॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत् ।
चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम् ॥ १ ॥
वसिष्ठ उवाच ।
मैथिले विषये राजन्नगरं गण्डकी महत् ।
तत्र राज्यं भद्रसेनश्चकारामिततेजसा ॥ २ ॥
शस्त्रास्त्रनिपुणोऽत्यन्तं परराष्ट्रावमर्दनः ।
जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्कितम् ॥ ३ ॥
राज्यं चकार धर्मेण नीत्या दण्डेन भूमिप ।
यज्वा विनीतको मानी द्विजदेवातिथिप्रियः ॥ ४ ॥
वशगाः सर्वराजानः सेवन्ते स्म नराधिपम् ।
अपारसेनया युक्तं करदा इतरेऽभवन् ॥ ५ ॥
तस्य राज्ये शुका राजन् शलभा मूषकास्तथा ।
अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकं बलात् ॥ ६ ॥
तेषां नाशार्थमत्यन्तं भद्रसेनः प्रतापवान् ।
अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून् ॥ ७ ॥
अग्न्यस्त्रेण समन्तात्तान् दग्धानपि च तादृशान् ।
ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः ॥ ८ ॥
यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः ।
अशक्तः स वने गत्वा बभूव ह सुदुःखितः ॥ ९ ॥
उपोषणपरो राजा तताप तप उत्तमम् ।
शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः ॥ १० ॥
गते वर्षे महायोगी बकदाल्भ्यः समाययौ ।
तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम् ॥ ११ ॥
राजा तं पूजयामास सम्भोज्य नयसंयुतः ।
पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा ॥ १२ ॥
भद्रसेन स्वाच ।
स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः ।
अत्यन्तं पीडयन्ति स्म जनान्मां भक्षणे रताः ॥ १३ ॥
तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः ।
राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात् ॥ १४ ॥
शङ्करं सम्भजंस्तत्र दर्शनं ते महामते ।
प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो ॥ १५ ॥
वसिष्ठ उवाच ।
भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः ।
जगाद बकदाल्भ्यः स तं भूपं हर्षयन्निव ॥ १६ ॥
बकदाल्भ्य उवाच ।
शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम ।
शृणु मे परमं वाक्यं दुःखनाशकरं महत् ॥ १७ ॥
राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह ।
चतुर्थी सञ्ज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रतम् ॥ १८ ॥
प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे ।
राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः ॥ १९ ॥
सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो ।
चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम् ॥ २० ॥
न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम् ।
चतुःपदार्थहीनत्वाद्विचारय महामते ॥ २१ ॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदाल्भ्यकः ।
कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद्वचः ॥ २२ ॥
भद्रसेन उवाच ।
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः ॥ २३ ॥
बकदाल्भ्य उवाच ।
पुरावृत्तं मदीयं यच्चेष्टितं शृणु भूमिप ।
तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः ॥ २४ ॥
पुराऽहं तपसा युक्तो वायुमात्राशनोऽभवम् ।
चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥ २५ ॥
[[१७]]
तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् ।
बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥ २६ ॥
तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् ।
तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥ २७ ॥
शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् ।
असाधयं सदाऽत्यन्तं मनोनिग्रहतत्परः ॥ २८ ॥
एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् ।
ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥ २९ ॥
ततो मयाऽतिमोहेन शून्यं स्वाधीनरूपकम् ।
दृष्टं तेनाऽभवं भ्रान्तो ब्रह्मणि त्वीदृशं कथम् ॥ ३० ॥
ततोऽहं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः ।
प्रसन्नं शङ्करं दृष्ट्वाऽवदं योगं वद प्रभो ॥ ३१ ॥
शिव उवाच ।
सत्यासत्यसमानानि सहजेन युतानि वै ।
निजात्मबोधतो विद्धि स्वानन्दादुद्भवानि च ॥ ३२ ॥
संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः ।
अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥ ३३ ॥
संयोगश्च तथा योगस्तयोर्योगो महामते ।
योगशान्तिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥ ३४ ॥
योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् ।
तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥ ३५ ॥
संयोगश्च गकाराख्यो णकारो योगवाचकः ।
तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥ ३६ ॥
एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे ।
एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥ ३७ ॥
प्रणम्य शङ्करं भूप गतोऽहं वनमेव च ।
अभजं गणराजं तं ध्यात्वा जपपरायणः ॥ ३८ ॥
ततस्तत्कृपया शान्तिर्मया प्राप्ता विशेषतः ।
तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥ ३९ ॥
ततो मां दर्शयामास रूपं शुण्डाविराजितम् ।
दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥ ४० ॥
भक्तिं दत्त्वा गणाधीशो ह्यन्तर्धानं चकार मे ।
तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥ ४१ ॥
एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः ।
अन्तर्धानं गणेशस्य स चकार द्विजोत्तमः ॥ ४२ ॥
बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः ।
चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥ ४३ ॥
ततः स नागरैः सार्धं चकार व्रतमुत्तमम् ।
आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥ ४४ ॥
ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥ ४५ ॥
शुकाश्च मूषकास्तत्र शलभा नाशमाययुः ।
धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥ ४६ ॥
नानादुःखं परित्यज्यानन्देनैव समावृताः ।
अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ ४७ ॥
राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् ।
तत्र तं गणराजं सोऽभजतानन्यभावतः ॥ ४८ ॥
अन्ते स्वानन्दगो भूत्वा सस्त्रीकोऽजसमुद्भव ।
ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥ ४९ ॥
अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् ।
आषाढे वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥ ५० ॥
[[५२]]
बङ्गदेशे समुत्पन्नो वाणिजः पापकारकः ।
स्वधर्मं स परित्यज्य दृष्टकर्मरतोऽभवत् ॥ ५१ ॥
द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः ।
बलात् धृत्वाऽभुङ्क्त परस्त्रियं वशमनागताम् ॥ ५२ ॥
तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः ।
असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥ ५३ ॥
विषबाधासमायुक्तः स ममार ददाह तम् ।
ततो मातरमागम्य धनं जग्राह वै बलात् ॥ ५४ ॥
लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् ।
तस्य दुष्टस्य ते तत्र व्यथिताः सम्बभूविरे ॥ ५५ ॥
जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः ।
चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥ ५६ ॥
शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया ।
तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥ ५७ ॥
तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् ।
पञ्चम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥ ५८ ॥
अज्ञानव्रतपुण्येन स स्वानन्दगतोऽभवत् ।
महापापी व्रतस्यैव प्रभावेण महीपते ॥ ५९ ॥
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ।
एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥ ६० ॥
तत्रैवं कति सङ्ख्यातुं शक्यते न कदाचन ।
वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥ ६१ ॥
यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् ।
वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥ ६२ ॥
इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् ।
शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥