०८ चतुर्थीव्रतवर्णनम्

॥ श्रीगणेशाय नमः ॥

वसिष्ठ उवाच ।

आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा ।
तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥ १ ॥

इतिहासं प्रवक्ष्यामि पुरातनभवं नृप ।
व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥ २ ॥

रैवतान्तरगो राजा कीर्तिमांश्च बभूव ह ।
मतो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥ ३ ॥

देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः ।
नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥ ४ ॥

भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता ।
सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥ ५ ॥

गजानां च हयानां वै पदातीनां महीपतेः ।
रथानां नैव सङ्ख्याऽस्ति धानुष्काणां विशेषतः ॥ ६ ॥

सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः ।
देवादीनां च सङ्ग्रामे ह्यजेयः परवीरहा ॥ ७ ॥

तस्य वन्ध्यत्वदोषेण नृप पुत्रो बभूव नो ।
नानायत्नपरो राजा पुत्रार्थे प्रबभूव ह ॥ ८ ॥

तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः ।
अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥ ९ ॥

एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः ।
राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥ १० ॥

तत्र भ्रमणयुक्तः स ददर्श ह महावनम् ।
सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥ ११ ॥

दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह ।
वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च ॥ १२ ॥

तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः ।
कृताञ्जलिपुटो भूत्वा तस्थौ स नृपसम्मुखः ॥ १३ ॥

[[२५]]

ततः सौभरिणा सोऽपि सत्कृतो वचनेन च ।
निषसादासने तत्र मुनिना दर्शिते नृपः ॥ १४ ॥

तमुवाच महाभागं राजानं मुनिसत्तमः ।
कोऽसि त्वं वन उग्रे मेऽत्र किमर्थं समागतः ॥ १५ ॥

इति पृष्टो महीपालस्तमुवाच सुहर्षितः ।
कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥ १६ ॥

कीर्तिमानुवाच ।
द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे ।
राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥ १७ ॥

अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम ।
पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥ १८ ॥

राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया ।
तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥ १९ ॥

तव दर्शनमात्रेण सफलो मे भवो भवेत् ।
मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥ २० ॥

अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् ।
उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥ २१ ॥

इह जन्मनि भो विप्र न कृतं पापमुल्बणम् ।
मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥ २२ ॥

तथापि वन्ध्यजो दोषो मया प्राप्तो महामुने ।
पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥ २३ ॥

कथयस्व महोग्रं मे पापं सर्वविदां वर ।
योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मतनोर्धरः ॥ २४ ॥

वसिष्ठ उवाच ।

एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः ।
सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥ २५ ॥

सौभरिरुवाच ।
कृतं त्वया महत्पापं महाराज विशेषतः ।
पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥ २६ ॥

तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् ।
लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥ २७ ॥

चतुर्थीव्रतमाद्यं यन्मानवेन नराधम ।
न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च ॥ २८ ॥

विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् ।
चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥ २९ ॥

चतुर्विधपदार्थानां दात्री सा वरदा मता ।
चतुर्विधं तु सङ्कष्टं हरन्ती सङ्कटी मता ॥ ३० ॥

भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसम्मतम् ।
जनानां व्रतहीनानां पापभागी भवान् मतः ॥ ३१ ॥

अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः ।
तेन वन्ध्यत्वमापन्नो नराधम न बुद्ध्यसे ॥ ३२ ॥

सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह ।
विनयेन समायुक्तो भयभीतश्च पार्थिवः ॥ ३३ ॥

कीर्तिमानुवाच ।
अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना ।
कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥ ३४ ॥

पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते ।
येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥ ३५ ॥

सौभरिरुवाच ।
चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा ।
जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥ ३६ ॥

अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् ।
व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥ ३७ ॥

इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् ।
ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥ ३८ ॥

कीर्तिमानुवाच ।

[[८]]

कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् ।
ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥ ३९ ॥

ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् ।
माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम् ॥ ४० ॥

सौभरिरुवाच ।
पुराऽहं तपसा युक्तो नानाछन्दपरायणः ।
अभवं तत्र देवा वै भयभीता बभूविरे ॥ ४१ ॥

अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः ।
किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्माभिरेव न ॥ ४२ ॥

प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः ।
तपोभङ्गार्थमेवं मे कामस्तत्र समागतः ॥ ४३ ॥

उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा ।
आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥ ४४ ॥

अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया ।
मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥ ४५ ॥

ततो मे तपसोग्रेण दाहयुक्तो बभूव ह ।
कामः पलाय्य सर्वैस्तं मघवन्तं जगाद सः ॥ ४६ ॥

ततोऽहं योगमार्गेणाऽन्तर्निष्ठश्चाभवन्नृप ।
जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥ ४७ ॥

ततः शुको महायोगी गाणपत्यः समागतः ।
ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥ ४८ ॥

ततस्तं प्रणतो भूत्वा कृताञ्जलिः पुरः प्रभोः ।
स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥ ४९ ॥

मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः ।
शान्तिं वद महायोगिन् यया शान्तो भवाम्यहम् ॥ ५० ॥

श्रीशुक उवाच ।

चित्तं पञ्चविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् ।
निरोधेनैव भूमीनां शान्तिं प्राप्स्यसि निश्चितम् ॥ ५१ ॥

चिन्तामणिं भजस्व त्वं मन्त्रेणैकाक्षरेण च ।
तेन चिन्तामणौ विप्र सञ्चित्तः सुभविष्यसि ॥ ५२ ॥

त्यक्त्वा जडादिकं मार्गं शमदमपरायणः ।
गणनाथं महाभाग भज यत्नेन नित्यदा ॥ ५३ ॥

एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः ।
गणेशनाम सङ्कीर्त्य जपंश्चैव विशेषतः ॥ ५४ ॥

अहं गणपतिं भक्त्याऽभजं सम्भक्तिसंयुतः ।
एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥ ५५ ॥

ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादरात् ।
तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥ ५६ ॥

दशवर्षे गते काले विघ्नेशो मां समागतः ।
मया सम्पूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥ ५७ ॥

गाणपत्यपदं दत्त्वा गतः स्वानन्दके पुरे ।
तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥ ५८ ॥

एवमुक्त्वा स राजानं ददौ मन्त्रं विधानतः ।
षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥ ५९ ॥

स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः ।
तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥ ६० ॥

जनैः सर्वैः समायुक्त उपोषणपरायणः ।
मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥ ६१ ॥

रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः ।
नरैः स्त्रीभिस्तद्व्रतं च कृतं सर्वैर्यथातथम् ॥ ६२ ॥

शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः ।
ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः ॥ ६३ ॥

[[९]]

घोषेण घोषयामास ततः सर्वे तथाऽभवन् ।
व्रतं ततो वै बभूव प्रशस्तं भूमिमण्डले ॥ ६४ ॥

एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः ।
वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥ ६५ ॥

अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तस्य राज्ये स्थिता लोकाः सर्वे स्वानन्दगा बभुः ॥ ६६ ॥

एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् ।
इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥ ६७ ॥

भीमो नाम महाव्याधः पापकर्मपरायणः ।
मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥ ६८ ॥

एकदा वनमध्ये स ब्राह्मणं हन्तुमुद्यतः ।
पलायत द्विजस्तत्र वने भयसमाकुलः ॥ ६९ ॥

एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान् ।
धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥ ७० ॥

ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह ।
पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥ ७१ ॥

तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् ।
राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥ ७२ ॥

पञ्चम्यां तं जघानैव ततो व्याधं गजाननः ।
चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥ ७३ ॥

एवं नानाजना राजन् चतुर्थीव्रतयोगतः ।
स्वानन्दस्था भवन्तीह मया वक्तुं न शक्यते ॥ ७४ ॥

चतुर्थीजमिदं चित्रं चरितं कथितं मया ।
शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥ ७५ ॥

शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः ।
पुत्रपौत्रादिसंयुक्तः सुहृद्भिर्नृपसत्तम ॥ ७६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते शुक्लाऽऽश्विनी चतुर्थीव्रतवर्णनं नामाष्टमोऽध्यायः ॥