॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम् ।
चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो ॥ १ ॥
वसिष्ठ उवाच ।
आन्ध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः ।
शस्त्रास्त्रनिपुणोऽत्यन्तं नानाधर्मपरायणः ॥ २ ॥
वशं भूमण्डलं यस्य समुद्रान्तं बभूव ह ।
तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत् ॥ ३ ॥
दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽतिदारुणः ।
अग्निवद् दाहको देहे पापेन प्रेरितः परः ॥ ४ ॥
तेनातिपीडितो राजा मूत्रितुं न शशाक सः ।
रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम् ॥ ५ ॥
नानोपायाः कृतास्तेन शान्तो रोगो बभूव न ।
ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम् ॥ ६ ॥
वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम् ।
सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह ॥ ७ ॥
तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः ।
तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणनाम सः ॥ ८ ॥
स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत् ।
ततोऽतिदाहसंयुक्तः पपात च रुरोद सः ॥ ९ ॥
तादृशं नृपनाथं स दृष्ट्वा योगीन्द्रसत्तमः ।
ध्यानेनालोक्य राजानमुवाच दयया युतम् ॥ १० ॥
भरद्वाज उवाच ।
शृणु कर्दम राजेन्द्र वचनं मे हितावहम् ।
येन दुःखविहीनस्त्वं भविष्यसि महामते ॥ ११ ॥
[[४८]]
चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके ।
तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥ १२ ॥
अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते ।
पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि ॥ १३ ॥
भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः ।
कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥ १४ ॥
कर्दम उवाच ।
भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकम्पितः ।
व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥ १५ ॥
भरद्वाज उवाच ।
सङ्कष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके ।
व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥ १६ ॥
सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप ।
चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥ १७ ॥
अतो हीनश्चतुर्भिस्त्वं स जनो नरके नृप ।
पतिष्यसि न सन्देहस्तदर्थं यत्नमाचर ॥ १८ ॥
एवमुक्त्वा स माहात्म्यं चतुर्थीसम्भवं नृप ।
कथयामास भूपाय श्रुत्वा राजा ननन्द ह ॥ १९ ॥
पुनः पप्रच्छ तं विप्रं भरद्वाजं स कर्दमः ।
गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥ २० ॥
भरद्वाज उवाच ।
गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप ।
न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम् ॥ २१ ॥
पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् ।
सर्वं चराचरं राजन् मदधीनं बभूव ह ॥ २२ ॥
तथाऽपि तपसोग्रेणाऽसाधयं तु तपः पुनः ।
ततोऽन्तर्ज्ञानभावे मे मतिर्जाता सुपुण्यतः ॥ २३ ॥
तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् ।
जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥ २४ ॥
ततः क्रमेण भो राजन्नसत्स्वानन्दगोऽभवम् ।
तत्र सम्पूर्णयोगेन शान्तिं प्राप्तो विशेषतः ॥ २५ ॥
तस्माद्भेदादिकं सर्वमुत्पन्नं तु विशेषतः ।
तद् दृष्ट्वा क्षुभितोऽत्यन्तं शान्तिहीनो यथाऽभवम् ॥ २६ ॥
ततोऽकस्माद्रैवतो यो महायोगी समागतः ।
आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥ २७ ॥
स्वासने सुखमासीनमब्रवं तं महामुनिम् ।
अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥ २८ ॥
वद मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान् ।
तिष्ठामि शान्तिगो भूत्वा ययाऽहं योगधारकः ॥ २९ ॥
रैवत उवाच ।
स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेतितः ।
चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥ ३० ॥
अयोगः स्वस्वरूपेण हीनः सर्वत्र सम्मतः ।
तयोर्योगो भरद्वाज योगशान्तिप्रदायकः ॥ ३१ ॥
स्वसंवेद्यो गकारश्च णकारो योग उच्यते ।
तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥ ३२ ॥
तं भजस्व महाभाग ततः शान्तिमवाप्स्यसि ।
नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥ ३३ ॥
एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा ।
तेनाऽहं शान्तिमापन्नो गाणपत्यश्चरामि वै ॥ ३४ ॥
एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम् ।
एकाक्षरं गणेशस्य सविधिं न्याससंयुतम् ॥ ३५ ॥
पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् ।
भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥ ३६ ॥
ततः शान्तिं समापन्नो तथापि भजने रतः ।
गतेषु दशवर्षेषु विघ्नेशस्तं समाययौ ॥ ३७ ॥
[[४९]]
तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् ।
स साम्नामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥ ३८ ॥
ततो मां गाणपत्यं स कृत्वा स्वानन्दगोऽभवत् ।
गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥ ३९ ॥
एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् ।
अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ ४० ॥
ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः ।
कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥ ४१ ॥
तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता ।
चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥ ४२ ॥
वरदं सङ्कटं शुक्ले चतुर्थीजं च कृष्णके ।
न करोति नरो यः स सन्ताड्यो नगराद्बहिः ॥ ४३ ॥
प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् ।
कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥ ४४ ॥
प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः ।
कर्दमः स स्वकीयं वै राज्यं पुत्राय सन्ददौ ॥ ४५ ॥
वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा ।
गणेशं सर्वभावेन सोऽन्ते तन्मयतामयात् ॥ ४६ ॥
तस्य राज्ये जनाः सर्वे ते क्रमेण महामते ।
अभवन् ब्रह्मभूताश्च व्रतपुण्यप्रभावतः ॥ ४७ ॥
कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम् ।
गौडदेशेऽन्त्यजः कश्चिद्वभूवे पापकारकः ॥ ४८ ॥
वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा ।
योनिलम्पटभावेन दूषितामकरोत् स्त्रियम् ॥ ४९ ॥
वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा ।
धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥ ५० ॥
एवं नानास्वभावेन पापं चक्रे स नित्यशः ।
एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ ॥ ५१ ॥
पलायत भयोद्विग्नो हाहाकारपरायणः ।
तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः ॥ ५२ ॥
तैर्हतः शस्त्रघातेन पपात धरणीतले ।
तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥ ५३ ॥
स उपोषणयुक्तश्च बभूवे दैवयोगतः ।
ममार पीडया युक्तः पञ्चम्यां पापरूपकः ॥ ५४ ॥
अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह ।
चाण्डालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥ ५५ ॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ॥ ५६ ॥
तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते ।
अपारमहिमा तस्मादानन्त्यं कथितं द्विजैः ॥ ५७ ॥
इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः ।
पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥ ५८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥
[[५०]]