१५ वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

अधुना शुक्लगायास्तु वैशाखे चरितं वद ।
चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात् ॥ १ ॥

वसिष्ठ उवाच ।

गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम् ।
तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् ॥ २ ॥

सर्वशास्त्रार्थसम्पन्नो यज्वा दानप्रियः सदा ।
देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत् ॥ ३ ॥

सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः ।
बभूव बलसम्पन्नः सर्वमान्यो महामतिः ॥ ४ ॥

तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः ।
द्वितीया च कृता पत्नी समशीला नृपेण ह ॥ ५ ॥

साऽपि तद्वन् मृता राजन्नेवं पञ्च मृतास्ततः ।
पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत् ॥ ६ ॥

[[४५]]

राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम् ।
स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः ॥ ७ ॥

श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम् ।
संस्थाप्य कुशलत्वेन मानयामास हर्षितः ॥ ८ ॥

भोजयित्वा स राजानं महत् पप्रच्छ कारणम् ।
किमर्थं राजशार्दूल कृतमागमनं त्वया ॥ ९ ॥

वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात् ।
ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः ॥ १० ॥

एवं पृष्टः स राजर्षिस्तं प्रणम्य कृताञ्जलिः ।
जगाद सर्वं वृत्तान्तं पत्नीनाशात्मकं स्वयम् ॥ ११ ॥

तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः ।
ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुतः ॥ १२ ॥

श्वेतकेतुरुवाच ।
नृपाधम महापापिन् शृणु मे वचनं हितम् ।
व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः ॥ १३ ॥

चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम् ।
नारकी च भवत्यन्ते स नरो नात्र संशयः ॥ १४ ॥

चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप ।
चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः ॥ १५ ॥

श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः ।
प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुतः ॥ १६ ॥

ब्रह्मप्रिय उवाच ।

अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत् ।
अनाचरणकं तेन क्षमस्व करुणानिधे ॥ १७ ॥

वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम् ।
पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै ॥ १८ ॥

एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत् ।
माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत् ॥ १९ ॥

ब्रह्मप्रिय उवाच ।

कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम् ।
स्वरूपं वद मे तस्य भजिष्यामि तमादरात् ॥ २० ॥

श्वेतकेतुरुवाच ।
शृणु राजन् पुरावृत्तं कथयामि समासतः ।
मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम् ॥ २१ ॥

अहं पुरा तपोनिष्ठो बभूवातितरां नृप ।
उद्दालकं प्रणम्यैव पितरं साधने रतः ॥ २२ ॥

ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः ।
जगाद स्नेहसंयुक्तः शान्तिदाता महायशाः ॥ २३ ॥

उद्दालक उवाच ।

पुत्र शान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते ।
कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन् ॥ २४ ॥

कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद ।
चित्ते चिन्तामणिं तात पश्य पश्य विशेषतः ॥ २५ ॥

पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम् ।
वद तात स्वपुत्राय ज्ञानं शान्तिप्रदं महत् ॥ २६ ॥

चित्तं च कीदृशं तात तत्र चिन्तामणिः कथम् ।
सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः ॥ २७ ॥

वसिष्ठ उवाच ।

एवं पृष्टो महायोगी तमारुणिरुवाच ह ।
हर्षेण महता युक्तो गाणपत्यस्वभाववान् ॥ २८ ॥

उद्दालक उवाच ।

शृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ २९ ॥

चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसञ्ज्ञितम् ॥ ३० ॥

तत्र प्रकाशकर्ताऽसौ हृदि चिन्तामणिः स्थितः ।
साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनात् ॥ ३१ ॥

[[१५]]

चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मता ।
सिद्धिर्माये गणेशस्य मायाखेलक उच्यते ॥ ३२ ॥

अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
तेन त्वं ब्रह्मभूतत्वं शान्त्या योगेन यास्यसि ॥ ३३ ॥

इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथाऽऽरुणिः ।
एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम् ॥ ३४ ॥

तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम् ।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवं ततः ॥ ३५ ॥

अतस्त्वमपि राजेन्द्र भजस्व गणनायकम् ।
तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम् ॥ ३६ ॥

ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः ।
एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम् ॥ ३७ ॥

विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययो ।
श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा ॥ ३८ ॥

तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता ।
चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः ॥ ३९ ॥

तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान् ।
शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप ॥ ४० ॥

राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम् ।
पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत् ॥ ४१ ॥

मन्त्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः ।
व्रतयुक्तस्तथाऽन्ते स ब्रह्मभूतो बभूव ह ॥ ४२ ॥

ब्रह्मप्रियेति नामाऽभूत् तदेवं सार्थकं कृतम् ।
तेन राज्ञा महाभाग गाणपत्यस्वभावतः ॥ ४३ ॥

तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप ।
क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानन्दके पुरे ॥ ४४ ॥

उद्दालकश्वेतकेतू गाणपत्यस्वभावतः ।
अवधूतौ तु विख्यातौ बभूवाते महाप्रभू ॥ ४५ ॥

श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात् ।
सर्वेभ्यः सुखदाऽत्यन्तं तां शृणुष्व विशेषतः ॥ ४६ ॥

कदाचिदारुणिस्तत्र सस्त्रीकः स्वाश्रमे स्थितः ।
आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः ॥ ४७ ॥

जगाद स्त्रियमेवं स आरुणेः कामविह्वलः ।
मैथुनाय समागच्छ मया सह सुरूपिणि ॥ ४८ ॥

तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत् ।
मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः ॥ ४९ ॥

तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः ।
एवं चेत् पतिमेकं वृणोति सा कामिनी कथम् ॥ ५० ॥

अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम् ।
असमञ्जसकं मत्वा मर्यादां कारयाम्यहम् ॥ ५१ ॥

अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम् ।
स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः ॥ ५२ ॥

अथवा पुरुषं कञ्चित् पतिं त्यक्त्वा च कामिनी ।
गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत् ॥ ५३ ॥

यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक ।
तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः ॥ ५४ ॥

तदादि संवृता स्त्री सा सेवते भावतः पतिम् ।
विनायकप्रसादेन तेनेयं स्थापिताऽभवत् ॥ ५५ ॥

प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितम् ।
माहात्म्यमन्यदधुना चतुर्थीसम्भवं शृणु ॥ ५६ ॥

महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पटोऽभवत् ।
तदर्थं तेन मद्यस्य कृतं पानं विशेषतः ॥ ५७ ॥

[[४७]]

चौर्येण धनमादाय हिंसाकर्मपरायणः ।
नानापापरतो भूत्वा परस्त्रियमसेवत ॥ ५८ ॥

जगाम शूद्रगेहे स एकदा कामविह्वलः ।
धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह ॥ ५९ ॥

एवं किञ्चिद्गते काले शूद्रः स्वगृहमागतः ।
तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः ॥ ६० ॥

तस्मिन् दिने समायाता चतुर्थी दैवयोगतः ।
तत्र शस्त्राभिघातस्य पीडया संयुतोऽभवत् ॥ ६१ ॥

अन्नादिभिर्विहीनश्च पञ्चम्यां स ममार ह ।
ततः स्वानन्दके लोके जगाम भृशपूजितः ॥ ६२ ॥

वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः ।
ब्रह्मभूतः स वै जातो महापापपरायणः ॥ ६३ ॥

अज्ञानव्रतजेनैव पुण्येनाऽसौ द्विजाऽधमः ।
ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा ॥ ६४ ॥

नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप ।
बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते ॥ ६५ ॥

एतद् वैशाखशुक्लायाश्चतुर्थ्याः शृणुयात्तु यः ।
माहात्म्यं प्रपठेद्वाऽपि स लभेदीप्सितं फलम् ॥ ६६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥