॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
वद ब्रह्मन् मले मासे चतुर्थी या समागता ।
वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥ १ ॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥ २ ॥
आन्ध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् ।
नगरे चम्पके भूप शस्त्रास्त्रे पारगो मतः ॥ ३ ॥
नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् ।
देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥ ४ ॥
जित्वा भूमण्डलं सर्वं राज्यं चकार धर्मतः ।
राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥ ५ ॥
तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा ।
यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥ ६ ॥
जनैः कुत्र महीपाल प्रगन्तुं नैव शक्यते ।
तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥ ७ ॥
राजा तथैव दुःखार्तो महाभयपरायणः ।
[[५६]]
नागानां शान्तये सर्वैः पञ्चमी साधिताऽभवत् ॥ ८ ॥
तथा स्म न शमं यान्ति नागाः परमदारुणाः ।
नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥ ९ ॥
तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु ।
राजेन्द्रः खगुरुं तत्र जैमिनिं शरणं ययौ ॥ १० ॥
तं प्रणम्य पुरस्तस्य संस्थितः स कृताञ्जलिः ।
तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥ ११ ॥
पप्रच्छ विनयेनैव युक्तं किमर्थमागतः ।
सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवम् ॥ १२ ॥
सुषेण उवाच ।
स्वामिन् सर्पा अपाराश्च धर्षन्तश्च सदा जनान् ।
न स्थातुं शक्यते तत्र भयसङ्कुलितैर्मुने ॥ १३ ॥
नानोपायाः कृतास्तत्र न शान्तिं लेभिरे ततः ।
तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥ १४ ॥
वद सर्पगणानां च शान्तये किं करोम्यहम् ।
विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥ १५ ॥
वसिष्ठ उवाच ।
एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह ।
स्वशिष्यं निन्दयन् राजंस्तच्छृणुष्व समाहितः ॥ १६ ॥
जैमिनिरुवाच ।
चतुर्थीजं महापापिन्नष्टं राज्ये तव व्रतम् ।
तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥ १७ ॥
चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता ।
तथा सङ्कटनाशित्वात् सङ्कष्टी सा प्रकीर्तिता ॥ १८ ॥
यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् ।
कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥ १९ ॥
एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः ।
कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥ २० ॥
सुषेण उवाच ।
कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् ।
वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥ २१ ॥
जैमिनिरुवाच ।
न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् ।
उपाधिना युतं दुण्ढिं वदामि शृणु तत्त्वतः ॥ २२ ॥
अहं पुरा सुशान्त्यर्थं व्यासं च शरणं गतः ।
मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २३ ॥
तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् ।
यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ २४ ॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥ २५ ॥
तयोः स्वामी गणेशस्तु पश्य वेदे महामते ।
चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते ॥ २६ ॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ २७ ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥ २८ ॥
ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह ।
तत्राऽऽदौ मलमासश्च सम्प्राप्तस्तेन भूमिप ॥ २९ ॥
मलमासे गणेशस्य वरदाख्यं समागतम् ।
सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥ ३० ॥
नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः ।
तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥ ३१ ॥
ततस्तेन सुषेणेन प्रशस्तं भूमिमण्डले ।
कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥ ३२ ॥
अभवन् व्रतपुण्येन सर्पा अन्तर्हिता बभुः ।
लोका रोगादिभिः सर्वे वर्जिता हर्षसंयुताः ॥ ३३ ॥
[[५७]]
पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः ।
नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥ ३४ ॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
षडक्षरेण मन्त्रेण विधियुक्तेन पूजयन् ॥ ३५ ॥
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ ।
तत्र विघ्नेशमेवं सोऽपूजयञ्जपतत्परः ॥ ३६ ॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥ ३७ ॥
स्वान्ते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे ।
व्रतस्यैव प्रभावेण न किञ्चिद् दुर्लभं भवेत् ॥ ३८ ॥
अन्यच्छृणु महीपाल चरितं मलमासगम् ।
पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥ ३९ ॥
हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः ।
बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह ॥ ४० ॥
द्रव्यलोभार्थमेवं स्वजनकं स जघान ह ।
परस्त्रीलालसः पूर्णश्चौरकर्मपरोऽभवत् ॥ ४१ ॥
एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा ।
वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥ ४२ ॥
एतस्मिन्नन्तरे तत्र सर्पेणैव महीपते ।
दष्टः सोऽपि भयोद्विग्नो गृहे गन्तुं मनो दधे ॥ ४३ ॥
ततो विषेण संव्याप्तो देहस्तेन पपात ह ।
दैवयोगेन तत्राऽसौ जलान्नरहितोऽभवत् ॥ ४४ ॥
शुक्लपक्षे मले मासे चतुर्थी सा तिथिस्तदा ।
तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥ ४५ ॥
पञ्चम्यां स मृतस्तत्र वने घोरे महाखलः ।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ४६ ॥
नाना जना व्रतेनैव ब्रह्मभूता बभूविरे ।
इह भुक्त्वाऽखिलान् भोगानन्ते वक्तुं न शक्यते ॥ ४७ ॥
इदं चतुर्थीमाहात्म्यं मलमासे शृणोति चेत् ।
शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमञ्जसा ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥