।
सूर्यं ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥ १० ॥
[[६४]]
निराहारपरो राजा गते वर्षे बभूव ह ।
अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥ ११ ॥
ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह ।
राजा प्रणम्य तं विप्रं फलैरापूजयत्ततः ॥ १२ ॥
फलानि भक्षयित्वा स उवाच राजसत्तमम् ।
तपः किमर्थं राजन् ते देहं शोषयसे वद ॥ १३ ॥
उग्रसेनस्ततो विप्रं तमुवाच कृताञ्जलिः ।
दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥ १४ ॥
उग्रसेन उवाच ।
करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा ।
तत्र व्याघ्रगणाः क्रूरा नरान् सम्भक्षयन्ति भोः ॥ १५ ॥
शान्तयेऽत्र मया तेषां नानोपायाः कृता मुने ।
अपरास्ते भवन्तीह तदर्थं तप आचरम् ॥ १६ ॥
राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् ।
निन्दयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥ १७ ॥
द्विज उवाच ।
महापापी त्वमेवासि कर्मदूषणतो नृप ।
चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥ १८ ॥
सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ।
तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥ १९ ॥
चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् ।
व्याघ्रास्तद्दोषभावेन पीडयन्ति च मानवान् ॥ २० ॥
एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः ।
श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥ २१ ॥
जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् ।
कृताञ्जलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥ २२ ॥
उग्रसेन उवाच ।
किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा ।
आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥ २३ ॥
अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् ।
ज्ञात्वा तं देवदेवशं भजिष्यामि विशेषतः ॥ २४ ॥
द्विज उवाच ।
शृणु राजन् गणेशस्य स्वरूपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ २५ ॥
चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः ।
पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ २६ ॥
असम्प्रज्ञातसंस्थश्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ २७ ॥
भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता ।
भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके ॥ २८ ॥
तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा ।
तं भजस्व विधानेन तदा शं लभसे नृप ॥ २९ ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् ।
विधियुक्तं ततः सूर्योऽन्तर्धानं प्रचकार ह ॥ ३० ॥
राजा स्वनगरे गत्वा प्रधानैरनुमोदितः ।
कथयामास वृत्तान्तं सर्वेभ्यः सुखदायकम् ॥ ३१ ॥
तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता ।
तां चकार विधानेन गणेशे भक्तिसंयुतः ॥ ३२ ॥
समीपे नागराः संस्था नरा ग्रामान्तरे स्थिताः ।
चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीम् ॥ ३३ ॥
तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह ।
भयाद्धठेन चक्रुस्ते जना भूमिस्थिताः परे ॥ ३४ ॥
ततो व्याघ्रा महोग्राः स्म सर्वेऽन्तर्धानमाययुः ।
रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः ॥ ३५ ॥
[[२३]]
राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
गुरुरूपेण भानुं स पूजयामास नित्यदा ॥ ३६ ॥
गते काले ततः पुत्रं स संस्थाप्य महामतिः ।
राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥ ३७ ॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥ ३८ ॥
एवं व्रतस्य माहात्म्यं लेशतः कथितं मया ।
अन्यच्छृणु महाभाग पापनाशकरं परम् ॥ ३९ ॥
द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः ।
भिल्लैः संस्कारहीनश्च सम्बन्धं स चकार ह ॥ ४० ॥
एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् ।
कञ्चित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥ ४१ ॥
पपाल सोऽपि दूरं वै नरो भयसमन्वितः ।
ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥ ४२ ॥
तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप ।
ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥ ४३ ॥
भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः ।
निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥ ४४ ॥
दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी ।
तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा ॥ ४५ ॥
जलान्नसंविहीनोऽयं बभूवे पापकारकः ।
चन्द्रोदये फलं तत्र पपात नृप वृक्षतः ॥ ४६ ॥
दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् ।
पञ्चम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥ ४७ ॥
एवं नाना जना राजन् व्रतस्यैव प्रभावतः ।
इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्म प्रलेभिरे ॥ ४८ ॥
तत्र ते कति शक्यं न वक्तुं वर्षायुतैरपि ।
नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम् ॥ ४९ ॥
अज्ञानेन कृतं दुष्टैर्व्रतं गाणेश्वरं महत् ।
ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥ ५० ॥
इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः ।
शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेद् ध्रुवम् ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥