११ पौषशुक्लचतुर्थीमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

श्रुतं यन् मार्गशुक्लस्थचतुर्थी सञ्ज्ञितं मया ।
व्रतं तेन महाभाग सन्तृप्तो गुरुसत्तम ॥ १ ॥

अधुना पौषमासे या चतुर्थी वरदायिनी ।
तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥ २ ॥

वसिष्ठ उवाच ।

शृणु राजंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहम् ।
विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥ ३ ॥

अवन्तीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः ।
सुदन्त इति विख्यातः सर्वशास्त्रविशारदः ॥ ४ ॥

राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः ।
धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥ ५ ॥

राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् ।
पालयामास भूमिं स नानाधर्मकरः परः ॥ ६ ॥

[[३३]]

सुदन्तस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी ।
बभूव कर्मदोषेण वन्ध्या सा वै पतिव्रता ॥ ७ ॥

अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् ।
तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥ ८ ॥

नाऽभवत्तस्य तदपि पुत्रः परमसौख्यदः ।
विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥ ९ ॥

बभ्राम भ्रान्तचित्तोऽसौ यत्र तत्र महामतिः ।
मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥ १० ॥

तत्राऽऽजगाम योगीन्द्रो वामदेवः प्रतापवान् ।
यदृच्छाविचरंस्तेन दृष्टः सन्नमितोऽभवत् ॥ ११ ॥

पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः ।
जगाद खेदसंयुक्तः सुदन्तो योगिसत्तमम् ॥ १२ ॥

सुदन्त उवाच ।

वामदेव च मे धन्यं दुःखितस्य तपो वयः ।
ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥ १३ ॥

वन्ध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति ।
मृतस्य स्वर्गहीनस्य वद योगीन्द्रसत्तम ॥ १४ ॥

वामदेव उवाच ।

शुणु द्विज महाभाग त्वं सदा धर्मसंयुतः ।
तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥ १५ ॥

अवन्तीपुरपालस्य आदरात्त्वं पुरोहितः ।
राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥ १६ ॥

चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले ।
चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥ १७ ॥

धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया ।
निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥ १८ ॥

एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः ।
विस्मितस्तं सुदन्तोऽसौ जगाद विनयान्वितः ॥ १९ ॥

सुदन्त उवाच ।

कीदृशं तद्व्रतं तात वद मे हितकारकम् ।
चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥ २० ॥

तेन हीनो नरो यस्तु स कथं फलहीनकः ।
कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥ २१ ॥

वसिष्ठ उवाच ।

एवं पृष्टो महायोगी तज्जगाद सविस्तरम् ।
माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥ २२ ॥

पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा ।
गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥ २३ ॥

सुदन्त उवाच ।

कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥ २४ ॥

एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् ।
गणेशबोधदाने स कुशलः सर्वपारगः ॥ २५ ॥

वामदेव उवाच ।

सुदन्त शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् ।
गाणपत्यो येन भक्तिभावितो भविताऽसि भोः ॥ २६ ॥

अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुतः ।
तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥ २७ ॥

ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम ।
शमे दमे परेणान्तर्निष्ठेन मनसो जयात् ॥ २८ ॥

योगभूमिक्रमेणाऽहं कालेन महता द्विज ।
सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥ २९ ॥

सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् ।
दृष्ट्वा शान्त्यर्थमत्यन्तं तत् त्यक्तं च मया ततः ॥ ३० ॥

सन्धृतं मनसि ब्रह्म मनोवाणीविवर्जितम् ।
कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते ॥ ३१ ॥

[[३४]]

अधुना किं मया कार्यं विचार्य शरणं गतः ।
शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणतोऽभवम् ॥ ३२ ॥

शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः ।
शम्भुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥ ३३ ॥

किमर्थमागतस्तात वामदेव महामते ।
वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥ ३४ ॥

शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः ।
अवदं तं महादेवं भक्तवाञ्छासुरद्रुमम् ॥ ३५ ॥

सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो ।
तस्मात् परं न विद्येत तथापि नुद संशयम् ॥ ३६ ॥

ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् ।
स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥ ३७ ॥

अतः शान्त्यर्थमेव त्वामहं प्रष्टुं समागतः ।
योगशान्तिप्रदं पूर्णं वद मां करुणानिधे ॥ ३८ ॥

वसिष्ठ उवाच ।

वामदेववचः श्रुत्वा हर्षितः शङ्करोऽब्रवीत् ।
तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥ ३९ ॥

श्रीशिव उवाच ।

योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने ।
जानीहि न परं ब्रह्म सहजं योगसेवया ॥ ४० ॥

स्वानन्दाद्यत् समुत्पन्नमसत्यं सत्यरूपकम् ।
समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥ ४१ ॥

चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः ।
अयोगे नैव संयोगः केषाञ्चिद्ब्रह्मणां भवेत् ॥ ४२ ॥

गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः ।
णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥ ४३ ॥

तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः ।
शान्त्याऽसौ लभ्यते विप्र शान्तिभ्यः शान्तिदायकः ॥ ४४ ॥

चित्तं पञ्चविधं विद्धि बुद्धिरूपं न संशयः ।
चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥ ४५ ॥

तयोर्बिबं गणेशश्च बिम्बिभावं त्यज प्रभो ।
अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥ ४६ ॥

एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः ।
एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥ ४७ ॥

तं प्रणम्य महेशानं वने यातोऽहमादरात् ।
तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥ ४८ ॥

एकाक्षरविधानेन सन्तुष्टो गणनायकः ।
योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥ ४९ ॥

ततोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मतः ।
तथापि विघ्नदहनमभजं नित्यमादरात् ॥ ५० ॥

गतेषु दशवर्षेषु गणाधीशः समाययौ ।
ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥ ५१ ॥

गणेश उवाच ।

वामदेव महाभाग वरं वृणु हृदीप्सितम् ।
तव दास्यामि भक्त्याऽहं सन्तुष्टो योगिसत्तम ॥ ५२ ॥

गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः ।
प्रणम्य तं गणेशं सम्पूज्य स्तोतुं प्रचक्रमे ॥ ५३ ॥

वामदेव उवाच ।

गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४ ॥

मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक ।
ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५ ॥

आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते ।
आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६ ॥

नानामायाधरायैव मायिभ्यो मोहदायिने ।
मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७ ॥

[[३५]]

विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते ।
ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८ ॥

सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते ।
महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९ ॥

महोग्राय महेशाय विष्णवे प्रभविष्णवे ।
अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६० ॥

पुरुषाय प्रकृतये गुणेशाय गुणात्मने ।
एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१ ॥

भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः ।
योगाय योगनाथाय योगिनां पतये नमः ॥ ६२ ॥

स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् ।
मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३ ॥

सहसैवं संस्तुवतस्तस्य भक्तिरसेन च ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४ ॥

उवाच वामदेवं स नृत्यन्तं विघ्ननायकः ।
वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् ।
शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६ ॥

भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् ।
धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७ ॥

गणेशवचनं श्रुत्वा तं जगाद महामुनिः ।
वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥ ६८ ॥

भक्तिं देहि गणाधीश गाणपत्यां विशेषतः ।
नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥ ६९ ॥

तथेति तमुवाचैव गणेशोऽन्तर्दधे स्वयम् ।
वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥ ७० ॥

तदादि शान्तिमापन्नस्त्वहं विप्र महामते ।
अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि ॥ ७१ ॥

एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः ।
सविधिं वामदेवः सोऽन्तर्धानमकरोन् मुनिः ॥ ७२ ॥

सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् ।
राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥ ७३ ॥

बृहद्रथाय वृत्तान्तं कथयामास भो नृप ।
तदाज्ञया नृपः सद्यो घोषयामास तद्व्रतम् ॥ ७४ ॥

तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता ।
तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥ ७५ ॥

व्रताचरणमात्रेण गर्भयुक्ता बभूव ह ।
मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥ ७६ ॥

ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् ।
शौक्लं कार्ष्णं विशेषेण चतुर्थीसञ्ज्ञितं नृप ॥ ७७ ॥

सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः ।
धनधान्यादिभिर्युक्ता अन्ते स्वानन्दगा बभुः ॥ ७८ ॥

सुदन्तो योगिवन्द्यश्च बभूवे योगसेवया ।
राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥ ७९ ॥

पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् ।
राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥ ८० ॥

वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः ।
तत्र चोरैः समायातैर्लुण्ठितं तैर्धनं महत् ॥ ८१ ॥

तेषां शस्त्राभिघातेन पपात धरणीतले ।
वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥ ८२ ॥

दैवयोगेन सा देवी चतुर्थी शुक्लगा गता ।

[[३६]]

पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥ ८३ ॥

रात्रौ जागरणं तस्य सञ्जातं पीडया तदा ।
पञ्चम्यां स मृतः पापी धनलुब्धो महामते ॥ ८४ ॥

अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते ।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ८५ ॥

एवं जना व्रतेनैव मुक्ताः संसारसागरात् ।
इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥ ८६ ॥

इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् ।
पठेद्वै तस्य भो राजन् सर्वदं प्रभविष्यति ॥ ८७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥