०९ कार्तिकशुक्लचतुर्थीवर्णनम्

॥ श्रीगणेशाय नमः ॥

वसिष्ठ उवाच ।

कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा ।
तां शृणुष्व महाभाग इतिहाससमन्विताम् ॥ १ ॥

सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः ।
शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥ २ ॥

धर्मशीलो वदान्यश्च सत्यवाक् साधुसम्मतः ।
देवविप्रातिथिप्राज्ञपञ्चयज्ञपरायणः ॥ ३ ॥

भार्या कलावती तस्य बभूवे रूपशालिनी ।
पतिव्रता महोदारा धर्मशीला विशेषतः ॥ ४ ॥

जित्वा भूमण्डलं सर्वं राजा तेजस्विनां वरः ।
पालयामास पृथ्वीं स नित्यं धर्मपरायणः ॥ ५ ॥

सामन्ता वशगा यस्य सैन्यं स्म गणनातिगम् ।
सम्पच्च धनदेनैव तुल्या सर्वत्र सम्बभौ ॥ ६ ॥

अर्धायुषा समायुक्तो बभूव नृपसत्तमः ।
अकस्मात् कुष्ठसंयुक्तः कीटैः सम्पीडितोऽभवत् ॥ ७ ॥

पूयशोणितघर्मौघैर्व्याप्तो दुर्गन्धिसंयुतः ।
न चाऽलभत् सुखं किञ्चिच्छूलप्रोतो यथा नरः ॥ ८ ॥

औषधानि विशेषेण सिषेवे यत्नसंयुतः ।
नानामन्त्रप्रयोगादि कारयामास मानवैः ॥ ९ ॥

अनुष्ठानं द्विजैः सोऽपि वेदमन्त्रैः सुखप्रदैः ।
अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥ १० ॥

ततस्तीर्थानि बभ्राम स्नानदानपरायणः ।
तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥ ११ ॥

ततो निवृत्तिमापन्नो जगाद सचिवान्नृपः ।
राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥ १२ ॥

सान्त्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् ।
वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥ १३ ॥

ततो गणपतिं राजा सस्मार दुःखसंयुतः ।
विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥ १४ ॥

अकस्मान् मुनिशार्दूल: पुलस्त्यस्तत्र चाययौ ।
तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥ १५ ॥

कृत्वा करपुटं राजोवाच तं मुनिनायकम् ।
किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥ १६ ॥

धन्यं जन्म तथा ज्ञानं जनको जननी च मे ।
तपो धर्मादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १७ ॥

एवं विवदमानं तं जगाद मुनिसत्तमः ।
किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥ १८ ॥

एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः ।
पुलस्त्य उपविश्याथ तमुपावेश्य सम्बभौ ॥ १९ ॥

ततो राज्ञा स्वकीयो वै वृत्तान्तः कथितोऽभवत् ।
जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥ २० ॥

सुधन्वोवाच ।
दयाकराश्च योगीन्द्राः पुराणेषु वदन्ति यत् ।
तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥ २१ ॥

दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम ।
साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥ २२ ॥

सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद ।
धर्मयुक्ततया राज्यं करोमि स्म निरन्तरम् ॥ २३ ॥

पूर्वजन्मकृतं मे किं महापापं समागतम् ।
येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥ २४ ॥

वसिष्ठ उवाच ।

सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः ।
अत्यन्तं पीडितं दृष्ट्वा करुणायुतचेतसा ॥ २५ ॥

पुलस्त्य उवाच ।

इहजन्मकृतं पापं बुद्ध्यसे न नराधम ।
तेन कुष्ठयुतो जातः शृणु तत्ते वदाम्यहम् ॥ २६ ॥

तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् ।
नष्टं चतुर्थीसञ्ज्ञं यत् सर्वसिद्धिप्रदं परम् ॥ २७ ॥

चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ।
तेन प्रोक्ता चतुर्थी सा वरदा सङ्कटा मता ॥ २८ ॥

सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् ।
कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥ २९ ॥

वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति ।
तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥ ३० ॥

मरिष्यसि यदा राजंस्तदा ते नरके गतिः ।
भविष्यति न सन्देहश्चतुर्वर्गविहीनता ॥ ३१ ॥

पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः ।
उवाच तं महाप्राज्ञं कृताञ्जलिपुटोऽभवत् ॥ ३२ ॥

सुधन्वोवाच ।
भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः ।
तदेव सत्यरूपं वै मया ज्ञातं न संशयः ॥ ३३ ॥

[[२९]]

अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् ।
कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥ ३४ ॥

कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो ।
प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥ ३५ ॥

एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुतः ।
तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥ ३६ ॥

पुलस्त्य उवाच ।

अज्ञानेन कृतं दोषं प्रायश्चित्तेन हन्ति तम् ।
नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥ ३७ ॥

तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि ।
अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥ ३८ ॥

इत्युक्त्वा तं ततो योगी जगाद व्रतसम्भवाम् ।
कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥ ३९ ॥

उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः ।
धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥ ४० ॥

नानेन सदृशं किञ्चिन् मया ज्ञातं महामते ।
त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥ ४१ ॥

तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने ।
नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥ ४२ ॥

एवं पृष्टः स राजानं वचनं प्रजगाद ह ।
पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥ ४३ ॥

पुलस्त्य उवाच ।

सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् ।
ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥ ४४ ॥

पुराऽहं योगशान्त्यर्थं नानायोगपरायणः ।
असाधयञ्छमेनैव दमेन मनसो जयात् ॥ ४५ ॥

तथापि शान्तिहीनोऽहं शरणं शङ्करं गतः ।
तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥ ४६ ॥

ततस्तेन समाख्यातं तच्छृणुष्व नराधिप ।
येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥ ४७ ॥

श्रीशिव उवाच ।

योगशान्तिमयं विद्धि गणेशं भज भावतः ।
मनोवाणीविहीनं तं मनोवाणीमयं न च ॥ ४८ ॥

मनोवाणीमयं सर्वं सम्प्रज्ञातसमुद्भवम् ।
गकाराक्षरगं विद्धि पश्य वेदे महामते ॥ ४९ ॥

मनोवाणीविहीनं यदसम्प्रज्ञातगं मतम् ।
णकाराक्षरसम्भूतं नाम्नो गणपतेर्यदि ॥ ५० ॥

तयोः स्वामी गणेशानः शान्त्या योगेन लभ्यते ।
चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥ ५१ ॥

एवमुक्त्वा महादेवो विरराम विशेषवित् ।
तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥ ५२ ॥

अष्टाक्षरेण मन्त्रेण ध्यात्वा गणपतिं नृप ।
अतोषयं विशेषेण चित्तनिग्रहभावतः ॥ ५३ ॥

ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमात्मनि ।
तथापि मन्त्रराजं तमजपं पूजने रतः ॥ ५४ ॥

एकविंशतिवर्षेषु गतेषु स विनायकः ।
आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥ ५५ ॥

तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि ।
स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥ ५६ ॥

गाणपत्यं स मां कृत्वा ययौ स्वानन्दके पुरे ।
तदारभ्याहमत्यन्तं भजामि गणनायकम् ॥ ५७ ॥

एवमुक्त्वा महीपालं तथा दशरथ स्वयम् ।
मन्त्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥ ५८ ॥

तेन स्तुतो महायोगी पुलस्त्योऽन्तर्दधे प्रभुः ।
राजा स्वनगरे गत्वा कार्तिके हर्षितोऽभवत् ॥ ५९ ॥

जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् ।
कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥ ६० ॥

पञ्चम्यां पारणं चक्रे राजाऽसौ जनसंयुतः ।
ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥ ६१ ॥

ततः कुष्ठविहीनश्च बभूव स जनाधिपः ।
सुरूपः कामदेवेन समः शोभाधरो बभौ ॥ ६२ ॥

लोका वन्ध्यत्वदोषेण रोगादिभिः प्रपीडिताः ।
ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥ ६३ ॥

ततस्तेन नृपेणाऽथ सर्वत्र भूमिमण्डले ।
प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥ ६४ ॥

ततः शुक्लां तथा कृष्णां चतुर्थीं चक्रिरे जनाः ।
तेनाऽऽनन्दसमायुक्ता बुभुजुर्विविधं सुखम् ॥ ६५ ॥

ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः ।
एकान्ते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥ ६६ ॥

अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तथा जनाश्च सर्वे ते स्वानन्दस्था बभूविरे ॥ ६७ ॥

एवं ते कथितं राजन्नथो शृणु महामते ।
महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥ ६८ ॥

माहिष्मत्यां च चाण्डालो वसन् कः पापकारकः ।
प्राप्य कार्तिकगां शुक्लां चतुर्थीं स वने गतः ॥ ६९ ॥

तत्र व्याघ्रेण सन्दृष्टः पलायन् वृक्षमारुहत् ।
व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥ ७० ॥

तत्र रात्रिर्गता तस्य चाण्डालस्य प्रजागरः ।
सम्पूर्णश्चाभवद्भूप पुनश्चित्रं बभूव ह ॥ ७१ ॥

समागतो महासर्पो वनस्थो वृक्षमारुहत् ।
पपात भयभीतः स तं दृष्ट्वा कम्पवेगतः ॥ ७२ ॥

व्याघ्रेण सङ्गृहीतः स पञ्चम्यां भक्षितोऽभवत् ।
स विमानं समारुह्य ययौ स्वानन्दकं पुरम् ॥ ७३ ॥

अज्ञातव्रतजेनैव पुण्येन गणपं गतः ।
दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥ ७४ ॥

एवं नृप अपारा वै चतुर्वर्गफलैर्युताः ।
ब्रह्मभूताश्च सञ्जाताश्चतुर्थीव्रतकारकाः ॥ ७५ ॥

कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया ।
कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥ ७६ ॥

शृणुयाद्यः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् ।
पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥ ७७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥

[[३१]]