१० मार्गशीर्षशुक्लचतुर्थीवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते ।
मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥ १ ॥

वसिष्ठ उवाच ।

अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥ २ ॥

काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह ।
अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥ ३ ॥

देवद्विजातिथिप्रेप्सुर्नानाधर्मपरायणः ।
प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥ ४ ॥

तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः ।
तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥ ५ ॥

स्वयं पादस्य संवाहं चकार नृपसत्तमः ।
उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥ ६ ॥

अजातशत्रुरुवाच ।
धन्यं मे जन्म पुत्रादि राज्यं निहतकण्टकम् ।
धन्यौ च जनकौ ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ ७ ॥

सर्वसारं वदस्व त्वं योगशान्तिप्रदायकम् ।
येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥ ८ ॥

ततस्तं नारदो योगी गाणपत्याग्रणीर्नृप ।
जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥ ९ ॥

नारद उवाच ।

सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् ।
शृणु ते कथयिष्यामि योगं शान्तिप्रदायकम् ॥ १० ॥

ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः ।
न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥ ११ ॥

ब्रह्मणस्पतिनामानं गणेशं भज भावतः ।
चित्तवृत्तिनिरोधेन चिन्तामणिर्भविष्यसि ॥ १२ ॥

गणेशोऽहं न सन्देहो मम तत्र कथं भवेत् ।
संयोगायोगकं राजन् तेन शान्तिमवाप्स्यसि ॥ १३ ॥

तस्य व्रतं महाभाग चतुर्थीसञ्ज्ञकं महत् ।
राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥ १४ ॥

धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् ।
चतुर्थीसञ्ज्ञकं राजन् वरदं सङ्कटं मतम् ॥ १५ ॥

नानाकर्माणि कुर्वन्ति नराः सर्वार्थसिद्धये ।
चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवन्ति ते ॥ १६ ॥

इत्युक्त्वा तं महायोगी नारदः करुणायुतः ।
माहात्म्यं कथयामास चतुर्थीसम्भवं नृप ॥ १७ ॥

ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः ।
पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥ १८ ॥

अजातशत्रुरुवाच ।
ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते ।
तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥ १९ ॥

नारद उवाच ।

एकाक्षरविधानेन भज ढुण्ढिं विनायकम् ।
तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥ २० ॥

तस्मै स विधिना सर्वं गणेशोपासनं ददौ ।
मन्त्रमेकाक्षरं साङ्गं ततश्चान्तर्हितोऽभवत् ॥ २१ ॥

तत्राऽऽदौ मार्गशीर्षस्था सम्प्राप्ता शुक्लगा नृप ।
चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥ २२ ॥

जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी ।
ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥ २३ ॥

शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः ।
स्त्रियश्चेत्ताडनीयास्ते महापापिन एव च ॥ २४ ॥

ढुण्ढिराजं नृपाध्यक्षो नित्यं सम्पूज्य यत्नतः ।
भक्त्याऽभजत् सम्बभूव योगीन्द्रो योगिसम्मतः ॥ २५ ॥

[[३२]]

ततो बहुगते काले प्रत्यक्षः स गजाननः ।
बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥ २६ ॥

स्तुतः सम्पूजितस्तेन ढुण्ढिराजस्तुतोष ह ।
गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥ २७ ॥

ईप्सितं तं वरं दत्त्वा तत्रैवान्तरधीयत ।
ढुण्ढिराजं तमभजत् राजेन्द्रोऽनन्यचेतसा ॥ २८ ॥

अन्ते नागरसंयुक्तो जगाम गणपं नृपः ।
सर्वैर्बभूव च ब्रह्मभूतो वै योगिसम्मतः ॥ २९ ॥

एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् ।
माहात्म्यं कथितं राजन् सङ्क्षेपेण न संशयः ॥ ३० ॥

अन्यत् कथान्तरं भूप शृणु सर्वभयापहम् ।
वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥ ३१ ॥

मिथिलायां कदाचित् का वेश्या नरविमोहिनी ।
आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥ ३२ ॥

राज्ञा सम्मानिताऽत्यन्तं तत्र वासमरोचयत् ।
कदाचित्तीर्थगा सा वै सन्दृष्टा रक्षसा पुरः ॥ ३३ ॥

तां सङ्गृह्य ययौ रक्षः स्ववासं हर्षसंयुतः ।
सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥ ३४ ॥

रक्षसा सान्त्विता तत्र न शोकं साऽत्यजत् कदा ।
तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥ ३५ ॥

अतिशोकतया राजन्न बभक्ष जलादिकम् ।
पञ्चम्यां सा मृता तत्र भययुक्तेन चेतसा ॥ ३६ ॥

ततो गणेशदूतेन नीता स्वानन्दके पुरे ।
ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥ ३७ ॥

अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् ।
ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥ ३८ ॥

मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः ।
चतुर्थ्या लभते सोऽपि सर्वार्थं संशृणोति यः ॥ ३९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥