०७ भाद्रपदशुक्लचतुर्थीव्रतवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर ।
चतुर्थ्योरुभयोः सारं माहात्म्येन समन्वितम् ॥ १ ॥

तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् ।
चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥ २ ॥

कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः ।
श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥ ३ ॥

मुद्गल उवाच ।

एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् ।
जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥ ४ ॥

वसिष्ठ उवाच ।

आदौ शम्भ्वादिभिश्चैतत् कृतं व्रतमनुत्तमम् ।
कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥ ५ ॥

ततः स्वायम्भुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् ।
ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजन्तुभिः ॥ ६ ॥

अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् ।
माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण शृणुष्व तत् ॥ ७ ॥

पुरा दौष्यन्तिको नाम भरतः सम्बभूव ह ।
तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥ ८ ॥

जित्वा भूमण्डलं सर्वं सार्वभौमो बभूव ह ।
सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥ ९ ॥

तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा ।
बभूव सर्वलोकास्ते भयभीता बभूविरे ॥ १० ॥

चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः ।
कण्वं मुनिवरं शान्तं ययौ शरणमादरात् ॥ ११ ॥

तं प्रणम्य महात्मानं पूजयामास भक्तितः ।
कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥ १२ ॥

तमुवाच महायोगी गाणपत्यप्रियः सदा ।
कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम् ॥ १३ ॥

कण्व उवाच ।

किमर्थमागतो राजन् कुशलं ते महामते ।
अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥ १४ ॥

कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः ।
मुनिदत्ते विवेशासावासने स कृताञ्जलिः ॥ १५ ॥

उवाच तं महात्मानं कण्वं वेदविदां वरम् ।
भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥ १६ ॥

भरत उवाच ।

त्वत्प्रसादेन योगीन्द्र कुशलं मे प्रवर्तते ।
दैवयोगेन तदपि दुःखितोऽहं समागतः ॥ १७ ॥

[[२१]]

नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही ।
देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥ १८ ॥

वर्णाश्रमाचारयुता जनाः सर्वे भवन्ति च ।
तथापि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम् ॥ १९ ॥

अनावृष्टिश्च सम्भूता प्रभो सर्वत्र दुःखदा ।
चराचरं भयोद्विग्नं बभूव रसहीनतः ॥ २० ॥

तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः ।
त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥ २१ ॥

अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् ।
येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥ २२ ॥

ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः ।
कण्वः श्रुत्वा च वृत्तान्तं दयायुक्तः स्वभावतः ॥ २३ ॥

कण्व उवाच ।

शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् ।
तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥ २४ ॥

चतुःपदविहीनं ते राज्यं भवति निश्चितम् ।
जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥ २५ ॥

त्वं पापशीलभावेन वर्तसे जनवत्सल ।
धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥ २६ ॥

चतुर्थीसम्भवं तात व्रतं सर्वार्थसिद्धिदम् ।
कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥ २७ ॥

चतुर्विधं जगत्सर्वं स्थूलसूक्ष्मादिभेदतः ।
सङ्कष्टं यत्तदेव त्वं जानीहि नृपनायक ॥ २८ ॥

चतुर्विधं च सङ्कष्टं हरति व्रतकारिणः ।
सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिता मया ॥ २९ ॥

चतुर्विधं या ददाति सा शुक्ला वरदा मता ।
सञ्चितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥ ३० ॥

चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् ।
कण्वस्तद्भरतायैव स्वशिष्याय विशेषतः ॥ ३१ ॥

व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् ।
ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥ ३२ ॥

भरत उवाच ।

स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् ।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ ३३ ॥

कण्व उवाच ।

शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् ।
क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥ ३४ ॥

एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा ।
वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥ ३५ ॥

मदीयतपसा सर्वं व्याप्तमासीन्नराधिप ।
तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥ ३६ ॥

ततः प्रजापतिः साक्षादाश्रमे मे समागतः ।
क्रतुर्योगीन्द्रवन्द्यो यो गाणपत्यो महायशाः ॥ ३७ ॥

तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् ।
कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः ॥ ३८ ॥

क्रतुरुवाच ।
वत्स तिष्ठस्व मे दत्त आसने किं महामते ।
इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥ ३९ ॥

तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप ।
आसने समुपावेश्यावदत्तं विनयान्वितः ॥ ४० ॥

कण्व उवाच ।

तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् ।
तथापि शान्तिदं योगं वद पूर्णं दयानिधे ॥ ४१ ॥

क्रतुरुवाच ।
सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् ।
कथयामि महाभाग ब्रह्मणः संश्रुतं मया ॥ ४२ ॥

[[७]]

तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः ।
न शान्तिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥ ४३ ॥

ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् ।
वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्वितः ॥ ४४ ॥

स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो ।
केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥ ४५ ॥

ब्रह्मोवाच ।
योगशान्तिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक ।
मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥ ४६ ॥

मनोवाणीविहीनं यदेव तत्तादृशं मतम् ।
गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकः स्मृतः ॥ ४७ ॥

मनोवाणीमयः प्रोक्तो गकारो वेदवादतः ।
मनोवाणीविहीनश्च णकारः सर्वसम्मतः ॥ ४८ ॥

तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा ।
गकारस्य णकारस्य योगो वेदप्रमाणतः ॥ ४९ ॥

समाधिना लभ्यते यच्चित्तेन च महामते ।
गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥ ५० ॥

चित्तेन यन्न लभ्येत णकारं विद्धि मानद ।
ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ५१ ॥

एतदेव परं गुह्यं शान्तिदं कथितं मया ।
तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥ ५२ ॥

एकाक्षरं महामन्त्रं गृहाण त्वं महामते ।
ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥ ५३ ॥

एवमुक्त्वा महामन्त्रं ददौ मह्यं विधानतः ।
तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥ ५४ ॥

क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् ।
चित्तं चिन्तामणौ पुत्र क्षिप्तं तद्रूपभावतः ॥ ५५ ॥

ततो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा ।
गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥ ५६ ॥

ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया ।
स्तुतः सम्पूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥ ५७ ॥

तदादिगाणपत्योऽहं जातः सर्वैश्च वन्दितः ।
भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥ ५८ ॥

कण्व उवाच ।

एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ ततः ।
एकाक्षरं यथान्यायमन्तर्धानं चकार ह ॥ ५९ ॥

अहं तथा गणेशानं साधयित्वा विशेषतः ।
शान्तिं प्राप्तस्तं तथापि भजाम्यनन्यचेतसा ॥ ६० ॥

अतस्त्वमपि राजेन्द्र भज विघ्नपतिं सदा ।
चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥ ६१ ॥

तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥ ६२ ॥

तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता ।
कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥ ६३ ॥

ततः सर्वत्र सङ्घोषः कृतस्तेन महीभृता ।
शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यन्ति नित्यदा ॥ ६४ ॥

ते दण्डैः पीडनीया वै ततः सर्वेऽभवन् जनाः ।
व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥ ६५ ॥

हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज ।
रोगादिदोषहीनास्ते भजंस्तं गणनायकम् ॥ ६६ ॥

भरतः स्म महाराजोऽभजत्सोऽनन्य चेतसा ।
गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥ ६७ ॥

स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ६८ ॥

[[२३]]

क्रमेण भूमिसंस्था येऽभवन् स्वानन्दगा जनाः ।
चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥ ६९ ॥

स्पर्शेन भरतस्यैव जनाः कीटादिका नृप ।
पुण्यरूपा बभूवुस्तेऽथान्ते स्वानन्दगामिनः ॥ ७० ॥

एतादृशेन भूपेन पुण्यशालिजनाः कृताः ।
यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥ ७१ ॥

भरतेन समो राजन् न कश्चित् प्रबभूव ह ।
ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥ ७२ ॥

भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया ।
चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥ ७३ ॥

भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् ।
पठेद्वा तस्य राजेन्द्र सर्वदं प्रभवेद् ध्रुवम् ॥ ७४ ॥

भाद्रशुक्लचतुर्थ्यां वै शङ्करस्य हृदि प्रभुः ।
प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥ ७५ ॥

तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी ।
गणेशस्य न सन्देहो ब्रह्मभूयपदप्रदा ॥ ७६ ॥

सृष्ट्यादौ पञ्च देवेशैः स्थापिता मूर्तिरुत्तमा ।
मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ ॥ ७७ ॥

मयूरेशावतारो भाद्रपदेयो बभूव सः ।
मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके ॥ ७८ ॥

तस्यां ये मृन्मयीं मूर्तिं पूजयन्ति नरादयः ।
देवाः शङ्करमुख्याश्च महोत्सवपरायणाः ॥ ७९ ॥

ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः ।
अन्ते स्वानन्दगा भूप ब्रह्मभूता भवन्ति च ॥ ८० ॥

मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः ।
उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥ ८१ ॥

पञ्चम्यां पारणं कृत्वा द्विजैः सह महामते ।
मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥ ८२ ॥

चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयन्ति चेत् ।
तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥ ८३ ॥

न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः ।
पतितास्ते मताः शास्त्रे नारकाश्च भवन्त्यतः ॥ ८४ ॥

इह विघ्नसमायुक्ता नानारोगप्रपीडिताः ।
दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥ ८५ ॥

चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः ।
मृन्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः ॥ ८६ ॥

इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी ।
तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥ ८७ ॥

अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् ।
तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥ ८८ ॥

द्राविडे नगरे राजंश्चाण्डालः कोऽपि पापकृत् ।
कुष्ठरोगयुतः पूर्णः परस्त्रीलम्पटोऽभवत् ॥ ८९ ॥

चतुर्थ्यां भाद्रमासे स ज्वरयुक्तो बभूव ह ।
ज्वरस्य पीडयाऽत्यन्तं पीडितो राजसत्तम ॥ ९० ॥

अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः ।
पञ्चम्यां मरणे प्राप्ते विमानेन जगाम ह ॥ ९१ ॥

तस्याङ्गस्पर्शतो वायुर्यमलोके जगाम ह ।
तेन स्पृष्टा नरास्तत्र नरकस्थाः समन्ततः ॥ ९२ ॥

ते सर्वे यानगा भूत्वा गताः स्वानन्दके पुरे ।
दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥ ९३ ॥

व्रतमज्ञानतश्चैवं फलप्रदमिदं मतम् ।
यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥ ९४ ॥

[[२४]]

चतुर्थ्या महिमाऽयं कथयितुं न प्रशक्यते ।
पुरुषार्थाश्च चत्वारः प्राप्यन्ते व्रतमात्रतः ॥ ९५ ॥

मुद्गल उवाच ।

वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् ।
शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥ ९६ ॥

दशरथ उवाच ।

चाण्डालो गणनाथस्य पुपूज स न मृन्मयीम् ।
मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥ ९७ ॥

वसिष्ठ उवाच ।

सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् ।
ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम् ॥ ९८ ॥

चाण्डालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः ।
पूजनं च तथा तस्योल्लङ्घनं न ततोऽभवत् ॥ ९९ ॥

अतोऽयं दोषहीनश्च स्वानन्दस्थो बभूव ह ।
पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावतः ॥ १०० ॥

एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् ।
अन्ते स्वानन्दगा राजन् बभूवुर्व्रतमात्रतः ॥ १०१ ॥

तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि ।
पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ १०२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥