॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
ब्रह्मन् श्रुत्वा च वै माघी सङ्कष्टीजं सुविस्मितः ।
माहात्म्यं सर्वदं पुण्यं सर्वसङ्कटहारकम् ॥ १ ॥
फाल्गुने कृष्णपक्षे या चतुर्थी सङ्कटी मता ।
तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥ २ ॥
वसिष्ठ उवाच ।
पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् ।
वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥ ३ ॥
प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः ।
एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥ ४ ॥
वेदोपनिषदि प्रोक्तं ब्रह्म वेदान्तपारगम् ।
ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥ ५ ॥
एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् ।
तदा खेदसमायुक्तः सोऽतिष्ठच्छङ्करं स्मरन् ॥ ६ ॥
ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः ।
तं दृष्ट्वा नारदं रक्षः प्रणनाम कृताऽञ्जलिः ॥ ७ ॥
पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् ।
स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुतः ॥ ८ ॥
ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् ।
न लेभे तन् महत् ज्ञानं किं करोमि महामुने ॥ ९ ॥
[[६२]]
नारद उवाच ।
शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम ।
शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥ १० ॥
चतुर्विधं जगद्ब्रह्म सङ्कष्टं सम्मतं बुधैः ।
तन्नाशार्थं व्रतं मुख्यं सङ्कष्टीसञ्ज्ञकं कुरु ॥ ११ ॥
एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् ।
तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥ १२ ॥
रावण उवाच ।
कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो ।
यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥ १३ ॥
न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः ।
सर्वादौ सम्मतं विप्र सर्वसिद्धिप्रदायकम् ॥ १४ ॥
एवं पृष्टो महायोगी नारदस्तमुवाच ह ।
हर्षेण महता युक्तो रावणं लोकरावणम् ॥ १५ ॥
नारद उवाच ।
महज्ज्ञानं कथयितुं गणेशस्य न शक्यते ।
उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥ १६ ॥
गणः समूहरूपश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरादियोगेऽयं समूहो जायते यतः ॥ १७ ॥
देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् ।
संयोगायोगरूपं यण्णकाराक्षरगं मतम् ॥ १८ ॥
तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मतः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १९ ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् ।
रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥ २० ॥
यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि ।
अतो गणेशमन्त्रो न त्याज्यो रक्षः कदाचन ॥ २१ ॥
एवमुक्त्वा महातेजा नारदोऽन्तर्दधे स्वयम् ।
रावणस्य तदा प्राप्ता सङ्कष्टी फाल्गुनी नृप ॥ २२ ॥
सा कृता तेन हर्षेण विधियुक्तेन कर्मणा ।
व्रतपुण्यप्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥ २३ ॥
चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः ।
जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥ २४ ॥
ततो ज्ञानं समालब्धं रावणेन महात्मना ।
ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥ २५ ॥
दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमम् ।
नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥ २६ ॥
अहं गणेशरूपश्च नाऽन्यो जगति वर्तते ।
न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥ २७ ॥
ततो ज्ञानमदेनैव त्यक्तो मन्त्रः सुखप्रदः ।
व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥ २८ ॥
नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् ।
धर्मलोपे रतोऽत्यन्तं चकार कर्मखण्डनम् ॥ २९ ॥
तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् ।
राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥ ३० ॥
दशरथ उवाच ।
अहं वन्ध्यश्च विप्रेश रावणश्च प्रवर्तते ।
किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥ ३१ ॥
वसिष्ठ उवाच ।
कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः ।
जघान रावणं वीरो गाणपत्यबलान्वितः ॥ ३२ ॥
अन्यच्छृणु चरित्रं त्वं फाल्गुने सङ्कटीभवम् ।
सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥ ३३ ॥
महाराष्ट्रे द्विजः कश्चित् पापकर्मा बभूव ह ।
ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरतोऽभवत् ॥ ३४ ॥
[[६३]]
चाण्डालैर्योनिसम्बन्धं पुत्रपुत्रीसमुद्भवम् ।
चकार मन्दधीः सोऽपि मद्यमांसपरायणः ॥ ३५ ॥
स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः ।
द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥ ३६ ॥
तत्र फाल्गुनमासे सा चतुर्थी कृष्णगाऽऽगता ।
संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥ ३७ ॥
तत्र कश्चिन्नृपः सैन्यैश्चतुरङ्गैः समागतः ।
तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥ ३८ ॥
महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् ।
किञ्चिद्दिवसशेषे तत् सम्पूर्णगतमाभवत् ॥ ३९ ॥
ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः ।
जगाम स्वगृहं चन्द्रोदये दुष्टः क्षुधातुरः ॥ ४० ॥
बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये ।
तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥ ४१ ॥
ततो गणेशदूतैः स नीतः स्वानन्दके पुरे ।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ ४२ ॥
अज्ञानव्रतपुण्येन विधिहीनेन भो नृप ।
मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥ ४३ ॥
एतादृशा महाभागा विधियुक्ता विधिं विना ।
व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥ ४४ ॥
तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि ।
भवामि नृप माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ ४५ ॥
इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता ।
तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥