॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते ।
न तृप्यामि महायोगिन्नमृतादधिकं मतम् ॥ १ ॥
माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् ।
वद येन जनाः सर्वे भवन्ति सुखभोगिनः ॥ २ ॥
वसिष्ठ उवाच ।
माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः ।
कश्यपस्य गृहे साक्षादङ्गारकयुता नृप ॥ ३ ॥
मुद्गल उवाच ।
एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् ।
कथयामास भो दक्ष देवान्तकवधाश्रितम् ॥ ४ ॥
श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः ।
पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात ॥ ५ ॥
तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह ।
हर्षेण महता युक्तो गाणपत्येन्द्रसत्तमः ॥ ६ ॥
वसिष्ठ उवाच ।
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥ ७ ॥
कर्णाटे भानुपुर्यां च राजा परमधार्मिकः ।
देवविप्रातिथिप्रेप्सुर्नीत्या राज्यं चकार सः ॥ ८ ॥
शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् ।
जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमम् ॥ ९ ॥
भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता ।
धर्मशीला रता दाने बभूवे रूपशालिनी ॥ १० ॥
तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् ।
अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥ ११ ॥
स तु शौनकनामानं मुनिं सर्वार्थकोविदम् ।
ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥ १२ ॥
महावनं समासाद्य तं ननाम महामुनिम् ।
साष्टाङ्गं च पुरस्तस्य कृताञ्जलिपुटोऽभवत् ॥ १३ ॥
उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः ।
धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥ १४ ॥
वदन्तमेवं राजानमुवाच शौनको मुनिः ।
सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ १५ ॥
शौनक उवाच ।
पुरा राजन् महाभाग वद मां सकलं तव ।
चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥ १६ ॥
एवं पृष्टो मुनीन्द्रेण सोमस्तं प्रत्युवाच ह ।
हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥ १७ ॥
सोम उवाच ।
कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः ।
अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥ १८ ॥
[[३७]]
धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् ।
तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥ १९ ॥
तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् ।
राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥ २० ॥
श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् ।
शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥ २१ ॥
शौनक उवाच ।
शृणु राजन् महत् पापं तव राज्ये बभूव ह ।
तेन रोगयुता लोका वन्ध्यतादोषसंयुताः ॥ २२ ॥
तत्रापि यन् महद् दुःखमनावृष्टिसमुद्भवम् ।
सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥ २३ ॥
चतुर्थीसञ्ज्ञकं राजन् व्रतं नष्टं विशेषतः ।
शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥ २४ ॥
नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा ।
अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥ २५ ॥
इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् ।
नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥ २६ ॥
पुनः पप्रच्छ भावेन शौनकं मुनिसत्तमम् ।
वद ब्रह्मन् गणेशस्य स्वरूपं शान्तिदं परम् ॥ २७ ॥
शौनक उवाच ।
पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वआश्रमे ।
अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः ॥ २८ ॥
ततोऽकस्मान् महायोगी भृगुरस्माकमेव सः ।
बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥ २९ ॥
तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् ।
आसने समुपावेश्याऽपूजयं च स्वभक्तितः ॥ ३० ॥
कृताञ्जलिपुटं नम्रं पुरस्तस्य महात्मनः ।
संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥ ३१ ॥
भृगुरुवाच ।
तात किं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व माम् ।
किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥ ३२ ॥
अस्मत्कुले महाभाग भवान् साधुगुणान्वितः ।
तेनाऽहं तृप्तिमायातः पूरयिष्यामि वाञ्छितम् ॥ ३३ ॥
एवं ब्रुवन्तमाद्यं तं मुनिमानम्य शौनकः ।
जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥ ३४ ॥
शौनक उवाच ।
योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने ।
तेनाऽहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहात् ॥ ३५ ॥
भृगुरुवाच ।
योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् ।
तं भजस्व विधानेन तेन शान्तो भविष्यसि ॥ ३६ ॥
चित्तं पञ्चविधं तात तत्र चिन्तामणिः स्थितः ।
तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥ ३७ ॥
चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते ।
मोहं चित्तं परित्यज्य भव चिन्तामणिः स्वयम् ॥ ३८ ॥
मनोवाणीमयं चित्तं मनोवाणीविवर्जितम् ।
चित्तं जानीहि पुत्र त्वं तत्त्यक्त्वा च सुखी भव ॥ ३९ ॥
एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ ।
शौनकाय महायोगी भृगुश्चान्तर्हितोऽभवत् ॥ ४० ॥
शौनक उवाच ।
भृगुणैवमहं राजन् उपदिष्टोऽभजं परम् ।
गणेशं योगभावेन चित्तनिग्रहणे रतः ॥ ४१ ॥
क्रमेण योगिवन्द्योऽहं जातस्तस्य महात्मनः ।
कृपया गणराजस्य तथापि स्म भजामि तम् ॥ ४२ ॥
[[३८]]
ततो मे वरदो जातो गणेशो भक्तवत्सलः ।
गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥ ४३ ॥
एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ ।
शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥ ४४ ॥
शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः ।
आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः ॥ ४५ ॥
नागरैः सह सोमश्च माघे शुक्लचतुर्थिका ।
सम्प्राप्ता साऽऽदिकाले स चकार व्रतमुत्तमम् ॥ ४६ ॥
ततस्तेन प्रविख्यातं कृतं भूमितले नृप ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४७ ॥
व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च ।
सर्वे हर्षयुता लोका गणेशभजने रताः ॥ ४८ ॥
गणेशभजनं सोमश्चकार प्रेमसंयुतः ।
गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥ ४९ ॥
महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् ।
गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥ ५० ॥
पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् ।
लोकाः सर्वे सुखे मग्ना रोगवन्ध्यत्ववर्जिताः ॥ ५१ ॥
स्वधर्मनिरता नित्यमभजन् गणनायकम् ।
न गणेशसमं किञ्चिद्धारयामासुरादरात् ॥ ५२ ॥
सोमश्चान्ते गणेशानं ययौ लोकसमन्वितः ।
स्वानन्दे तं प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥ ५३ ॥
एतत्ते कथितं भूप तथाऽन्यच्छृणु सुन्दरम् ।
चरित्रं व्रतसम्भूतं सर्वपापप्रणाशनम् ॥ ५४ ॥
कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरेऽवसत् ।
भानुनामा महापापी दुष्टकर्मपरायणः ॥ ५५ ॥
परस्त्रीलम्पटोऽत्यन्तं मद्यद्यूतरतः सदा ।
मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥ ५६ ॥
जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप ।
कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥ ५७ ॥
इत्यादिदोषबाहुल्ययुक्तः परमदारुणः ।
कदाचिद्दैवयोगेन वने बभ्राम सोऽन्त्यजः ॥ ५८ ॥
तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका ।
तत्रान्नजलहीनोऽयं पर्वतान्तरगोऽभवत् ॥ ५९ ॥
न प्राप्तवान् वने किञ्चिद् दुष्टस्तेन सुदुःखितः ।
क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥ ६० ॥
प्रभाते विमले सद्यः समुत्थाय गृहागतः ।
तृषितः स जलं तत्र पपावत्यन्तमादरात् ॥ ६१ ॥
ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप ।
ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥ ६२ ॥
गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः ।
सायुज्यं गणनाथस्य लेभे वै तत्प्रभावतः ॥ ६३ ॥
अज्ञानव्रतजेनैव पुण्येनान्त्यजजातिजः ।
ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥ ६४ ॥
एतादृशी महापुण्या चतुर्थी शुक्लगा मता ।
माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥ ६५ ॥
एवं नाना जना भूप ब्रह्मभूता बभूविरे ।
कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥ ६६ ॥
माघे शुक्लचतुर्थ्यां यो महिमानं शृणोति चेत् ।
पठेद्वा तस्य भो राजन् सिद्धिदं सुभविष्यति ॥ ६७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥
[[३९]]