२० माघकृष्णचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् ।
अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥ १ ॥

नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदं परम् ।
धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥ २ ॥

अधुना सङ्कटायाश्च माहात्म्यं वद विस्तरात् ।
न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥ ३ ॥

मुद्गल उवाच ।

एवं पृष्टो महायोगी वसिष्ठस्तमुवाच ह ।
तच्छृणुष्व प्रजानाथ श्रवणानन्ददायकम् ॥ ४ ॥

वसिष्ठ उवाच ।

तव भावं विदित्वाऽहं सन्तुष्टो नृपसत्तम ।
पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥ ५ ॥

न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः ।
कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥ ६ ॥

कथां शृणु महाभाग चतुर्थीसंश्रितां पराम् ।
कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥ ७ ॥

[[२०]]

अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
महापुण्यप्रदः पूर्णश्रवणात् पठनाद्भवेत् ॥ ८ ॥

सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः ।
सभायां गानसंयुक्तो बभूवे भूपसेवितः ॥ ९ ॥

तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम् ।
तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत् ॥ १० ॥

दूतैः सञ्ज्ञापितो राजा विमानं द्रष्टुमुत्सुकः ।
स ययौ नगरप्रान्ते पुरवासिभिरावृतः ॥ ११ ॥

तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः ।
प्रणनाम पदा गत्वा दण्डवत् पृथिवीतले ॥ १२ ॥

पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः ।
हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः ॥ १३ ॥

शूरसेन उवाच ।

धन्यं जन्म वयो दानं पितरौ नगरादिकम् ।
कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः ॥ १४ ॥

वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलात् ।
लालसस्ते विमानं च कथं निपतितं भुवि ॥ १५ ॥

न जाने केन पुण्येन सर्वेषां दर्शनं च ते ।
जातं देवसमूहेन वदाज्ञां किं करोम्यहम् ॥ १६ ॥

विमानचलने यत्नं कुरु त्वं देवनायक ।
केन पापेन ते यानं पतितं तद्वदस्व मे ॥ १७ ॥

एवं पृष्टो महातेजा महेन्द्रस्तमुवाच ह ।
विनीतं भक्तिसंयुक्तं राजेन्द्र हर्षसंयुतः ॥ १८ ॥

इन्द्र उवाच ।

कैवर्तको महापापी नामा विघ्नेशमाभजत् ।
मुद्गलेनोपदिष्टश्च नाममन्त्रपरायणः ॥ १९ ॥

सहस्रे तद्वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः ।
भ्रूमध्यान्निःसृता शुण्डा भ्रूशुण्डी चाऽभवन् मुनिः ॥ २० ॥

तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ।
दर्शनार्थं गतोऽहं तु सम्पूज्येह समागमम् ॥ २१ ॥

अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः ।
विमानं पतितं भूमौ तव दूतस्य मानद ॥ २२ ॥

यदि सङ्कष्टिका राजंश्चतुर्थी कृष्णपक्षगा ।
साधिता व्रत भावन तस्याः पुण्यं प्रदीयताम् ॥ २३ ॥

तदा विमानमेवेदं चलेदत्र न संशयः ।
नान्यथा पुरुषार्थश्च विमानचलनं भवेत् ॥ २४ ॥

एतस्मिन्नन्तरे तत्र विमानं च द्वितीयकम् ।
समागतं गणेशस्य दूतयुक्तं महाद्भतम् ॥ २५ ॥

तत्रैव नगरे भूप चाण्डाली पापकारिणी ।
अन्धा कुष्ठयुताऽत्यन्तं कृमिभारसमाकुला ॥ २६ ॥

पूयशोणितदिग्धाङ्गा दुर्गधेन समावृता ।
बभूव भिक्षया सा वैरता जठरपोषणे ॥ २७ ॥

पौषकृष्णतृतीयायां निशा किञ्चावशेषिता ।
मद्यपानं तया तत्र कृतं सुष्वाप निर्भया ॥ २८ ॥

मद्यपानबलेनैव निद्रां लेभे तथाऽन्त्यजा ।
चतुर्थ्यामुदिते चन्द्रे जाते जागरिताऽभवत् ॥ २९ ॥

ततोऽपि क्षुधयाऽऽविष्टा रात्री भिक्षार्थमेव च ।
बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा ॥ ३० ॥

पञ्चम्यां सा मृता तत्र नृप सङ्गृह्य गाणपाः ।
विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम् ॥ ३१ ॥

गच्छन्ती वायुना स्पृष्टा विमानेन्त्यजजा नृप ।
स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम् ॥ ३२ ॥

व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान् ।
विमानं चालयामास देवेन्द्रस्य महाद्भुतम् ॥ ३३ ॥

[[५९]]

तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः ।
ज्ञानदृष्टया च तज्ज्ञात्वा शशंसू राजसत्तमम् ॥ ३४ ॥

इन्द्रे स्वर्ग गते देवै राजा स्वनगरं ययौ ।
विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत् ॥ ३५ ॥

मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम् ।
चकार स यथान्यायमङ्गारकयुतं पुरा ॥ ३६ ॥

माघे कृष्णचतुथ्यों स कृत्वा व्रतमनुत्तमम् ।
पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवत् ॥ ३७ ॥

एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ।
गणेशदूतसंयुक्तं शूरसेनपुरे महत् ॥ ३८ ॥

विमानाद्गण नाथस्य दूता उत्तीर्य तं नृपम् ।
जगुर्वतप्रभावेण चल राजन् गणेश्वरम् ॥ ३९ ॥

दूतानां वचनं श्रुत्वा राजा विस्मितमानसः ।
प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः ॥ ४० ॥

शूरसेन उवाच ।

आरभ्य जन्मतो देवा अद्यावधि मया हठात् ।
यत्किचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम् ॥ ४१ ॥

अधुना तान् परित्यज्य कथं यामि गजाननम् ।
ततस्तं गणराजस्य दूता ऊचुः शृणुष्व तत् ॥ ४२ ॥

गाणपत्या ऊचुः ।
नागरैः सह राजेन्द्र चल त्वं विघ्ननायकम् ।
यथाविधि व्रतस्यैव प्रभावेण महामते ॥ ४३ ॥

यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते ।
अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ॥ ४४ ॥

ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह ।
नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत् ॥ ४५ ॥

ततो गाणेशकैस्तत्र विमानं चालितं नृप ।
न चचाल जडीभूतं ध्यानयुक्ता बभूविरे ॥ ४६ ॥

ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः ।
तान् प्रणम्य जगादाऽसौ राजेन्द्रो रोदनाकुलः ॥ ४७ ॥

महापापी च वैश्योऽयं यस्य दृष्टया पपात ह ।
विमानं सुरनाथस्य तथापि शृणुत प्रियाः ॥ ४८ ॥

किमनेन कृतं पापं मां ततो वदत ह्यहम् ।
प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ॥ ४९ ॥

ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः ।
शृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः ॥ ५० ॥

बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा ।
माता पतिव्रता चास्य शाकिनी परिकीर्तिता ॥ ५१ ॥

दूर्वो नाम पिता चास्य तपस्वी वेदपारगः ।
पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत् ॥ ५२ ॥

यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत् ।
कदाचिद्गौडपुर्यां का वेश्या रूपवती ययौ ॥ २३ ॥

तां दृष्ट्वा विस्मितोऽत्यन्तं तया रेमे निरन्तरम् ।
हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः ॥ ५४ ॥

पात्रभूषण कायं वै हृत्वा परगृहस्थितम् ।
चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः ॥ ५५ ॥

कदाचित् स निशायां वै नागतः स्वगृहे नृप ।
तदर्थं मुनिमुख्योऽसौ दूर्वो बभ्राम तत्पुरे ॥ ५६ ॥

जनाः केऽपि न विप्रं त्वकथयस्तं विशेषतः ।
पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः ॥ ५७ ॥

गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ ।
निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः ॥ ५८ ॥

[[६०]]

सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो ।
एकपुत्रलेहवशात् पुनस्तं सो गवेषयत् ॥ ५९ ॥

निशीथे निद्रित लोके जनान् पप्रच्छ मार्गगान् ।
वुधः कुत्र प्रदृष्टो मामेकं वदत पुत्रकम् ॥ ६० ॥

एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् ।
ततो भीमोऽत्यजो वृद्धो मिलितस्तं जगाद सः ॥ ६१ ॥

तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः ।
मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥ ६२ ॥

तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुङ्गवः ।
वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥ ६३ ॥

किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक ।
अधुना देहमुत्सृज्य व्रजस्व यममन्दिरे ॥ ६४ ॥

पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः ।
नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥ ६५ ॥

एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः ।
लत्तया ताडयामास पितरं च पुनः पुनः ॥ ६६ ॥

वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः ।
ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥ ६७ ॥

प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः ।
जननी लेहसंयुक्ता पप्रच्छ क स्थितं त्वया ॥ ६८ ॥

गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह ।
तमानय महाभाग ततः स्नानं समाचर ॥ ६९ ॥

मातुर्वचनमेवं स बुधः श्रुत्वा पुनः पुनः ।
क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥ ७० ॥

मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी ।
बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥ ७१ ॥

अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा ।
पितृगौरवभावेन राजा तं न शशास ह ॥ ७२ ॥

पुनर्गृहागतं सा तं सावित्री दुःखसंयुता ।
उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥ ७३ ॥

वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो ।
सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीम् ॥ ७४ ॥

चतुरा करजेष्वेव नरदेहः सुदुर्लभः ।
ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥ ७२ ॥

ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः ।
निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥ ७६ ॥

तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् ।
कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥ ७७ ॥

एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टितः ।
काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥ ७८ ॥

एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोहे ।
अयभद्गुरुपत्नीमेकाकिनी तां सुदुर्मतिः ॥ ७९ ॥

दारुणानि च पापानि एवं नानाविधानि सः ।
चकारान्ते गृहे याम्ये यातनां बुभुजे ततः ॥ ८० ॥

भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः ।
पापाचरणमत्रापि कुरुते दारुणं महत् ॥ ८१ ॥

द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् ।
हन्ति नित्यं सतीनां च स वने दूषकोऽभवत् ॥ ८२ ॥

शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् ।
अस्य स्पर्शन राजेन्द्र सचैलं स्नानमापतेत् ॥ ८३ ॥

दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः ।
जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥ ८४ ॥

[[६१]]

शूरसेन उवाच ।

पापानां गणना नास्ति प्रायश्चित्तं न विद्यते ।
अधुना तादृशं चात्र मया किं क्रियते गणाः ॥ ८५ ॥

कृपया सर्वपापानां प्रायश्चित्तं महाद्भतम् ।
कथ्यतां तत् करिष्यामि देहपातावधिं किल ॥ ८६ ॥

ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः ।
गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥ ८७ ॥

चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतम् ।
चतुर्मुखैश्च सङ्गीतं सुयोगन गजाननम् ॥ ८८ ॥

तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः ।
गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥ ८९ ॥

श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनुर्यथा ।
कुष्ठहीनः स शोभाभियुक्तो वै हर्षितोऽभवत् ॥ ९० ॥

ततः सर्वैः समायुक्तो नगरस्थैविशेषतः ।
चतुराकरजै राजा ययौ विघ्नेश मादरात् ॥ ९१ ॥

स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूताश्च जन्तवः ।
बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥ ९२ ॥

ब्रह्मभूतः स राजेन्द्रो व्रतपुण्यप्रभावतः ।
जन्तुभिः सहितश्चातः कोऽओ वर्णयितुं व्रतम् ॥ ९३ ॥

चतुर्विधं जगत् सर्व सङ्कष्टं सम्मतं नृप ।
तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥ ९४ ॥

इदं माघचतुर्थ्यास्तु सङ्कष्टयाः संशृणोति यः ।
माहात्म्यं वापि पठति सर्वार्थ लभते परम् ॥ ९५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥