॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया ।
शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु ॥ १ ॥
अतो मां चैत्रगाया यद्वरदायाश्चरित्रकम् ।
गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम् ॥ २ ॥
वसिष्ठ उवाच ।
बङ्गालं नगरं ख्यातं शोभाभद्राख्यमुत्तमम् ।
तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् ॥ ३ ॥
शस्त्रास्त्रैः शत्रुसङ्घातान् जित्वा वीरश्रिया युतः ।
सागरान्तां धरित्रीं स चकार वशवर्तिनीम् ॥ ४ ॥
सामन्ता वशगाः सर्वे चक्रुः सेवादिकं नृपाः ।
तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः ॥ ५ ॥
स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु ।
संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयत् ॥ ६ ॥
चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम् ।
तथापि रोगसंयुक्ता नरा नार्योऽभवन् हि वै ॥ ७ ॥
वन्ध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः ।
राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत् ॥ ८ ॥
नागरादय ऊचुः ।
वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः ।
अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात् ॥ ९ ॥
तथापि रोगदोषैश्च वन्ध्यदोषैर्विशेषतः ।
धनधान्यविहीनाश्च पीडिता वयमुत्कटम् ॥ १० ॥
पृथिवी रसहीना वै फलहीना महीरुहाः ।
गावो दुग्धविहीनाश्च तव राज्ये महामते ॥ ११ ॥
धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः ।
विपरीतं महाराज त्वयि राज्यं प्रशासति ॥ १२ ॥
अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान् ।
अस्माकं बलमत्यन्तं त्वमेव परमं मतम् ॥ १३ ॥
वसिष्ठ उवाच ।
चन्द्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः ।
प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ १४ ॥
वने गन्तुं मनश्चक्रे ततस्तत्राऽऽजगाम ह ।
अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः ॥ १५ ॥
सम्पूज्य भोजयामास पादसंवाहने रतः ।
स्वयं स्थितो महाविप्रमूचेऽसौ दुःखसंयुतः ॥ १६ ॥
चन्द्रप्रिय उवाच ।
धन्यं मे जन्म कर्मादि पिता माता तपो यशः ।
दानं ज्ञानं तथा योगिन् त्वत्पादयुगदर्शनात् ॥ १७ ॥
ततः सर्वं स्ववृत्तान्तं कथयामास यत्नतः ।
अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् ॥ १८ ॥
अष्टावक्र उवाच ।
राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते ।
तेन दुःखयुता सर्वा प्रजा जाता न संशयः ॥ १९ ॥
चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम् ।
चतुर्थीसञ्ज्ञकं नष्टं तव राज्ये नृपाधम ॥ २० ॥
पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम् ।
अन्ते नरकगा राजन् भविष्यन्ति त्वया सह ॥ २१ ॥
अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः ।
उवाच दुःखसंयुक्तो वचनं स्वहितप्रदम् ॥ २२ ॥
चन्द्रप्रिय उवाच ।
ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम् ।
कीदृशं कस्य देवस्य प्रियमित्यादिकं प्रभो ॥ २३ ॥
अष्टावक्र उवाच ।
कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप ।
सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये ॥ २४ ॥
इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः ।
चतुर्थीसम्भवं तात श्रुत्वा राजा सुविस्मितः ॥ २५ ॥
[[४३]]
पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः ।
कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥ २६ ॥
वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः ।
व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥ २७ ॥
अष्टावक्र उवाच ।
गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते ।
तथापि शृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥ २८ ॥
पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः ।
सुरूपका अप्सरसो याताश्चलयितुं ततः ॥ २९ ॥
तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः ।
मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥ ३० ॥
इति मद्गिरमाकर्ण्य भयभीताः समन्ततः ।
ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥ ३१ ॥
अवदं तत्र विष्णुर्वै यादवेषु भविष्यति ।
तस्य पत्न्यो भविष्यन्त्योऽन्ते चौराणां भविष्यथ ॥ ३२ ॥
गता अप्सरसो राजंस्ततोऽहं तप आचरम् ।
प्रभावेणातितपसोऽन्तर्ज्ञानं मेऽभवत् परम् ॥ ३३ ॥
ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् ।
नानायोगविचारेण समाधिं साधयन्नृप ॥ ३४ ॥
एवमन्ते समानन्दे संस्थितोऽहं विशेषतः ।
तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥ ३५ ॥
ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामते ।
ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥ ३६ ॥
वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः ।
प्रणम्याऽहं विशेषेणापूज्योवाचं महामुनिम् ॥ ३७ ॥
धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा ।
तव पादस्य योगेन कृतकृत्योऽस्मि साम्प्रतम् ॥ ३८ ॥
एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः ।
किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥ ३९ ॥
ततस्तं प्रणतो भूत्वा कृताञ्जलिपुटः पुनः ।
अवदं योगशान्तिं मे वद योगीन्द्रसत्तम ॥ ४० ॥
ऋभुरुवाच ।
संयोगः पञ्चधा तात सदसत्समनेतितः ।
स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥ ४१ ॥
अयोगः पञ्चभिर्हीनो निवृत्या लभ्यते जनैः ।
तयोर्योगे भवेद्योगो लभ्यते शान्तिमार्गतः ॥ ४२ ॥
तमेव गणराजं त्वं ज्ञात्वा भज महामते ।
तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचित् ॥ ४३ ॥
संयोगो हि गकारश्च णकारोऽयोगवाचकः ।
तयोः स्वामी गणेशानः पश्य वेदे महामते ॥ ४४ ॥
अहं पुरा युतो भ्रान्त्या नानायोगपरायणः ।
अभवं तत्र भो विप्र सहजेन समाश्रितः ॥ ४५ ॥
स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः ।
शरणं शङ्करस्यैव गतोऽहं योगकाम्यया ॥ ४६ ॥
शङ्करेणोपदिष्टः स्म भजामि गणनायकम् ।
एकाक्षरविधानेन तेन शान्तिं गतोऽभवम् ॥ ४७ ॥
एवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ ऋभुः ।
एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गतोऽभवम् ॥ ४८ ॥
अष्टावक्रः प्रसन्नात्मा योगिवन्द्यो महायशाः ।
तस्मै नृपाय मन्त्रं स ददौ द्वादशवर्णकम् ॥ ४९ ॥
सविधिं मन्त्रराजं तं दत्त्वा चान्तर्हितोऽभवत् ।
राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत् ॥ ५० ॥
[[४४]]
तत्रादौ चैत्रमासे या नृप शुक्ला समागता ।
चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा ॥ ५१ ॥
ततः स घोषयामास व्रतं जनपदेषु तत् ।
शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा ॥ ५२ ॥
ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः ।
नानादोषविहीनास्ते विहारं चक्रुरादरात् ॥ ५३ ॥
चन्द्रप्रियो गणेशानमभजन्नान्यचेतसा ।
पुत्रे राज्यं निवेद्यैव सस्त्रीको वनगोऽभवत् ॥ ५४ ॥
ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः ।
स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूव ह ॥ ५५ ॥
क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः ।
ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप ॥ ५६ ॥
अन्यत्त्वं शृणु चैत्रे वै शुक्लपक्षे चतुर्थिका ।
तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम् ॥ ५७ ॥
मालवे शूद्रजः पापी कोऽवसन् वनगोचरान् ।
जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः ॥ ५८ ॥
तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहम् ।
समर्थो गणना त्यक्ता ग्रन्थबाहुल्यदोषतः ॥ ५९ ॥
तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम् ।
वञ्चयित्वा जनान् घ्नन्तं तत्र सर्पो ददंश ह ॥ ६० ॥
ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत ।
ततो विषेण राजेन्द्र पीडितो मूर्च्छितोऽभवत् ॥ ६१ ॥
दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप ।
चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः ॥ ६२ ॥
पञ्चम्यां स मृतः पापी गतः स्वानन्दके पुरे ।
व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज ॥ ६३ ॥
एवं नानाविधा राजन् ब्रह्मभूता बभूविरे ।
तेषां चरित्रकं वक्तुं शक्यते न मया कदा ॥ ६४ ॥
इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संशृणोति चेत् ।
माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा ॥ ६५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः ॥