१३ फाल्गुनशुक्लचतुर्थीचरित्रवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् ।
पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥ १ ॥

वसिष्ठ उवाच ।

फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् ।
तस्या माहात्म्यमाद्यं ते सङ्क्षेपेण ब्रवीम्यहम् ॥ २ ॥

मालवे नगरं ख्यातं सर्वशोभासमन्वितम् ।
भारकं सर्वधर्मज्ञैर्लोकैस्तत् सङ्कुलं बभौ ॥ ३ ॥

तत्र हेमाङ्गदो राजा चकार राज्यमुत्तमम् ।
जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥ ४ ॥

प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसम्मतः ।
पुत्रैस्तेजोयुतैर्युक्तो द्विजदेवातिथिप्रियः ॥ ५ ॥

ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह ।
उदरे शस्त्रसम्पातैरिव युक्तो रुरोद ह ॥ ६ ॥

नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् ।
मन्त्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥ ७ ॥

तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः ।
असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥ ८ ॥

ततः शूलेन राजाऽतिपीडितो दारुणेन वै ।
विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः ॥ ९ ॥

ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः ।
तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥ १० ॥

ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः ।
उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥ ११ ॥

हेमाङ्गद उवाच ।

धन्यं मे जन्म दानादि पिता माता कुलादिकम् ।
स्वधर्मपुत्रदारादि त्वदङ्घ्रियुगदर्शनात् ॥ १२ ॥

ततोऽतिपीडया युक्तः पपात धरणीतले ।
रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥ १३ ॥

पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः ।
किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥ १४ ॥

सचिवा ऊचुः ।
शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः ।
तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने ॥ १५ ॥

श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः ।
ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥ १६ ॥

पर्वत उवाच ।

शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् ।
वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतम् ॥ १७ ॥

चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः ।
तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥ १८ ॥

पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् ।
कृत्वा करपुटं भूप विनयावनतो वचः ॥ १९ ॥

हेमाङ्गद उवाच ।

कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा ।
कस्यैव पूजनं तत्र वद मे सर्वमञ्जसा ॥ २० ॥

पर्वत उवाच ।

सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् ।
चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ॥ २१ ॥

ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् ।
तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥ २२ ॥

कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥ २३ ॥

पर्वत उवाच ।

पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् ।
तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥ २४ ॥

अहं तपसि सन्तिष्ठन्नानायत्नपरायणः ।
संव्याप्तं तपसा सर्वं मदीयेन महामते ॥ २५ ॥

[[४०]]

इन्द्रः प्रक्षुभितोऽत्यन्तं काममप्सरसा युतम् ।
प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥ २६ ॥

ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः ।
तपसस्तेजसा सत्यं पलायत स सैनिकः ॥ २७ ॥

ततोऽहं तपसा युक्तोऽन्तर्निष्ठश्चाऽभवं नृप ।
तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥ २८ ॥

नानाभूमिपरो जातस्ततोऽतिभाग्य गौरवात् ।
निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥ २९ ॥

दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः ।
अपूजयं विधानेन ततस्तं स्म वदामि वै ॥ ३० ॥

धन्यो मे जनको माता तपो धन्यं जनुस्तथा ।
ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥ ३१ ॥

अधुना वद मे नाथ योगं शान्तिप्रदायकम् ।
येनाऽहं योगिवन्द्यश्च भवेयं साधनान् मुने ॥ ३२ ॥

वसिष्ठ उवाच ।

इति पृष्टो महातेजा निदाघस्तमुवाच ह ।
पर्वतं तपसा शुद्धं प्रहृष्टेनान्तरात्मना ॥ ३३ ॥

निदाघ उवाच ।

शृणु वृत्तं मदीयं ते कथयामि पुरातनम् ।
येन योगीन्द्र वन्द्यश्च जातोऽहं योगसेवया ॥ ३४ ॥

अहं योगार्थमत्यन्तं योगभूमिपरायणः ।
असाधयं महायोगं ब्रह्मभूयकरं परम् ॥ ३५ ॥

ततोऽन्तेऽहं सदानन्दे समः स्वानन्दकेऽभवम् ।
संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकम् ॥ ३६ ॥

द्वन्द्वैः सर्वत्र संव्याप्तं द्वन्द्वे तद् योगरूपि च ।
तेन शान्तिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥ ३७ ॥

तं प्रणम्य महात्मानमवदं वद शान्तिदम् ।
योगं विष्णो महायोगिन् येन शान्तो भवाम्यहम् ॥ ३८ ॥

विष्णुरुवाच ।
योगशान्तिप्रदं तात गणेशं विद्धि मानद ।
तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः ॥ ३९ ॥

मनोवाणीमयं विद्धि गकारं च तयोः परम् ।
मनोवाणीविहीनं तं णकारं योगिसम्मतम् ॥ ४० ॥

तयोः स्वामी गणाधीशस्तं भजस्व विधानतः ।
ततः शान्तिं महाभाग लभसे नाऽत्र संशयः ॥ ४१ ॥

एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः ।
तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥ ४२ ॥

एकाक्षरस्य मन्त्रस्य सन्तुष्टोऽभूद्गजाननः ।
गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥ ४३ ॥

ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् ।
ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥ ४४ ॥

स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः ।
योगशान्तिं गणेशानो दत्त्वा मे प्रजगाम ह ॥ ४५ ॥

तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै ।
भजस्व गणराजं त्वमतस्तं शान्तिदं परम् ॥ ४६ ॥

एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् ।
एकाक्षरं विधानेन ततः सोऽन्तर्हितोऽभवत् ॥ ४७ ॥

पर्वत उवाच ।

भजामि गणनाथं स्म ततोऽहं नित्यमादरात् ।
तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः ॥ ४८ ॥

अपूजयं हि गणपं ततो नित्यं तपोन्वितः ।
ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥ ४९ ॥

स्तुतः सम्पूजितो मे स भक्तिं दत्त्वा महामते ।
स्वानन्दे स गतो राजन् भक्तानन्दविवर्धनः ॥ ५० ॥

[[१३]]

एवमुक्त्वा पर्वतस्तं ददौ मन्त्रं दशाक्षरम् ।
गणेशस्य महाराज ततश्चान्तर्हितोऽभवत् ॥ ५१ ॥

राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः ।
फाल्गुने भूप शुक्लस्थचतुर्थीसञ्ज्ञकं परम् ॥ ५२ ॥

ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप ।
शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥ ५३ ॥

ततः शुलव्यथाहीनो बभूवे राजसत्तमः ।
दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥ ५४ ॥

पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः ।
धनधान्यादिभिः सर्वे मुमुदुर्भूमिमण्डले ॥ ५५ ॥

ततो हेमाङ्गदो राजा भक्त्या विघ्नेशमुत्तमैः ।
उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥ ५६ ॥

पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शान्तिसंयुतः ।
गणेशं सर्वभावेनान्ते च तन्मयतामयात् ॥ ५७ ॥

क्रमेण भूमिसंस्था ये नराः स्वानन्दगा बभुः ।
भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥ ५८ ॥

अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् ।
भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥ ५९ ॥

बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् ।
हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥ ६० ॥

परस्त्रीलम्पटो नित्यं यौवने सोऽतिदारुणः ।
पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥ ६१ ॥

शस्त्रधारी वने गत्वा जन्तून् जघ्ने स नित्यशः ।
द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥ ६२ ॥

एवं पापसमाचारो वने कस्मिन् दिने स्थितः ।
वैश्यं दृष्ट्वा च तं हन्तुमधावत् स वधप्रियः ॥ ६३ ॥

पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् ।
तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषाऽऽययुः ॥ ६४ ॥

ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् ।
राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥ ६५ ॥

राज्ञाऽऽज्ञप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् ।
नाविदन् ब्राह्मणं राजंश्चिक्षिपुर्निगडे द्विजम् ॥ ६६ ॥

ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता ।
बद्धस्तत्र निराहारो बभूवे स नराधमः ॥ ६७ ॥

पञ्चम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः ।
दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥ ६८ ॥

स स्वानन्दपुरे नीतो गाणपत्यैर्नृपात्मज ।
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६९ ॥

एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे ।
तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥ ७० ॥

फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत् ।
पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥ ७१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥

[[४२]]