॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् ।
न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥ १ ॥
वसिष्ठ उवाच ।
अङ्गदेशे पुरं श्रीमच्छततारं बभूव ह ।
राजा राज्यं चकाराश्वसेनसञ्ज्ञोऽपि तत्र हि ॥ २ ॥
धर्मेण नीतियुक्तेन नानादानपरायणः ।
देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥ ३ ॥
नानाव्रतपरो राजा यज्वा तेजस्विनां वरः ।
शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥ ४ ॥
सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः ।
राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥ ५ ॥
एवं राज्यं वशं कृत्वा भूतलं स चकार ह ।
ततोऽकस्माज्ज्वरस्तस्य समुत्पन्नोऽतिदाहकः ॥ ६ ॥
ज्वरेण पीडितोऽत्यन्तं निशि निद्रां न चाऽलभत् ।
नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥ ७ ॥
एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः ।
अत्यन्तदुःखितो राजा विललाप भृशातुरः ॥ ८ ॥
विषेण देहपातार्थमुद्यतोऽभून् महीपतिः ।
जगाम सहसा तत्र देवलो योगिसत्तमः ॥ ९ ॥
[[१८]]
तं दृष्ट्वा प्रणनामाथ पूजयामास बान्धवैः ।
भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥ १० ॥
अश्वसेन उवाच ।
धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् ।
अधुना सफलं दानं येन ते दर्शनं मुने ॥ ११ ॥
ज्वरेण पीडितोऽत्यन्तं विषपाने महामुने ।
तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥ १२ ॥
मृतोऽहं विषपानेनात्महत्यां न लभे कदा ।
तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥ १३ ॥
एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः ।
उवाच भावगम्भीरः सर्वशास्त्रार्थतत्त्ववित् ॥ १४ ॥
देवल उवाच ।
राज्ये नष्टं त्वदीये यच्चतुर्थीसञ्ज्ञितं व्रतम् ।
तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥ १५ ॥
चतुःपदार्थदं पूर्णं सर्वादौ सम्मतं परम् ।
न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥ १६ ॥
त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् ।
चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥ १७ ॥
एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् ।
कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥ १८ ॥
अश्वसेन उवाच ।
अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् ।
अधुना वद माहात्म्यं गणेशस्य महामुने ॥ १९ ॥
देवल उवाच ।
गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते ।
उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥ २० ॥
असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् ।
सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥ २१ ॥
पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः ।
जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥ २२ ॥
मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः ।
ममाश्रमे न किञ्चिन् माऽवदत् सोऽपि महायशाः ॥ २३ ॥
तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् ।
अकर्मकारकश्च स्म देहरक्षणतत्परः ॥ २४ ॥
ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च ।
शान्तियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥ २५ ॥
ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले ।
मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥ २६ ॥
अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः ।
तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥ २७ ॥
त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलम् ।
तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥ २८ ॥
एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् ।
मया तेषु महायोगी दृष्टः सम्पूजितोऽमरैः ॥ २९ ॥
ततोऽकस्मान् महायोगी सोऽन्तर्धानं चकार ह ।
तद् दृष्ट्वा सिद्धसङ्घांश्चापृच्छं तैः कथितं नृप ॥ ३० ॥
ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् ।
ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥ ३१ ॥
तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः ।
सम्पूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥ ३२ ॥
तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् ।
छलनायां समायुक्तं दयया त्वं दयानिधे ॥ ३३ ॥
जैगीषव्य उवाच ।
हिंसात्मकं कुरुष्व त्वं कर्म मा यत्नधारकः ।
ब्रह्माहमिति बोधेन शमी दमपरो भव ॥ ३४ ॥
[[५४]]
यदाज्ञावशगं सर्वं वर्तते तं भजस्व च ।
तेन योगी त्वमेवेह भविष्यसि न संशयः ॥ ३५ ॥
जैगीषव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत ।
अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥ ३६ ॥
ततः स्म पितरः सर्वे महत् कुर्वन्ति रोदनम् ।
अहो कर्म परित्यज्य देवलो न उपेक्षते ॥ ३७ ॥
अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः ।
देवलेन न सन्देहः क्षुधाविष्टास्तृषा युताः ॥ ३८ ॥
तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः ।
मया दृष्टा ओषधयो महत् कुर्वन्ति रोदनम् ॥ ३९ ॥
अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः ।
निर्लज्जः पुनरेवाऽसौ छेदयिष्यति दुर्मतिः ॥ ४० ॥
ततोऽहं नितरां खिन्नो ह्युभयत्रैव सङ्कटात् ।
विचार्य स्वहिते सक्तः शमी दमपरोऽभवम् ॥ ४१ ॥
सर्वाभयस्वभावेन कर्मणा योगसेवया ।
क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम् ॥ ४२ ॥
तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनोऽभवं पुनः ।
अगमं पितरं तत्र योगीन्द्रैर्वन्दितं स्तुतम् ॥ ४३ ॥
तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् ।
योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥ ४४ ॥
असित उवाच ।
संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल ।
चतुर्विधं समुत्पन्नं तत्त्यजस्व समाधिदम् ॥ ४५ ॥
अयोगेन च संयोगो दृश्यते योगिभिः कदा ।
संयोगायोगयोर्योगो योगशान्तिप्रदो मतः ॥ ४६ ॥
भजस्व गणराजं त्वं तदर्थं नित्यमादरात् ।
सदा योगस्वरूपं तं शान्तिदं योगिनोऽब्रुवन् ॥ ४७ ॥
संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके ।
तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥ ४८ ॥
एवमुक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परम् ।
गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥ ४९ ॥
ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप ।
गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥ ५० ॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ।
योगिवन्द्योऽभवं राजंस्तथापि गणपं भजे ॥ ५१ ॥
गते वर्षे समायातो गणेशो भक्तवत्सलः ।
स्तुतः सम्पूजितस्तत्र मया हृष्टेन चेतसा ॥ ५२ ॥
ततो मां गाणपत्यं स पितृतुल्यं महोदरः ।
कृत्वा स्वानन्दके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥ ५३ ॥
उक्त्वा दशाक्षरं मन्त्रं ददावेवं नृपाय च ।
अन्तर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥ ५४ ॥
ततः स राजशार्दूलो गणेशभजने रतः ।
तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥ ५५ ॥
तां चकार जनैः सर्वैः पुरवासिभिरादरात् ।
उपोषणसमायुक्तः पञ्चम्यां पारणे रतः ॥ ५६ ॥
ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह ।
जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥ ५७ ॥
ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् ।
शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥ ५८ ॥
आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः ।
व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः ॥ ५९ ॥
[[५५]]
पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः ।
सस्त्रीक एकान्ते सोऽभूदभजद्गणनायकम् ॥ ६० ॥
अन्ते स्वानन्दगो राजा ब्रह्मभूतो बभूव ह ।
क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥ ६१ ॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् ।
कथितं ते महाराज पुनः शृणु कथानकम् ॥ ६२ ॥
गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् ।
बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥ ६३ ॥
स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा ।
वधे रतो गुरुं चैव मारयामास मन्दधीः ॥ ६४ ॥
गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह ।
एवं नानाविधं पापं चकार नित्यमादरात् ॥ ६५ ॥
एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः ।
अत्यन्तं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥ ६६ ॥
दैवयोगेन शुक्ला सा श्रावणे सुसमागता ।
चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥ ६७ ॥
पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादरात् ।
रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥ ६८ ॥
कालेन निधनं प्राप्तं तं नेतुं च समागताः ।
दुष्टं सङ्गृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥ ६९ ॥
अज्ञानव्रतजेनैव पुण्येन क्षत्रियो ययौ ।
स्वानन्दं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥ ७० ॥
एवं नाना जनाद्याश्च चतुर्थीव्रतपुण्यतः ।
ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥ ७१ ॥
इदं श्रावणगायाश्च वरदायाः पठेन्नरः ।
माहात्म्यं शृणुयाच्चेद्वा स सर्वं संल्लभेत् फलम् ॥ ७२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥