०६ अङ्गारको भाद्र-शुक्ल-चतुर्थी-चन्द्रः

॥ श्रीगणेशाय नमः ॥

अङ्गारक-युताया मुख्यता

दशरथ उवाच ।

विश्वास-प्रस्तुतिः

अङ्गारक-युता स्वामिन्
कथं श्रेष्ठा बभूव सा ।
तन्मे ब्रूहि विशेषेण
संशयोऽत्र महांश्च मे ॥ १ ॥

मूलम्

अङ्गारकयुता स्वामिन् कथं श्रेष्ठा बभूव सा ।
तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च मे ॥ १ ॥

वसिष्ठ उवाच ।

विश्वास-प्रस्तुतिः

भरद्वाजात् समुत्पन्नः
पृथ्व्यां भौमो महामतिः ।
“गणानां त्वे"तिमन्त्रेण
पूजयाम् आस विघ्नपम् ॥ २ ॥

मूलम्

भरद्वाजात् समुत्पन्नः पृथ्व्यां भौमो महामतिः ।
गणानां त्वेतिमन्त्रेण पूजयामास विघ्नपम् ॥ २ ॥

विश्वास-प्रस्तुतिः

तताप स तपो रम्यं
ध्यात्वा देवं गजाननम् ।
पारिनेराच् च नगरात्
पश्चिमे वन-संस्थितः ॥ ३ ॥

मूलम्

तताप स तपो रम्यं ध्यात्वा देवं गजाननम् ।
पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

शतवर्षैर् गणाध्यक्षः
प्रसन्नस् तं ययौ नृप ।
वरं ब्रूहि महाभाग
भूमिपुत्रेति सो ऽब्रवीत् ॥ ४ ॥

मूलम्

शतवर्षैर्गणाध्यक्षः प्रसन्नस्तं ययौ नृप ।
वरं ब्रूहि महाभाग भूमिपुत्रेति सोऽब्रवीत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो भौमो गणाधीशं
पूजयन् भक्ति-भावतः ।
स्तुत्वा तं स जगादेति
वरं सर्व-सुख-प्रदम् ॥ ५ ॥

मूलम्

ततो भौमो गणाधीशं पूजयन् भक्तिभावतः ।
स्तुत्वा तं स जगादेति वरं सर्वसुखप्रदम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

नर-देहेन युक्तो ऽहं
तथापि गणनायक ।
इच्छामि चामृतं पातुं
ग्रहं मां कुरु मानद ॥ ६ ॥

मूलम्

नरदेहेन युक्तोऽहं तथापि गणनायक ।
इच्छामि चामृतं पातुं ग्रहं मां कुरु मानद ॥ ६ ॥

विश्वास-प्रस्तुतिः

तव भक्त्य्-एक-निलयं
नाम्ना मङ्गल-सञ्ज्ञकम् ।
ऋण-हर्तारम् एवं मां
प्रभो कुरु धन-प्रदम् ॥ ७ ॥

मूलम्

तव भक्त्येकनिलयं नाम्ना मङ्गलसञ्ज्ञकम् ।
ऋणहर्तारमेवं मां प्रभो कुरु धनप्रदम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

माघ-कृष्ण-चतुर्थ्यां यद्
दर्शनं ते मया कृतम् ।
मया युक्ता ततो देवी
महा-पुण्य-प्रदा ऽस्तु सा ॥ ८ ॥

मूलम्

माघकृष्णचतुर्थ्यां यद्दर्शनं ते मया कृतम् ।
मया युक्ता ततो देवी महापुण्यप्रदाऽस्तु सा ॥ ८ ॥

विश्वास-प्रस्तुतिः

तथेति गणनाथेन
कृतं सर्वं नराधिप ।
अतोऽङ्गारयुता पुण्या
चतुर्थी मुख्यतां गता ॥ ९ ॥

मूलम्

तथेति गणनाथेन कृतं सर्वं नराधिप ।
अतोऽङ्गारयुता पुण्या चतुर्थी मुख्यतां गता ॥ ९ ॥

भाद्र-चतुर्थी-चन्द्र-दर्शन-निषेधः

विश्वास-प्रस्तुतिः

अधुना चेतिहासं ते
कथयामि विशेषतः ।
भाद्र-शुक्ल-चतुर्थ्यां वै
न द्रष्टव्यो निशाकरः ॥ १० ॥+++(5)+++

मूलम्

अधुना चेतिहासं ते कथयामि विशेषतः ।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः ॥ १० ॥

विश्वास-प्रस्तुतिः

तत्र ते कारणं सर्वं
कथयामि सविस्तरम् ।
येन दोष-विहीनस् त्वं
गणेशं भजसे नृप ॥ ११ ॥

मूलम्

तत्र ते कारणं सर्वं कथयामि सविस्तरम् ।
येन दोषविहीनस्त्वं गणेशं भजसे नृप ॥ ११ ॥

आदिपूज्यता

विश्वास-प्रस्तुतिः

एकदा देव-संयुक्तैर्
मुनिभिश् चैव निश्चितम्
गणेशांश-समुद्भूताः
पञ्च देवा न संशयः ॥ १२ ॥

मूलम्

एकदा देवसंयुक्तैर्मुनिभिश्चैव निश्चितम् ।
गणेशांशसमुद्भूताः पञ्च देवा न संशयः ॥ १२ ॥

विश्वास-प्रस्तुतिः

ते गणेश-स्वरूपाद् वै
कदा भिन्ना भवन्ति न
तेषां स्मरण-मात्रेण
सन्तुष्टो गण-नायकः ॥ १३ ॥+++(५)+++

मूलम्

ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न ।
तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः ॥ १३ ॥

विश्वास-प्रस्तुतिः

भविष्यति न सन्देहस्
तस्माद् आदौ मुनीश्वराः ।
शिवादीन् पूजयत
तेन सिद्धिम् अवाप्स्यथ ॥ १४ ॥

मूलम्

भविष्यति न सन्देहस्तस्मादादौ मुनीश्वराः ।
शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञानबलेनाज्ञैः
कृतं देवैः सह-र्षिभिः ।
पञ्चभिर् विष्णु-मुख्यैस्
तत् तथेति प्रतिपादितम् ॥ १५ ॥

मूलम्

एवं ज्ञानबलेनाज्ञैः कृतं देवैः सहर्षिभिः ।
पञ्चभिर्विष्णुमुख्यैस्तत्तथेति प्रतिपादितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

ततः सर्वे मुनिगणाश्
चक्रुस् ते तादृशीं क्रियाम् ।
तया सिद्धि-विहीनास् ते
भ्रान्ताः सर्वे बभूविरे ॥ १६ ॥

मूलम्

ततः सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियाम् ।
तया सिद्धिविहीनास्ते भ्रान्ताः सर्वे बभूविरे ॥ १६ ॥

विश्वास-प्रस्तुतिः

समागता देवगणैः
ब्रह्माणं तुष्टुवुर् नृप ।
वृत्तान्तं कथयाम् आसुः
सोऽपि चिन्तातुरो ऽभवत् ॥ १७ ॥

मूलम्

समागता देवगणैः ब्रह्माणं तुष्टुवुर्नृप ।
वृत्तान्तं कथयामासुः सोऽपि चिन्तातुरोऽभवत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

सस्मार शिव-मुख्यांश्
ब्रह्माणं ते समाययुः
विष्णुः शिवोऽर्यमा शक्तिस्
तेऽपि श्रुत्वा सुविस्मिताः ॥ १८ ॥

मूलम्

सस्मार शिवमुख्यांश्च ब्रह्माणं ते समाययुः ।
विष्णुः शिवोऽर्यमा शक्तिस्तेऽपि श्रुत्वा सुविस्मिताः ॥ १८ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्न् अन्तरे तत्र
शब्दः सर्व-भयङ्-करः ।
बभूव तीव्र-घोषेण
युक्तः प्रलय-सूचकः ॥ १९ ॥

मूलम्

एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः ।
बभूव तीव्रघोषेण युक्तः प्रलयसूचकः ॥ १९ ॥

विश्वास-प्रस्तुतिः

शब्दं श्रुत्वा भयोद्विग्ना
बभूवुः शम्भु-मुख्यकाः ।
ततोऽकस्मान् महा-भीमः
पुरुषः प्रकटो ऽभवत् ॥ २० ॥

मूलम्

शब्दं श्रुत्वा भयोद्विग्ना बभूवुः शम्भुमुख्यकाः ।
ततोऽकस्मान् महाभीमः पुरुषः प्रकटोऽभवत् ॥ २० ॥

विश्वास-प्रस्तुतिः

विकरालं च तं दृष्ट्वा
मुमूर्च्छुः शङ्करादयः ।
मुनयो देवताः केऽपि
पलायन्त च मूर्च्छिताः ॥ २१ ॥

मूलम्

विकरालं च तं दृष्ट्वा मुमूर्च्छुः शङ्करादयः ।
मुनयो देवताः केऽपि पलायन्त च मूर्च्छिताः ॥ २१ ॥

विश्वास-प्रस्तुतिः

मुहूर्त-मात्र-काले वै
गते ब्रह्मादयः सुराः ।
सावधाना बभूवुस्
तं ददृशुः पुरतः स्थितम् ॥ २२ ॥

मूलम्

मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः ।
सावधाना बभूवुस्तं ददृशुः पुरतः स्थितम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ततो ऽतिभय-संयुक्तास्
तुष्टुवुर् गण-नायकम् ।
ध्यात्वा हृदि महद्-रूपं
गज-वक्त्रादि-चिह्नितम् ॥ २३ ॥

मूलम्

ततोऽतिभयसंयुक्तास्तुष्टुवुर्गणनायकम् ।
ध्यात्वा हृदि महद्रूपं गजवक्त्रादिचिह्नितम् ॥ २३ ॥

ब्रह्माद्या ऊचुः ।

विश्वास-प्रस्तुतिः

नमस्ते गणनाथाय
विघ्नानां पतये नमः ।
अनाथानां सुनाथाय
नमो विघ्ननिवारण ॥ २४ ॥

मूलम्

नमस्ते गणनाथाय विघ्नानां पतये नमः ।
अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४ ॥

विश्वास-प्रस्तुतिः

भक्तेभ्यः सर्वदात्रे ते
निराकाराय साक्षिणे ।
अमेयायाप्रतर्क्याय
हेरम्बाय नमो नमः ॥ २५ ॥

मूलम्

भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे ।
अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५ ॥

विश्वास-प्रस्तुतिः

गजाननाय देवाय शूर्पकर्णाय ते नमः ।
महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६ ॥

मूलम्

गजाननाय देवाय शूर्पकर्णाय ते नमः ।
महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६ ॥

[[१२]]

विश्वास-प्रस्तुतिः

सर्वादये महादात्रे
सर्वपूज्याय वै नमः ।
सर्वभावस्थितायैव
ढुण्ढिराजाय ते नमः ॥ २७ ॥

मूलम्

सर्वादये महादात्रे सर्वपूज्याय वै नमः ।
सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः ॥ २७ ॥

विश्वास-प्रस्तुतिः

स्वानन्द-वासिने तुभ्यं
योग-शान्ति-मयाय च ।
योगिभ्यो योग-दात्रे वै
योगानां पतये नमः ॥ २८ ॥

मूलम्

स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च ।
योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सृष्टि-कर्त्रे च पात्रे ते
सृष्टि-हर्त्रे नमो नमः ।
गणेशाय गुणानां वै
चालकाय नमो नमः ॥ २९ ॥

मूलम्

सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः ।
गणेशाय गुणानां वै चालकाय नमो नमः ॥ २९ ॥

विश्वास-प्रस्तुतिः

आत्मने ऽनात्मने चैव
कारणानां प्रकाशिने ।
ब्रह्मेशाय सदा नाथ
देव-पालक-रूपिणे ॥ ३० ॥

मूलम्

आत्मनेऽनात्मने चैव कारणानां प्रकाशिने ।
ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥ ३० ॥

विश्वास-प्रस्तुतिः

निवारय महा-विघ्नं
सहसा समुपस्थितम् ।
ग्रसिष्यति न चेद् अण्डम्
अस्मान् वै नात्र संशयः ॥ ३१ ॥

मूलम्

निवारय महाविघ्नं सहसा समुपस्थितम् ।
ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

त्वदीय-पाद-पद्मस्य
वयं दासा गजानन ।
मरिष्यामो यदा नाथ
यशस् तव गतं तदा ॥ ३२ ॥+++(४)+++

मूलम्

त्वदीयपादपद्मस्य वयं दासा गजानन ।
मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अधुना रक्ष देवेश
न वयं द्रष्टुम् उग्रकम् ।
क्षमा, गच्छन्ति नः प्राणा
रक्ष विघ्नेश रक्ष भोः ॥ ३३ ॥

मूलम्

अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् ।
क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

एवं संस्तुवतां तेषां
पुरः सोऽपि महा-पुमान् ।
गणेशाकार-रूपेण
बभूव नृप-सत्तम ॥ ३४ ॥

मूलम्

एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् ।
गणेशाकाररूपेण बभूव नृपसत्तम ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ततस्ते तं प्रणेमुश्
पूजयाम् आसुर् आदरात् ।
मानसीं स्वसुतां तस्मै
ददुः सर्वे शिवादयः ॥ ३५ ॥

मूलम्

ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् ।
मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सरस्वतीं ददौ ब्रह्मा,
विष्णुः पुष्टिं च मानसीम् ।
योगिनीं शङ्करश् चैव
मोहिनीं जगद्-अम्बिका ॥ ३६ ॥

मूलम्

सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् ।
योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सञ्जीवनीं ददौ तस्मै
भानुः सर्व-प्रियङ्करः ।
एवं सम्पूज्य विघ्नेशं
प्रणतास् ते महीपते ॥ ३७ ॥

मूलम्

सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः ।
एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते ॥ ३७ ॥

विश्वास-प्रस्तुतिः

उवाच तान् स उत्थाप्य
विघ्नेशो भक्ति-भावतः ।
विष्णु-मुख्यान महेशांश् च
मेघ-गम्भीर-निःस्वनः ॥ ३८ ॥

मूलम्

उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः ।
विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः ॥ ३८ ॥

श्रीगणेश उवाच ।

विश्वास-प्रस्तुतिः

शम्भुमुख्याः शृणुत
देवेन्द्रा मुनि-मुख्यकाः ।
मदीयांशा भवन्तोऽपि
गर्वं मा कुरुत प्रियाः ॥ ३९ ॥

मूलम्

शम्भुमुख्याः शृणुत च देवेन्द्रा मुनिमुख्यकाः ।
मदीयांशा भवन्तोऽपि गर्वं मा कुरुत प्रियाः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

चराचरं मदीयांशं
मद्-रहितं न किञ्चन ।
तेभ्यः सिद्धि-प्रदानार्थं
देह-धारी भवाम्य् अहम् ॥ ४० ॥

मूलम्

चराचरं मदीयांशं मद्रहितं न किञ्चन ।
तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

यदि ज्ञानेन मां त्यक्त्वा
पूजयेत् तृण-रूपकम् ।
तेना ऽहं किं महादेवाः
पूजितो वदत प्रियाः ॥ ४१ ॥

मूलम्

यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम् ।
तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तत्रांशो वर्तते किञ्चिन्
मदीयस् तत् समा च मे ।
तृप्तिर् जाता न सन्देहः
पूर्णस् तृप्तो भवामि ॥ ४२ ॥

मूलम्

तत्रांशो वर्तते किञ्चिन् मदीयस्तत् समा च मे ।
तृप्तिर्जाता न सन्देहः पूर्णस्तृप्तो भवामि न ॥ ४२ ॥

विश्वास-प्रस्तुतिः

भवन्तोऽपि तथा विप्रैः
कलांशाः पूजिता यदि ।
कलांशरूपा मे तृप्तिस्
तेन जाता गुणात्मिका ॥ ४३ ॥

मूलम्

भवन्तोऽपि तथा विप्रैः कलांशाः पूजिता यदि ।
कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ब्रह्माण्डे पूजिते पूर्णे
न तृप्तोऽहं भवामि च ।
अनन्तानि मदीयेषु
ब्रह्माण्डानि स्वलोमसु ॥ ४४ ॥+++(४)+++

मूलम्

ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च ।
अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलोमसु ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गज-वक्त्रादि-चिह्नेन
चिह्नितो ऽहं महेश्वरः ।
जगद्-ब्रह्म-मयस् तत्र
तिष्ठामि योग-शान्ति-दः ॥ ४५ ॥

मूलम्

गजवक्त्रादिचिह्नेन चिह्नितोऽहं महेश्वरः ।
जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशान्तिदः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्य पूजन-मात्रेण
जगद्-ब्रह्म सुपूजितम् ।
अहं तयोश् च योगे वै
पूर्णः सम्पूजितो मतः ॥ ४६ ॥

मूलम्

तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् ।
अहं तयोश्च योगे वै पूर्णः सम्पूजितो मतः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मां त्यक्त्वा ज्ञान-मोहेन
मोहिता मुनिदेवताः ।
भवतां पूजनं चक्रुः
सर्वादौ विघ्न-संयुताः ॥ ४७ ॥

मूलम्

मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः ।
भवतां पूजनं चक्रुः सर्वादौ विघ्नसंयुताः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तत्रापि मद्-असंयुक्ता
भवन्तस् तादृशात्मकाः ।
सिद्धिहीनास् ततो जाताः
पुनर् मा कुरुत त्व् इदम् ॥ ४८ ॥

मूलम्

तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः ।
सिद्धिहीनास्ततो जाताः पुनर्मा कुरुत त्विदम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

पूर्वस्मिंश् च भवद्भिर् वै
सेवितो भक्तिसंयुतैः ।
अतः सहामि देवेशा
दत्तं वो दर्शनं मया ॥ ४९ ॥

मूलम्

पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः ।
अतःसहामि देवेशा दत्तं वो दर्शनं मया ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कलांशमात्रेण यदि सन्-
तुष्टोऽहं भवामि चेत् ।
तदा देह-धरः कस्मात्
स्थास्यामि वदत प्रियाः ॥ ५० ॥

मूलम्

कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेत् ।
तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥ ५० ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा गणाधीशो
विरराम महीपते ।
तेऽपि प्रणम्य विघ्नेशं
स्वदोषं प्रक्षमापयन् ॥ ५१ ॥

मूलम्

एवमुक्त्वा गणाधीशो विरराम महीपते ।
तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् ॥ ५१ ॥

शापः

विश्वास-प्रस्तुतिः

एतस्मिन्न् अन्तरे तत्र
चन्द्रः शङ्कर-भाल-गः ।
जहास विवृतैर् दन्तैर्
गणेशं रूप-गर्वितः ॥ ५२ ॥

मूलम्

एतस्मिन्नन्तरे तत्र चन्द्रः शङ्करभालगः ।
जहास विवृतैर्दन्तैर्गणेशं रूपगर्वितः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

उवाच मोहितोऽत्यन्तं
प्रणम्य गणनायकम् ।
गजवक्त्र-युतं रूपं
किं धृतं विकटं प्रभो ॥ ५३ ॥

मूलम्

उवाच मोहितोऽत्यन्तं प्रणम्य गणनायकम् ।
गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥ ५३ ॥

[[१३]]

विश्वास-प्रस्तुतिः

पुनः पुनर् उवाचेदं
वाक्यं हास्य-परायणः ।
ततस् तं कुपितो देवः
शशाप शश-लाञ्छनम् ॥ ५४ ॥

मूलम्

पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः ।
ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

ये त्वां विलोकयन्ते वै
चन्द्र ते पापिनः सदा ।
भवन्तु विघ्न-संयुक्ता
मद्-वाक्यान् नात्र संशयः ॥ ५५ ॥

मूलम्

ये त्वां विलोकयन्ते वै चन्द्र ते पापिनः सदा ।
भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वान्तर् दधे ऽसौ
गणेशो ब्रह्मनायकः ।
भार्याभिः सहितो भूप
चन्द्रश् च मलिनो ऽभवत् ॥ ५६ ॥

मूलम्

एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥ ५६ ॥

अहङ्कार-वारणम्

विश्वास-प्रस्तुतिः

अहङ्कार-विहीनास् ते
जाताः शम्भ्वादयः सुराः
तदारभ्य महाभाग
गाणपत्या विशेषतः ॥ ५७ ॥

मूलम्

अहङ्कारविहीनास्ते जाताः शम्भ्वादयः सुराः ।
तदारभ्य महाभाग गाणपत्या विशेषतः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

वेदज्ञा ऽहङ्कृतिः पूर्णा
ब्रह्मणो हृदि संस्थिता ।
तया मदयुतो ब्रह्मा
भवत्येवं पुनः पुनः ॥ ५८ ॥

मूलम्

वेदज्ञाऽहङ्कृतिः पूर्णा ब्रह्मणो हृदि संस्थिता ।
तया मदयुतो ब्रह्मा भवत्येवं पुनः पुनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सरस्वती सा दत्ता वै
गणेशाय महात्मने ।
तया युक्तः सदा रेमे
ब्रह्मणो हृदि विघ्नपः ॥ ५९ ॥

मूलम्

सरस्वती सा दत्ता वै गणेशाय महात्मने ।
तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

हृदि स्थिते गणेशे स
कथं मोह-युतो भवेत् ।
सदा तं भजते भक्त्या
गाणपत्य-स्वभावतः ॥ ६० ॥+++(५)+++

मूलम्

हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् ।
सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥ ६० ॥

विश्वास-प्रस्तुतिः

सर्व-पोषणता तद्-वद्
विष्णोर् हृदि समास्थिता ।
तत् सामर्थ्य-विमोहेन
गर्वं गच्छति केशवः ॥ ६१ ॥

मूलम्

सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता ।
तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तां ददौ विघ्न-राजाय
पुष्टिं विश्वस्य पोषिणीम् ।
तया युक्तो गणेशानो
रेमे विष्णोः सदा हृदि ॥ ६२ ॥

मूलम्

तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् ।
तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥ ६२ ॥

विश्वास-प्रस्तुतिः

सोऽपि तं भजते नित्यं
गाणपत्य-विचार-वित् ।
हृदि-स्थे स कथं मोहं
प्राप्नोति नृप विघ्नपे ॥ ६३ ॥

मूलम्

सोऽपि तं भजते नित्यं गाणपत्यविचारवित् ।
हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥ ६३ ॥

विश्वास-प्रस्तुतिः

योगेन मोह-हीनत्वं
सदा शम्भोर् हृदि प्रभो ।
तेनाहङ्कार-भावेन
मन्यते किं न शङ्करः ॥ ६४ ॥+++(४)+++

मूलम्

योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो ।
तेनाहङ्कारभावेन मन्यते किं न शङ्करः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

तामेव योगिनीं देवीं
हृदिस्थां प्रददौ शिवः ।
गणेशस् तु तया युक्तो
रेमे शम्भोर् हृदि स्थितः ॥ ६५ ॥

मूलम्

तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः ।
गणेशस्तु तया युक्तो रेमे शम्भोर्हृदि स्थितः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

गणेशे हृदि संस्थे स
मोहं नैव प्रपद्यते
सदा गाणेशको भूत्वा
भजते गणनायकम् ॥ ६६ ॥

मूलम्

गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते ।
सदा गाणेशको भूत्वा भजते गणनायकम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वृष्ट्यादान-प्रदाने वै
करोति स दिवाकरः
सर्वेषां जीवनं तेन
धृतं कर्म-मयं नृप ॥ ६७ ॥

मूलम्

वृष्ट्यादानप्रदाने वै करोति स दिवाकरः ।
सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥ ६७ ॥

विश्वास-प्रस्तुतिः

तद् एव हृदये तस्य
वर्तते ऽहंस्वभावतः ।
तां सञ्जीवनिकां सूर्यो
ददौ विघ्नेश्वराय च ॥ ६८ ॥

मूलम्

तदेव हृदये तस्य वर्ततेऽहंस्वभावतः ।
तां सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तया युक्तो गणाधीशः
सदा हृदिखेलति
भानोस् तेन रविस् तं स
भजते ऽनन्य-चेतसा ॥ ६९ ॥

मूलम्

तया युक्तो गणाधीशः सदा हृदि स खेलति ।
भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

शक्तिर् हृदय-गां देवीं
मोहिनीं सर्व-मोहिनीम् ।
ददौ विघ्नेश्वरायैव
शक्ति-भाव-समन्विताम् ॥ ७० ॥

मूलम्

शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् ।
ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

तया युक्तो गणेशानस्
तस्या हृदि विशेषतः ।
तेन खेलति सा देवी
भजते गणनायकम् ॥ ७१ ॥

मूलम्

तया युक्तो गणेशानस्तस्या हृदि विशेषतः ।
तेन खेलति सा देवी भजते गणनायकम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

इत्य् अहङ्कार-निर्मुक्ता
देवेन्द्रास् ते बभूविरे ।
गाणपत्य-प्रिया जाता
भजन्ते विघ्ननायकम् ॥ ७२ ॥

मूलम्

इत्यहङ्कारनिर्मुक्ता देवेन्द्रास्ते बभूविरे ।
गाणपत्यप्रिया जाता भजन्ते विघ्ननायकम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

चित्ते चिन्तामणिः स्थित्वा
प्रकृत्या खेलति प्रभुः ।
मिथ्याहङ्कार-भावेन
बन्धनं प्रतिपद्यते ॥ ७३ ॥

मूलम्

चित्ते चिन्तामणिः स्थित्वा प्रकृत्या खेलति प्रभुः ।
मिथ्याहङ्कारभावेन बन्धनं प्रतिपद्यते ॥ ७३ ॥

विश्वास-प्रस्तुतिः

कर्ता कारयिता देवो
गणेशो नात्र संशयः ।
हृदि-स्थं तं समर्प्यैव
स्वात्मानं सुखिनो ऽभवन् ॥ ७४ ॥

मूलम्

कर्ता कारयिता देवो गणेशो नात्र संशयः ।
हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥ ७४ ॥

चन्द्रगतिः

मुद्गल उवाच ।

विश्वास-प्रस्तुतिः

श्रुत्वा दशरथो राजा
जगाद मुनिसत्तमम् ।
चन्द्रस्य का गतिर् जाता
तां मे वद महामुने ॥ ७५ ॥

मूलम्

श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् ।
चन्द्रस्य का गतिर्जाता तां मे वद महामुने ॥ ७५ ॥

वसिष्ठ उवाच ।

विश्वास-प्रस्तुतिः

गणेश-शाप-संयुक्तश्
चन्द्रः स स्वगृहे गतः
एकान्ते दुःख-संयुक्तो
विचारम् अकरोद् +हृदि ॥ ७६ ॥

मूलम्

गणेशशापसंयुक्तश्चन्द्रः स स्वगृहे गतः ।
एकान्ते दुःखसंयुक्तो विचारमकरोद्धृदि ॥ ७६ ॥

विश्वास-प्रस्तुतिः

सम्प्रज्ञात-स्वरूपश् च
देहो गण-पतेः स्मृतः ।
अ-सम्प्रज्ञात-रूपं वै
शिरस् तस्य महात्मनः ॥ ७७ ॥

मूलम्

सम्प्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः ।
असम्प्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तयोर् योगे गणेशो ऽयं
भक्तानुग्रह-कारणात् ।
देह-धारी स्वयं साक्षाद्
बभूवात्र न संशयः ॥ ७८ ॥

मूलम्

तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् ।
देहधारी स्वयं साक्षाद्बभूवात्र न संशयः ॥ ७८ ॥

[[१४]]

विश्वास-प्रस्तुतिः

वेदेषु कथितं ते यद्
रूपं परम-योगदम् ।
तन् न ज्ञातं मया देव
मोहेनैव गजानन ॥ ७९ ॥

मूलम्

वेदेषु कथितं ते यद्रूपं परमयोगदम् ।
तन्न ज्ञातं मया देव मोहेनैव गजानन ॥ ७९ ॥

विश्वास-प्रस्तुतिः

अपराधं दयासिन्धो क्षम त्वं चित्तगं प्रभो ।
एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥ ८० ॥

मूलम्

अपराधं दयासिन्धो
क्षम त्वं चित्त-गं प्रभो ।
एवं क्षमाप्य विघ्नेशं
ध्यात्वा लीनो बभूव ह ॥ ८० ॥

विश्वास-प्रस्तुतिः

गङ्गा-तीरे समागम्य
तताप तप उत्तमम् ।
अष्टादशाक्षरेणैव +++(←??)+++
तोषयाम् आस विघ्नपम् ॥ ८१ ॥

मूलम्

गङ्गातीरे समागम्य तताप तप उत्तमम् ।
अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

चन्द्रे लीने जगत् सर्वं
दुःख-युक्तं बभूव ह ।
सूर्यस्य तेजसा दग्धं
रस-हीनं चराचरम् ॥ ८२ ॥

मूलम्

चन्द्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह ।
सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ततो देव-गणैः सर्वैर्
भय-भीतैः समन्ततः ।
शम्भु-विष्णु-मुखास् तत्र
तपस् तेपुः सहेश्वराः ॥ ८३ ॥

मूलम्

ततो देवगणैः सर्वैर्भयभीतैः समन्ततः ।
शम्भुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

षडक्षर-विधानेन +++(←??)+++
ध्यात्वा हृदि गजाननम् ।
भक्ति-युक्ता नृप-श्रेष्ठ
तोषयाम् आसुर् आदरात् ॥ ८४ ॥

मूलम्

षडक्षरविधानेन ध्यात्वा हृदि गजाननम् ।
भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

वर्षाणां शतके तत्र
गते चन्द्रं गणाधि-पः ।
आययौ वरदानार्थं
तपो-बद्धो नृपोत्तम ॥ ८५ ॥

मूलम्

वर्षाणां शतके तत्र गते चन्द्रं गणाधिपः ।
आययौ वरदानार्थं तपोबद्धो नृपोत्तम ॥ ८५ ॥

विश्वास-प्रस्तुतिः

वर्षेणैकेन देवेशान्
ययौ विघ्नाधिपो विभुः ।
समकाले च देवेशाश्
चन्द्रस् तं तुष्टुवुर् विभुम् ॥ ८६ ॥

मूलम्

वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः ।
समकाले च देवेशाश्चन्द्रस्तं तुष्टुवुर्विभुम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अथर्व-शिरसा ढुण्ढिं
तोषयाम् आसुर् आदरात् ।
सन्तुष्टस् तान् उवाचेदं
गणेशो ब्रह्मनायकः ॥ ८७ ॥

मूलम्

अथर्वशिरसा ढुण्ढिं तोषयामासुरादरात् ।
सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥ ८७ ॥

श्रीगणेश उवाच ।

विश्वास-प्रस्तुतिः

वरं वृणुत देवेशाः
सन्तुष्टोऽहं ददामि तम् ।
यं यम् इच्छथ तं तं वै
सफलं वः करोम्य् अहम् ॥ ८८ ॥

मूलम्

वरं वृणुत देवेशाः सन्तुष्टोऽहं ददामि तम् ।
यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

गणेश-वचनं श्रुत्वा
देवास् तं प्रणिपत्य ते ।
कृत्वा कर-पुटं सर्वे
जगुः परम-हर्षिताः ॥ ८९ ॥

मूलम्

गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते ।
कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥ ८९ ॥

देवा ऊचुः ।

विश्वास-प्रस्तुतिः

यदि प्रसन्न-भावेन
वरदोऽसि गजानन ।
तदा चन्द्रं सुनिर्दोषं कुरु
नाथ नमोऽस्तु ते ॥ ९० ॥

मूलम्

यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा चन्द्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥ ९० ॥

विश्वास-प्रस्तुतिः

स तान् उवाच सर्वात्मा
भक्त्या सन्तोषितः प्रभुः ।
भाद्र-शुक्ल-चतुर्थ्यां वै
न द्रष्टव्यः सुधाकरः ॥ ९१ ॥

मूलम्

स तानुवाच सर्वात्मा भक्त्या सन्तोषितः प्रभुः ।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

हास्यं कृतं मदीयं वै
तद्-दिने तेन देवपाः ।
दोष-युक्तो विधुस् तस्मान्
नान्यथा मे वचो भवेत् ॥ ९२ ॥

मूलम्

हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः ।
दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

ततोऽतिहर्षिता देवास्
तथेति प्रतिपाद्य ते ।
ययुश् चन्द्रं तु सन्द्रष्टुं
गणेशे ऽन्तर्हिते नृप ॥ ९३ ॥

मूलम्

ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते ।
ययुश्चन्द्रं तु सन्द्रष्टुं गणेशेऽन्तर्हिते नृप ॥ ९३ ॥

विश्वास-प्रस्तुतिः

चन्द्रो गणपतिं दृष्ट्वा
ननाम दण्डवत् क्षितौ ।
पूजयाम् आस तं देवं
तुष्टाव स कृताञ्जलिः ॥ ९४ ॥

मूलम्

चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत् क्षितौ ।
पूजयामास तं देवं तुष्टाव स कृताञ्जलिः ॥ ९४ ॥

चन्द्र उवाच ।

विश्वास-प्रस्तुतिः

नमस्ते विघ्नपालाय
गणेशाय परात्मने ।
ब्रह्मेशाय स्वभक्तेभ्यो
ब्रह्म-भूय-प्रदाय ते ॥ ९५ ॥

मूलम्

नमस्ते विघ्नपालाय गणेशाय परात्मने ।
ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५ ॥

विश्वास-प्रस्तुतिः

अनामयाय सर्वादि-
पूज्याय तु नमो नमः ।
शिवात्मजाय देवाय
विष्णु-पुत्राय ते नमः ॥ ९६ ॥+++(४)+++

मूलम्

अनामयाय सर्वादिपूज्याय तु नमो नमः ।
शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मपुत्राय सूर्यस्य
पुत्र ते विघ्नहारिणे ।
शक्तिपुत्राय शेषस्य
पुत्राय च नमो नमः ॥ ९७ ॥

मूलम्

ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे ।
शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

सर्वपुत्राय सर्वेषां
मात्रे पित्रे नमो नमः ।
सर्वेशाय परेशाय
परात् परतराय ते ॥ ९८ ॥

मूलम्

सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वेशाय परेशाय परात्परतराय ते ॥ ९८ ॥

विश्वास-प्रस्तुतिः

सिद्धिबुद्धि-पते तुभ्यं
सिद्धि-बुद्धि-प्रचालक ।
हेरम्बाय महेशानां
महेशाय नमो नमः ॥ ९९ ॥

मूलम्

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक ।
हेरम्बाय महेशानां महेशाय नमो नमः ॥ ९९ ॥

विश्वास-प्रस्तुतिः

स्रष्ट्रे पात्रे च संहर्त्रे
परमात्म-स्वरूपिणे ।
सर्वेभ्यो वर-दात्रे ते
ऽनादि-सिद्धाय भो नमः ॥ १०० ॥

मूलम्

स्रष्ट्रे पात्रे च संहर्त्रे परमात्मस्वरूपिणे ।
सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ १०० ॥

विश्वास-प्रस्तुतिः

क्षमापराधं देवेश
त्वन्-माया-मोह-धारिणः ।
शरणं ते प्रसन्नस्य
रक्ष मां महतो भयात् ॥ १०१ ॥

मूलम्

क्षमापराधं देवेश त्वन्मायामोहधारिणः ।
शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ १०१ ॥

विश्वास-प्रस्तुतिः

मां **दृष्ट्वा हर्ष-सम्पन्ना
अभवन् देवतादयः ।
अधुना मां निरीक्ष्यैव
दोषयुक्ता भयातुराः ॥ १०२ ॥

मूलम्

मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः ।
अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ १०२ ॥

विश्वास-प्रस्तुतिः

अतो मां नैव पश्यन्ति
पापिनां पाप-रूपिणम् ।
निर्दोषं कुरु विघ्नेश
करुणालय ते नमः ॥ १०३ ॥

मूलम्

अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् ।
निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ १०३ ॥

विश्वास-प्रस्तुतिः

सर्वदा दर्शनं ते वै
ममास्तां विघ्नवारण ।
तेनाऽहं कृतकृत्यश् च
भवेयं योगि-सम्मतः ॥ १०४ ॥

मूलम्

सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण ।
तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ १०४ ॥

विश्वास-प्रस्तुतिः

ततोऽतिभक्ति-संयुक्तं
नृत्यन्तं देव-सन्निधौ ।
रोमाञ्चाश्रु-समायुक्तं
दृष्ट्वा ढुण्ढिर् जगाद तम् ॥ १०५ ॥

मूलम्

ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ ।
रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ १०५ ॥

श्रीगणेश उवाच ।

विश्वास-प्रस्तुतिः

त्वया कृतम् इदं स्तोत्रं
मम प्रीतिविवर्धनम् ।
अपराधाननन्तांश् च सहे
ते ऽनेन निश्चितम् ॥ १०६ ॥

मूलम्

त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ १०६ ॥

विश्वास-प्रस्तुतिः

सर्वसिद्धिप्रदं पूर्णं
भविष्यति विशेषतः ।
पठतां शृण्वतां चैव
नाना-सुख-कारकं भवेत् ॥ १०७ ॥+++(छन्दोभङ्गः)+++

मूलम्

सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः ।
पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥ १०७ ॥

विश्वास-प्रस्तुतिः

यथापूर्वं स्थितश् चन्द्र
तादृशो भव नित्यदा
यस्मिन् दिने कृतं हास्यं
तत्र दोष-युतो भवेः ॥ १०८ ॥

मूलम्

यथापूर्वं स्थितश्चन्द्र तादृशो भव नित्यदा ।
यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥ १०८ ॥

विश्वास-प्रस्तुतिः

ललाटे भूषणं मे त्वं
भव सेवा-परायणः ।
चतुर्थ्यां कृष्ण-पक्षस्य
व्रते ते पूजनं भवेत् ॥ १०९ ॥

मूलम्

ललाटे भूषणं मे त्वं भव सेवापरायणः ।
चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥ १०९ ॥

विश्वास-प्रस्तुतिः

मां पूजयित्वा तारेश
अर्घ्यं यस् ते प्रदास्यति ।
तस्य सिद्धिर् भवेत् पूर्णा
व्रत-जा नान्यथा क्वचित् ॥ ११० ॥

मूलम्

मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति ।
तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥ ११० ॥

विश्वास-प्रस्तुतिः

द्वितीयायां च सायाह्ने
त्वया प्राप्तो-ऽहम् आदरात् ।
अतः शुक्ल-द्वितीयायां
नमस्यो मानवैर् भव ॥ १११ ॥

मूलम्

द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् ।
अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥ १११ ॥

विश्वास-प्रस्तुतिः

द्वितीयायां प्रयत्नेन
त्वां नमस्यन्ति मानवाः ।
मासगं दुःखम् उत्सृज्य
क्वचित् तिष्ठति नान्यथा ॥ ११२ ॥

मूलम्

द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः ।
मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥ ११२ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वाऽन्तर् दधे ऽसौ
गणेशश् चन्द्र-पूजितः ।
तस्मिन् काले च देवेशा
देवास् तत्र समाययुः ॥ ११३ ॥

मूलम्

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशश्चन्द्रपूजितः ।
तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥ ११३ ॥

विश्वास-प्रस्तुतिः

मानयाम् आस सम्पूज्य
चन्द्रस् तांस् तैः समन्वितः ।
गणेशं ब्राह्मणैः सार्धं
संस्थाप्यापूजयत् प्रभुम् ॥ ११४ ॥

मूलम्

मानयामास सम्पूज्य चन्द्रस्तांस्तैः समन्वितः ।
गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥ ११४ ॥

विश्वास-प्रस्तुतिः

गणेश-भाल-संस्थानं
प्राप्तं चन्द्रेण यत्र वै ।
भाल-चन्द्रं गणेशानं
वदन्ति तत्र संस्थितम् ॥ ११५ ॥

मूलम्

गणेशभालसंस्थानं प्राप्तं चन्द्रेण यत्र वै ।
भालचन्द्रं गणेशानं वदन्ति तत्र संस्थितम् ॥ ११५ ॥

विश्वास-प्रस्तुतिः

देवैः सम्पूजितस् तत्र
ब्राह्मणैर् गण-नायकः ।
प्र-गृह्य चन्द्रं निर्दोषं
ततः स्वर्गं ययुः सुराः ॥ ११६ ॥

मूलम्

देवैः सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः ।
प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥ ११६ ॥

विश्वास-प्रस्तुतिः

चन्द्रः स्वांश-स्वरूपेण
स्वर्गे तिष्ठति भूमिप ।
पूर्ण-रूपेण विघ्नेशं
सेवते नित्यम् आदरात् ॥ ११७ ॥

मूलम्

चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप ।
पूर्णरूपेण विघ्नेशं सेवते नित्यमादरात् ॥ ११७ ॥

विश्वास-प्रस्तुतिः

गङ्गातीरे निवासं
चकारत्रिसमुद्भवः ।
विधुश् च भाल-चन्द्रं तं
सेवते भक्तितत्परः ॥ ११८ ॥

मूलम्

गङ्गातीरे निवासं स चकारात्रिसमुद्भवः ।
विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥ ११८ ॥

स्यमन्तक-मणि-कथा

विश्वास-प्रस्तुतिः

अथ कस्मिंश् च समये
देवैः सम्प्रार्थितो हरिः ।
यादवेषु समुत्पन्नो
वासुदेवो बभूव ह ॥ ११९ ॥

मूलम्

अथ कस्मिंश्च समये देवैः सम्प्रार्थितो हरिः ।
यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥ ११९ ॥

विश्वास-प्रस्तुतिः

अज्ञानेन विधोस् तेन
दर्शनं प्रकृतं नृप ।
भाद्र-शुक्ल-चतुर्थ्यां तु
सदोषःबभूव ह ॥ १२० ॥

मूलम्

अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप ।
भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥ १२० ॥

विश्वास-प्रस्तुतिः

अन्तर्-ज्ञानं गतं तस्य
नर-तुल्यो बभूव सः ।
तथापि विघ्न-संयुक्तो
हरिस् तच्छृणु भूमिप ॥ १२१ ॥

मूलम्

अन्तर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः ।
तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥ १२१ ॥

विश्वास-प्रस्तुतिः

सत्राजिन् नाम राजर्षिर्
यादवेषु बभूव वै ।
तेन सूर्य-तपस् तप्तं
दारुणं शत-वत्सरम् ॥ १२२ ॥

मूलम्

सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै ।
तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥ १२२ ॥

विश्वास-प्रस्तुतिः

सूर्येण स्व-गले संस्थो
मणिर् दत्तः स्यमन्तकः ।
सत्राजिते स तद्-रत्नं
गले भक्त्या बबन्ध ह ॥ १२३ ॥

मूलम्

सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमन्तकः ।
सत्राजिते स तद्रत्नं गले भक्त्या बबन्ध ह ॥ १२३ ॥

विश्वास-प्रस्तुतिः

नित्यं सुवर्ण-भाराणाम्
अष्टौ स्रवति सन्मणिः ।
सूर्य-तेजः-समानश्च+
अशोभयद् यदुनन्दनम् ॥ १२४ ॥

मूलम्

नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः ।
सूर्यतेजःसमानश्चाऽशोभयद्यदुनन्दनम् ॥ १२४ ॥

विश्वास-प्रस्तुतिः

द्वारकायां स्थितं तं स
सूर्य-भक्ति-परायणम् ।

शुचि-भावेन रत्नं सो
ऽपूजयत् तं निरन्तरम् ॥ १२५ ॥

मूलम्

द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम् ।
शुचिभावेन रत्नं सोऽपूजयत् तं निरन्तरम् ॥ १२५ ॥

विश्वास-प्रस्तुतिः

ततो बहुगते काले
कृष्णो दोषयुतोऽभवत् ।
तस्य बुद्धिः समुत्पन्ना
मणेः सङ्ग्रहणे नृप ॥ १२६ ॥

मूलम्

ततो बहुगते काले कृष्णो दोषयुतोऽभवत् ।
तस्य बुद्धिः समुत्पन्ना मणेः सङ्ग्रहणे नृप ॥ १२६ ॥

विश्वास-प्रस्तुतिः

सभायां संस्थितः कृष्णः
सत्राजितम् आह्वयत्
आगतं तम् उवाचाऽसौ
विनयेन समन्वितः ॥ १२७ ॥

मूलम्

सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् ।
आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥ १२७ ॥

श्रीकृष्ण उवाच ।

विश्वास-प्रस्तुतिः

उग्रसेनश् च सर्वेषां
यादवानां महामते ।
राजा ऽस्माभिः कृतस् तं ते
यादवाः पूजयन्ति भोः ॥ १२८ ॥

मूलम्

उग्रसेनश्च सर्वेषां यादवानां महामते ।
राजाऽस्माभिः कृतस्तं ते यादवाः पूजयन्ति भोः ॥ १२८ ॥

विश्वास-प्रस्तुतिः

अस्माभिर् दिग्-जये प्राप्तम्
उग्रसेनाय यादव ।
दत्तं श्रेष्ठं तथा त्वं तं
मणिं देहि स्यमन्तकम् ॥ १२९ ॥

मूलम्

अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव ।
दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमन्तकम् ॥ १२९ ॥

विश्वास-प्रस्तुतिः

सुवर्णं मणि-सम्भूतं
गृहाण त्वं तु नित्यदा ।
शोभार्थं कण्ठ-गं तात
मणिं कुरु नृपस्य तम् ॥ १३० ॥

मूलम्

सुवर्णं मणिसम्भूतं गृहाण त्वं तु नित्यदा ।
शोभार्थं कण्ठगं तात मणिं कुरु नृपस्य तम् ॥ १३० ॥

[[१६]]

विश्वास-प्रस्तुतिः

एवम् उक्तः स सत्राजित्
तम् उवाच समन्युना ।
प्रसेनाय मया दत्तः
स मे नैव ददाति तम् ॥ १३१ ॥

मूलम्

एवमुक्तः स सत्राजित्तमुवाच समन्युना ।
प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥ १३१ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा गृहं गत्वा
स्वानुजाय ददौ मणिम् ।
प्रसेनाय स्ववृत्तान्तं
कथयाम् आस विस्तरात् ॥ १३२ ॥

मूलम्

एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् ।
प्रसेनाय स्ववृत्तान्तं कथयामास विस्तरात् ॥ १३२ ॥

विश्वास-प्रस्तुतिः

ततः कदाचित् कृष्णेन
सहिता यदु-नन्दनाः ।
मृगयार्थं वने राजन्
जग्मुर् हर्ष-समन्विताः ॥ १३३ ॥

मूलम्

ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः ।
मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥ १३३ ॥

विश्वास-प्रस्तुतिः

तत्राशुचि-स्वभावेन
प्रसेनस् तं मणिं परम् ।
बबन्ध स्वगले सोऽपि
तैः सह प्रययौ वनम् ॥ १३४ ॥

मूलम्

तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् ।
बबन्ध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥ १३४ ॥

विश्वास-प्रस्तुतिः

अशुचित्वस्य दोषेण
सिंहकस् तं प्रसेनकम् ।
साश्वं हत्वाऽऽगृह्य मणिं
ययौ स्थानं स्वकं महान् ॥ १३५ ॥

मूलम्

अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम् ।
साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥ १३५ ॥

विश्वास-प्रस्तुतिः

ततस् तं जाम्बवान् हत्वा
गृह्य
सिंहं मणिं ययौ
स्थानं, पुत्र्या मणिं हस्ते
तं ददौ स महाबलः ॥ १३६ ॥

मूलम्

ततस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं ययौ ।
स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥ १३६ ॥

विश्वास-प्रस्तुतिः

तव भर्ता सुते यो वै
भविष्यति मणिं परम् ।
तस्मै दास्यामि भावेन
त्वदीयो ऽयं मणिः स्मृतः ॥ १३७ ॥

मूलम्

तव भर्ता सुते यो वै भविष्यति मणिं परम् ।
तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥ १३७ ॥

विश्वास-प्रस्तुतिः

सायाह्ने यादवाः सर्वे
आगताः स्व-स्व-मन्दिरे ।
प्रसेनेन विहीनास् ते
सत्राजित् क्रोधम् आदधे ॥ १३८ ॥

मूलम्

सायाह्ने यादवाः सर्वे आगताः स्वस्वमन्दिरे ।
प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥ १३८ ॥

विश्वास-प्रस्तुतिः

अहो कृष्णेन मे भ्राता
संहतो नात्र संशयः ।
मणि-लोभ-वशेनाऽपि
पापिना पापचेतसा ॥ १३९ ॥

मूलम्

अहो कृष्णेन मे भ्राता संहतो नात्र संशयः ।
मणिलोभवशेनाऽपि पापिना पापचेतसा ॥ १३९ ॥

विश्वास-प्रस्तुतिः

ततो लोकाः पुरे संस्थाः
सत्यम् आमानयंस् तु ते ।
उग्रसेनादयः सर्वे
कृष्णं न्यभर्त्सयन् नृप ॥ १४० ॥

मूलम्

ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते ।
उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥ १४० ॥

विश्वास-प्रस्तुतिः

ततः कृष्णश् च दुःखार्तः
ध्यानेनावलोकयन्
नरवन् न बुबोधाऽपि
स दोषो वसुदेव-जः ॥ १४१ ॥

मूलम्

ततः कृष्णश्च दुःखार्तः स ध्यानेनावलोकयन् ।
नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥ १४१ ॥

विश्वास-प्रस्तुतिः

ततोऽति-दुःखितो भूत्वा
विचारं देवकी-सुतः ।
चकारान्तरजं ज्ञानं
क्व गतं मम साम्प्रतम् ॥ १४२ ॥

मूलम्

ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः ।
चकारान्तरजं ज्ञानं क्व गतं मम साम्प्रतम् ॥ १४२ ॥

विश्वास-प्रस्तुतिः

नरतुल्यः कथं जातः
कारणं नात्र वेद्मि वै ।
देहत्यागं करिष्यामि
वृथा लाञ्छनकारणात् ॥ १४३ ॥

मूलम्

नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै ।
देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥ १४३ ॥

विश्वास-प्रस्तुतिः

ततः सभां समागम्य+ +आगृह्य यादव-मुख्यकान् ।
वनं ययौ प्रसेनस्य
निश्चयार्थं महाद्युतिः ॥ १४४ ॥

मूलम्

ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् ।
वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥ १४४ ॥

विश्वास-प्रस्तुतिः

पादमार्गं प्रसेनस्य
ते सङ्गृह्य महावने ।
गतास् तत्र मृतं साश्वं
प्रसेनं ददृशुर् नराः ॥ १४५ ॥

मूलम्

पादमार्गं प्रसेनस्य ते सङ्गृह्य महावने ।
गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥ १४५ ॥

विश्वास-प्रस्तुतिः

सिंहेन संहतं दृष्ट्वा
मणिहीनं तु यादवाः ।
पुरतस् ते ययुः सर्वे
सिंह-मार्ग-प्रधारिणः ॥ १४६ ॥

मूलम्

सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः ।
पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥ १४६ ॥

विश्वास-प्रस्तुतिः

ततो महावने सिंहम्
ऋक्षेण प्रहतं पुनः ।
ददृशुर्, मणिं तत्र
लेभिरे भय-सङ्कुलाः ॥ १४७ ॥

मूलम्

ततो महावने सिंहमृक्षेण प्रहतं पुनः ।
ददृशुर्न मणिं तत्र लेभिरे भयसङ्कुलाः ॥ १४७ ॥

विश्वास-प्रस्तुतिः

ऋक्ष-पादं तथाऽऽगृह्य
ययुर् यादव-मुख्यकाः ।
महावने बिले घोरे
गतम् ऋक्षम् अलोकयन् ॥ १४८ ॥

मूलम्

ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः ।
महावने बिले घोरे गतमृक्षमलोकयन् ॥ १४८ ॥

विश्वास-प्रस्तुतिः

ततस् तांस् तत्र संस्थाप्य
कृष्णः पर-पुरञ्-जयः ।
बिले सम्प्रविवेशाऽथ
+++(हन्तक-)+++लाञ्छनस्यापनोदनात् ॥ १४९ ॥

मूलम्

ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरञ्जयः ।
बिले सम्प्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥ १४९ ॥

विश्वास-प्रस्तुतिः

बिले योजन-मात्रं स
गत्वा तत्र ददर्श ह ।
प्रकाश-युक्तं संस्थानं
शोभमानं सुविस्तरम् ॥ १५० ॥

मूलम्

बिले योजनमात्रं स गत्वा तत्र ददर्श ह ।
प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥ १५० ॥

विश्वास-प्रस्तुतिः

दोलायां संस्थितं वीक्ष्य
मणिं कृष्णो जहर्ष च ।
तत्र सुप्तं शिशुं दृष्ट्वा
शनैर् आगात् स यादवः ॥ १५१ ॥

मूलम्

दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च ।
तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥ १५१ ॥

विश्वास-प्रस्तुतिः

ततोऽकस्माज् जाम्बवतो
बहिः पुत्री समाययौ ।
अ-पूर्वं पुरुषं दृष्ट्वा
चुक्रोश भयसङ्कुला ॥ १५२ ॥

मूलम्

ततोऽकस्माज्जाम्बवतो बहिः पुत्री समाययौ ।
अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसङ्कुला ॥ १५२ ॥

विश्वास-प्रस्तुतिः

ततो जाम्बवता राजन्
श्रुतं पुत्र्याः प्ररोदनम् ।
आययौ च स तं दृष्ट्वा
युयुधे विष्णुना स्वयम् ॥ १५३ ॥

मूलम्

ततो जाम्बवता राजन् श्रुतं पुत्र्याः प्ररोदनम् ।
आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥ १५३ ॥

विश्वास-प्रस्तुतिः

गतास् तयोर् एक-विंशति-
घस्रास् तु प्रयुध्यतोः ।
यादवा जग्मिरे सर्वे
बहिःस्था अष्टमे दिने ॥ १५४ ॥

मूलम्

गतास्तयोरेकविंशतिघस्रास्तु प्रयुध्यतोः ।
यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥ १५४ ॥

विश्वास-प्रस्तुतिः

द्वारकायां स्व-वृत्तान्तं
कथयन्ति स्म विह्वलाः ।
दिवसाः सप्त तत्रैव
किलास्माकं गता बहिः ॥ १५५ ॥

मूलम्

द्वारकायां स्ववृत्तान्तं कथयन्ति स्म विह्वलाः ।
दिवसाः सप्त तत्रैव किलास्माकं गता बहिः ॥ १५५ ॥

Pageखं. ४ अ.

विश्वास-प्रस्तुतिः

तथापि विवरात् कृष्णो
बहिश् च समागतः
मृतो वा जीवितो वा स
ज्ञायते किं न यादवः ॥ १५६ ॥

मूलम्

तथापि विवरात् कृष्णो न बहिश्च समागतः ।
मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥ १५६ ॥

विश्वास-प्रस्तुतिः

वसु-देवादयः श्रुत्वा
स-स्त्रीका नृप दुःखिताः ।
उग्रसेनादयः सर्वे
रुरुदुर् दुःखकर्शिताः ॥ १५७ ॥

मूलम्

वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः ।
उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥ १५७ ॥

विश्वास-प्रस्तुतिः

परेऽस्माकं विशेषेण
शत्रवः संस्थिता अहो ।
जरासन्धादयश् चान्ये
किं भविष्यति यादवाः ॥ १५८ ॥

मूलम्

परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो ।
जरासन्धादयश्चान्ये किं भविष्यति यादवाः ॥ १५८ ॥

विश्वास-प्रस्तुतिः

हीनाः कृष्णेन सञ्जाता
अधुना नात्र संशयः ।
द्विषद्भिः संहताः सर्वे
मरिष्यामः सपक्षकाः ॥ १५९ ॥

मूलम्

हीनाः कृष्णेन सञ्जाता अधुना नात्र संशयः ।
द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकाः ॥ १५९ ॥

विश्वास-प्रस्तुतिः

ततो रामेण ते सर्वे
सान्त्विता बहुलोक्तिभिः ।
निःश्वस्य संस्थिता भूप
दुःखयुक्ता भयाऽऽतुराः ॥ १६० ॥

मूलम्

ततो रामेण ते सर्वे सान्त्विता बहुलोक्तिभिः ।
निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥ १६० ॥

विश्वास-प्रस्तुतिः

सत्राजितं निनिन्दुस् ते
व्यर्थ-+++(हन्तक-)+++लाञ्छन-दं तदा ।
सोऽपि दुःख-समायुक्तो
बभूव भय-सङ्कुलः ॥ १६१ ॥

मूलम्

सत्राजितं निनिन्दुस्ते व्यर्थलाञ्छनदं तदा ।
सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः ॥ १६१ ॥

विश्वास-प्रस्तुतिः

अथ तं जाम्बवान् कृष्णम्
उवाच घन-निःस्वनः ।
कस् त्वं वीर महातेजा
योधयन्न् असि मां वद ॥ १६२ ॥

मूलम्

अथ तं जाम्बवान् कृष्णमुवाच घननिःस्वनः ।
कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥ १६२ ॥

विश्वास-प्रस्तुतिः

ततस् तं प्रत्युवाचेदं
कृष्णो वचनमुत्तमम् ।
यदु-वंश-भवं कृष्णं
मां जानीहि महामते ॥ १६३ ॥

मूलम्

ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् ।
यदुवंशभवं कृष्णं मां जानीहि महामते ॥ १६३ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा खेदसमायुक्तो
जाम्बवांस् तं ननाम वै ।
रामेणोक्तं वचो रम्यं
स त्वं विष्णुः समागतः ॥ १६४ ॥

मूलम्

श्रुत्वा खेदसमायुक्तो जाम्बवांस्तं ननाम वै ।
रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥ १६४ ॥

विश्वास-प्रस्तुतिः

अहं दासस् त्वदीयो वै
क्षमस्व करुणानिधे ।
अज्ञानाच् छक्तिगर्वेण+
+अपराधं युद्ध-जं च मे ॥ १६५ ॥

मूलम्

अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे ।
अज्ञानाच्छक्तिगर्वेणापराधं युद्धजं च मे ॥ १६५ ॥

विश्वास-प्रस्तुतिः

स्तुतः सम्पूजितस् तेन
कृष्णो वृत्तान्तम् आदरात् ।
अगदत् तं ततः श्रुत्वा
कन्यायुक्तं मणिं ददौ ॥ १६६ ॥

मूलम्

स्तुतः सम्पूजितस्तेन कृष्णो वृत्तान्तमादरात् ।
अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥ १६६ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा सस्त्रियं कृष्णो
द्वारकायां समागतः
आगतं कृष्णम् आलोक्य
हर्ष-युक्ता बभूविरे ॥ १६७ ॥

मूलम्

गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः ।
आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥ १६७ ॥

विश्वास-प्रस्तुतिः

यादवैश् च ततः कृष्णः
समानाय्य महामणिम् ।
सत्राजिते ददौ तत्र
सर्वेषां पश्यतां नृप ॥ १६८ ॥

मूलम्

यादवैश्च ततः कृष्णः समानाय्य महामणिम् ।
सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥ १६८ ॥

विश्वास-प्रस्तुतिः

सत्राजिन् मनसाऽत्यन्तं
निन्दयाम् आस तां तनुम् ।
भयभीतः स कृष्णस्य
विरोधेन महायशाः ॥ १६९ ॥

मूलम्

सत्राजिन् मनसाऽत्यन्तं निन्दयामास तां तनुम् ।
भयभीतः स कृष्णस्य विरोधेन महायशाः ॥ १६९ ॥

विश्वास-प्रस्तुतिः

सत्यभामां ददौ तस्मै
मणियुक्तां महात्मने ।
कृष्णाय, स उवाचेदं
श्वशुरे विनयान्वितः ॥ १७० ॥

मूलम्

सत्यभामां ददौ तस्मै मणियुक्तां महात्मने ।
कृष्णाय स उवाचेदं श्वशुरे विनयान्वितः ॥ १७० ॥

विश्वास-प्रस्तुतिः

सूर्य-भक्ति-युतस् त्वं वै
मणिं रक्ष महामते ।
दौहित्रास् ते भविष्यन्ति
ग्रहीष्यन्ति मणिं च ते ॥ १७१ ॥

मूलम्

सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते ।
दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च ते ॥ १७१ ॥

विश्वास-प्रस्तुतिः

तथेति यादवेनैव
कृतं सत्राजिता नृप ।
एतस्मिन्न् अन्तरे तत्र
वृत्तान्तो यादवैः श्रुतः ॥ १७२ ॥

मूलम्

तथेति यादवेनैव कृतं सत्राजिता नृप ।
एतस्मिन्नन्तरे तत्र वृत्तान्तो यादवैः श्रुतः ॥ १७२ ॥

विश्वास-प्रस्तुतिः

लाक्षा-गृहेषु सन्दग्धाः
कुन्त्या युक्ताश् च पाण्डवाः ।
पुरोचनेन, तज् ज्ञात्वा
रुरुदुर् यादवा बहु ॥ १७३ ॥

मूलम्

लाक्षागृहेषु सन्दग्धाः कुन्त्या युक्ताश्च पाण्डवाः ।
पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥ १७३ ॥

विश्वास-प्रस्तुतिः

रामेण हस्तिनापुर्यां
कृष्णः सद्यो जगाम ह ।
धृतराष्ट्रादिभिः सोऽपि
रुरोद शोकसङ्कुलः ॥ १७४ ॥

मूलम्

रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह ।
धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः ॥ १७४ ॥

विश्वास-प्रस्तुतिः

शत-धन्वा ततो ऽक्रूरः
कृतवर्मा च यादवः ।
मिलिताः क्रोध-संयुक्ता
विचारं चक्रुर् आदरात् ॥ १७५ ॥

मूलम्

शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः ।
मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥ १७५ ॥

विश्वास-प्रस्तुतिः

सत्राजिता वयं सर्वे
कन्यार्थं संवृताः पुरा ।
अस्मान् सन्त्यज्य कृष्णाय
ददौ
कन्यां सुरूपिणीम् ॥ १७६ ॥

मूलम्

सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा ।
अस्मान् सन्त्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥ १७६ ॥

विश्वास-प्रस्तुतिः

कृष्णः पाण्डव-शोकार्तो
ऽभवत् तत्रैव संस्थितः
स रामो, निश्य् अतः कार्यं
कर्तव्यं तत् त्रिभिः किल ॥ १७७ ॥

मूलम्

कृष्णः पाण्डवशोकार्तोऽभवत् तत्रैव संस्थितः ।
स रामो निश्यतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥ १७७ ॥

विश्वास-प्रस्तुतिः

हत्वा सत्राजितं सुप्तं
मणिर् ग्राह्यो न संशयः ।
एवं निश्चित्य रात्रौ तं
शतधन्वा जगाम ह ॥ १७८ ॥

मूलम्

हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः ।
एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥ १७८ ॥

विश्वास-प्रस्तुतिः

सत्राजितं स हत्वा वै
मणिं जग्राह दारुणः ।
संस्थाप्य तैल-द्रोण्यां तं
कृष्णं सत्या +++(वार्ता)+++ ऽऽययौ ततः ॥ १७९ ॥

मूलम्

सत्राजितं स हत्वा वै मणिं जग्राह दारुणः ।
संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययौ ततः ॥ १७९ ॥

विश्वास-प्रस्तुतिः

श्वशुरं स हतं श्रुत्वा
रामेण सहसा गतम्
कृष्णं ज्ञात्वा रोषितं श-
तधन्वा ऽक्रूरम् आययौ ॥ १८० ॥ +++(यति-भङ्गः)+++

मूलम्

श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् ।
कृष्णं ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥ १८० ॥

[[१८]]

विश्वास-प्रस्तुतिः

अक्रूरेण समात्यक्तः
कृतवर्माणम् आययौ
तेनापि न धृतः पक्षः
पुनः सोऽक्रूरम् आययौ ॥ १८१ ॥

मूलम्

अक्रूरेण समात्यक्तः कृतवर्माणमाययौ ।
तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥ १८१ ॥

विश्वास-प्रस्तुतिः

मणिं तत्रैव निक्षिप्य
पपाल भयसङ्कुलः ।
शतयोजन-गाऽश्विन्यां
समारुह्य नृपात्मज ॥ १८२ ॥

मूलम्

मणिं तत्रैव निक्षिप्य पपाल भयसङ्कुलः ।
शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥ १८२ ॥

विश्वास-प्रस्तुतिः

पलायमानं विज्ञाय
कृष्णः सङ्कर्षणान्वितः ।
रथम् आरुह्य वेगेन
तम् अनु प्रययौ तदा ॥ १८३ ॥

मूलम्

पलायमानं विज्ञाय कृष्णः सङ्कर्षणान्वितः ।
रथमारुह्य वेगेन तमनु प्रययौ तदा ॥ १८३ ॥

विश्वास-प्रस्तुतिः

योजनानां शतं गत्वा
ममार ह पुरोऽश्विनीं ।
शतधन्वा भयैर्युक्तः
पलायत पदा ततः ॥ १८४ ॥

मूलम्

योजनानां शतं गत्वा ममार ह पुरोऽश्विनीं ।
शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥ १८४ ॥

विश्वास-प्रस्तुतिः

पदातिनं च तं ज्ञात्वा
कृष्णो ऽधावत् सुसत्वरः ।
पदातिर् बल-भद्रे स
रथं त्यक्त्वा महाद्युतिः ॥ १८५ ॥

मूलम्

पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः ।
पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥ १८५ ॥

विश्वास-प्रस्तुतिः

ततश् चक्रेण कृष्णेन
हतस् तत्र पपात ह ।
शतधन्वा तेन तस्मिन्
न दृष्टो मणिरुत्तमः ॥ १८६ ॥

मूलम्

ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह ।
शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥ १८६ ॥

विश्वास-प्रस्तुतिः

ततः शोकसमायुक्तो
बलभद्रम् उवाच ह ।
शतधन्वा हतो हीनो**
मणिना तत्र मानद ॥ १८७ ॥

मूलम्

ततः शोकसमायुक्तो बलभद्रमुवाच ह ।
शतधन्वा हतो हीनो मणिना तत्र मानद ॥ १८७ ॥

विश्वास-प्रस्तुतिः

उवाच कोपयुक्तस्
तं स ततो रोहिणी-सुतः ।
मणिस् त्वया सुसङ्गुप्तो
मिथ्या वाक् त्वं महाखल ॥ १८८ ॥

मूलम्

उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः ।
मणिस्त्वया सुसङ्गुप्तो मिथ्या वाक् त्वं महाखल ॥ १८८ ॥

विश्वास-प्रस्तुतिः

अग्रजाय प्रदातव्यस्
तदर्थं मणिर् आदरात् ।
कृतं त्वया महालोभिन्
कर्म साधु जुगुप्सितम् ॥ १८९ ॥

मूलम्

अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् ।
कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥ १८९ ॥

विश्वास-प्रस्तुतिः

ततस्तं विनयेनैव
सान्त्वयाम् आस केशवः ।
द्विज-देव-गवां ते मे
शपथो न कृतं मया ॥ १९० ॥

मूलम्

ततस्तं विनयेनैव सान्त्वयामास केशवः ।
द्विजदेवगवां ते मे शपथो न कृतं मया ॥ १९० ॥

विश्वास-प्रस्तुतिः

तं तिरस्कृत्य वेगेन
त्यक्त्वा रामो जगाम ह ।
विदर्भं राजनीतिज्ञं
स्वमित्रं नृपतिं तदा ॥ १९१ ॥

मूलम्

तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह ।
विदर्भं राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥ १९१ ॥

विश्वास-प्रस्तुतिः

ततोऽतिदुःख-संयुक्तः
कृष्णः परम-दारुणम् ।
रुरोद बलभद्रं स
स्मृत्वा स्मृत्वा विशेषतः ॥ १९२ ॥

मूलम्

ततोऽतिदुःखसंयुक्तः कृष्णः परमदारुणम् ।
रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥ १९२ ॥

विश्वास-प्रस्तुतिः

ज्ञानदृष्ट्या स कृष्णेन
मणिर् नाप्तो महीपते ।
ततोऽतिदुःखितो भूत्वा
रुरोद च पुनः पुनः ॥ १९३ ॥

मूलम्

ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते ।
ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥ १९३ ॥

विश्वास-प्रस्तुतिः

अहो ज्ञानं मदीयं यद्
गतं कुत्र विशेषतः ।
नर-तुल्यः कृतः केन
धिङ् मे जीवितकं किल ॥ १९४ ॥

मूलम्

अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः ।
नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥ १९४ ॥

विश्वास-प्रस्तुतिः

रथ-संस्थः समायातो
द्वारकायां महायशाः ।
लोक-वृत्तान्तम् उग्रं स
कथयाम् आस विस्तरात् ॥ १९५ ॥

मूलम्

रथसंस्थः समायातो द्वारकायां महायशाः ।
लोकवृत्तान्तमुग्रं स कथयामास विस्तरात् ॥ १९५ ॥

विश्वास-प्रस्तुतिः

ततो यादव-मुख्यैः स
भर्त्सितो ऽतिविशेषतः ।
कृष्णः सत्राजितः कर्म
चकारोत्तरकं नृप ॥ १९६ ॥

मूलम्

ततो यादवमुख्यैः स भर्त्सितोऽतिविशेषतः ।
कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥ १९६ ॥

विश्वास-प्रस्तुतिः

देशे देशे नृपाद्याश् च
जनाः कृष्णं विशेषतः ।
निनिन्दुः कर्म कृष्णेन
किं कृतं दुष्टबुद्धिना ॥ १९७ ॥

मूलम्

देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः ।
निनिन्दुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥ १९७ ॥

विश्वास-प्रस्तुतिः

समर्थं बलभद्रं यो
ऽत्यजज् ज्येष्ठं सुदुर्मतिः ।
मणिलोभी महापापी
विश्वास्यो नैव केनचित् ॥ १९८ ॥

मूलम्

समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः ।
मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥ १९८ ॥

विश्वास-प्रस्तुतिः

द्वारकायां जनाः सर्वे
तं कृष्णं न प्रमेनिरे
त्यक्तः सर्वैस् तथा कृष्णः
शुशोच परमव्यथः ॥ १९९ ॥

मूलम्

द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे ।
त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥ १९९ ॥

विश्वास-प्रस्तुतिः

अस्थि-त्वचा-समायुक्तं
सदा स्व-गृह-संस्थितम् ।
नारदस् तं समालोच्य+
+आययौ दृष्ट्वा सुविस्मितः ॥ २०० ॥

मूलम्

अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् ।
नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥ २०० ॥

विश्वास-प्रस्तुतिः

तं प्रणम्य महात्मानं
कृष्णः परमदुःखितः ।
उवाच भावभक्त्या वै
कृताञ्जलि-पुटः शनैः ॥ २०१ ॥

मूलम्

तं प्रणम्य महात्मानं कृष्णः परमदुःखितः ।
उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः ॥ २०१ ॥

श्रीकृष्ण उवाच ।

विश्वास-प्रस्तुतिः

सर्वैः सन्त्याजितो दुःखी
गृहे नित्यं वसाम्य् अहम् ।
तत्र ते दर्शनं स्वामिन्न्
अभवत् भाग्य-योगतः ॥ २०२ ॥

मूलम्

सर्वैः सन्त्याजितो दुःखी गृहे नित्यं वसाम्यहम् ।
तत्र ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥ २०२ ॥

विश्वास-प्रस्तुतिः

ततस्तं नारदः प्राह
किम्-अर्थं त्यज्यसे वद ।
एवं पृष्टः पुनः प्राह
वृत्तान्तं सर्वम् अञ्जसा ॥ २०३ ॥

मूलम्

ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद ।
एवं पृष्टः पुनः प्राह वृत्तान्तं सर्वमञ्जसा ॥ २०३ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा वृत्तान्तम् उग्रं वै
ध्यानेनालोक्य नारदः ।
देह-त्यागे समुद्योगं
कुर्वन्तं तम् उवाच ह ॥ २०४ ॥

मूलम्

श्रुत्वा वृत्तान्तमुग्रं वै ध्यानेनालोक्य नारदः ।
देहत्यागे समुद्योगं कुर्वन्तं तमुवाच ह ॥ २०४ ॥

नारद उवाच ।

विश्वास-प्रस्तुतिः

भाद्र-शुक्ल-चतुर्थ्यां च
त्वया चन्द्रो विलोकितः
शप्तोऽसौ विघ्नराजेन
तेन सन्दुःखितो भवान् ॥ २०५ ॥

मूलम्

भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः ।
शप्तोऽसौ विघ्नराजेन तेन सन्दुःखितो भवान् ॥ २०५ ॥

[[१९]]

विश्वास-प्रस्तुतिः

देहत्यागं महाबुद्धे
मा कुरुष्व विशेषतः ।
गणेशं भज भावेन
सङ्कष्टी व्रत-संयुतम् ॥ २०६ ॥

मूलम्

देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः ।
गणेशं भज भावेन सङ्कष्टी व्रतसंयुतम् ॥ २०६ ॥

विश्वास-प्रस्तुतिः

मिथ्याऽपवाद-शून्यस् त्वं
भविष्यसि न चान्यथा ।
स-ज्ञानश् च समर्थेशस्
तस्मात् तं शरणं व्रज ॥ २०७ ॥

मूलम्

मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा ।
सज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज ॥ २०७ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा महायोगी
नारदः प्रययौ ततः ।
गणेश-गान-संयुक्तो
वीणा-वादन-लालसः ॥ २०८ ॥

मूलम्

एवमुक्त्वा महायोगी नारदः प्रययौ ततः ।
गणेशगानसंयुक्तो वीणावादनलालसः ॥ २०८ ॥

विश्वास-प्रस्तुतिः

ततः कृष्णः प्रहर्षेण
युक्तो विघ्नेशम् आदरात् ।
अभजद् ध्यान-मार्ग-ज्ञो
ध्यानेनोग्रेण भूमिप ॥ २०९ ॥

मूलम्

ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् ।
अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥ २०९ ॥

विश्वास-प्रस्तुतिः

एकाक्षरेण मन्त्रेण +
+अपूजयन् नित्यम् एव तम् ।
व्रतं चकार स ततः
सङ्कष्टीसञ्ज्ञमुत्तमम् ॥ २१० ॥

मूलम्

एकाक्षरेण मन्त्रेणापूजयन्नित्यमेव तम् ।
व्रतं चकार स ततः सङ्कष्टीसञ्ज्ञमुत्तमम् ॥ २१० ॥

विश्वास-प्रस्तुतिः

रात्राव् एकान्त-संस्थं तं
ध्यान-निष्ठं जनार्दनम् ।
निश्चलं गणराजः
ययौ भक्तं सुखप्रदः ॥ २११ ॥

मूलम्

रात्रावेकान्तसंस्थं तं ध्याननिष्ठं जनार्दनम् ।
निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥ २११ ॥

विश्वास-प्रस्तुतिः

बोधयाम् आस तं कृष्णं
गणेशो ब्रह्म-नायकः ।
तम् उत्थाय ननामाऽसौ
पूजयाम् आस चादरात् ॥ २१२ ॥

मूलम्

बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः ।
तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥ २१२ ॥

विश्वास-प्रस्तुतिः

पुनः प्रणम्य तुष्टाव
विघ्नेशं साम-गेन सः ।
स्तोत्रेणाष्टक-सञ्ज्ञेन
नाम्ना तं प्रननर्त ह ॥ २१३ ॥

मूलम्

पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः ।
स्तोत्रेणाष्टकसञ्ज्ञेन नाम्ना तं प्रननर्त ह ॥ २१३ ॥

विश्वास-प्रस्तुतिः

सरोमाञ्चं गणेशानः
कृष्णं दृष्ट्वा जगाद ह ।
वरं वरय मत्तस् त्वं
दास्यामि हृदि वाञ्छितम् ॥ २१४ ॥

मूलम्

सरोमाञ्चं गणेशानः कृष्णं दृष्ट्वा जगाद ह ।
वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥ २१४ ॥

विश्वास-प्रस्तुतिः

गणेश-वचनं श्रुत्वा
तं जगाद महायशाः ।
कृष्णो भक्त्या समायुक्तो
वचनं खेद-संयुतः ॥ २१५ ॥

मूलम्

गणेशवचनं श्रुत्वा तं जगाद महायशाः ।
कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुतः ॥ २१५ ॥

श्रीकृष्ण उवाच ।

विश्वास-प्रस्तुतिः

यदि तुष्टोऽसि विघ्नेश
वरदोऽसि विशेषतः ।
तदा ते भक्तिम् उग्रां मे
देहि ह्य् अव्यभिचारिणीम् ॥ २१६ ॥

मूलम्

यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः ।
तदा ते भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीम् ॥ २१६ ॥

विश्वास-प्रस्तुतिः

भाद्र-शुक्ल-चतुर्थ्यां ये
चन्द्रं पश्यन्ति विघ्नप ।
ते शाप-दुःख-हीना वै
भवन्तु कृपया च ते ॥ २१७ ॥

मूलम्

भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यन्ति विघ्नप ।
ते शापदुःखहीना वै भवन्तु कृपया च ते ॥ २१७ ॥

विश्वास-प्रस्तुतिः

अहं चासन्न-मरण-
जनवज् ज्ञान-वर्जितः
प्रकृतो ऽन्यस्य का वार्ता
प्रार्थयामि ततः प्रभो ॥ २१८ ॥

मूलम्

अहं चासन्नमरणजनवज्ज्ञानवर्जितः ।
प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥ २१८ ॥

विश्वास-प्रस्तुतिः

जगाद गण-नाथः स
ततस् तं भक्ति-मोहितः ।
मम भक्तिर् दृढा कृष्ण
भविष्यति च तेऽनघ ॥ २१९ ॥

मूलम्

जगाद गणनाथः स ततस्तं भक्तिमोहितः ।
मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥ २१९ ॥

विश्वास-प्रस्तुतिः

स्यमन्तकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् ।
वरदानं मदीयं च यः शृणोति जनार्दन ॥ २२० ॥

मूलम्

स्यमन्तकस्य माहात्म्यं
त्वदीयं +++(चोर-)+++लाञ्छन-प्रदम् ।
वरदानं मदीयं च
यः शृणोति जनार्दन ॥ २२० ॥

विश्वास-प्रस्तुतिः

पठेत् तु भाव-युक्तश् चेन्
मां धृत्वा हृदये हरे ।
स एव दोष-संहीनो
भवत्व् अत्र न संशयः ॥ २२१ ॥

मूलम्

पठेत्तु भावयुक्तश्चेन् मां धृत्वा हृदये हरे ।
स एव दोषसंहीनो भवत्वत्र न संशयः ॥ २२१ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा गणेशानः
कृष्णं भक्तिपरायणम् ।
अन्तर्धानं चकाराऽसौ
कृष्णस् तत्र समास्थितः ॥ २२२ ॥

मूलम्

एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् ।
अन्तर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥ २२२ ॥

विश्वास-प्रस्तुतिः

सम्पूर्णं जागरं कृत्वा
पञ्चम्यां नियतः प्रभुः ।
पूजयित्वा गणेशानं
ददौ दानं विशेषतः ॥ २२३ ॥

मूलम्

सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियतः प्रभुः ।
पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥ २२३ ॥

विश्वास-प्रस्तुतिः

गणेश-कृपया तस्य+
+अन्तर्ज्ञानं सम्बभूव ह ।
ग्रहणं च मणेस् तेन
ज्ञातम् अक्रूरकारितम् ॥ २२४ ॥

मूलम्

गणेशकृपया तस्याऽन्तर्ज्ञानं सम्बभूव ह ।
ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥ २२४ ॥

विश्वास-प्रस्तुतिः

सभायां स समागम्य+
+अक्रूरं तत्राजुहाव च ।
तं प्रणम्य महाभागम्
उवाच हास्यसंयुतः ॥ २२५ ॥

मूलम्

सभायां स समागम्याक्रूरं तत्राजुहाव च ।
तं प्रणम्य महाभागमुवाच हास्यसंयुतः ॥ २२५ ॥

विश्वास-प्रस्तुतिः

मणिश् च तात सन्त्यक्तो
गेहे ते शतधन्वना ।
बल-भद्रार्थम् अद्य त्वं
मणिं दर्शय मानद ॥ २२६ ॥

मूलम्

मणिश्च तात सन्त्यक्तो गेहे ते शतधन्वना ।
बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥ २२६ ॥

विश्वास-प्रस्तुतिः

ततोऽक्रूरेण चानीतो
मणिस् तत्र सुसंसदि ।
दृष्ट्वोग्रसेन-मुख्यास् ते
प्रशशंसुर् जनार्दनम् ॥ २२७ ॥

मूलम्

ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि ।
दृष्ट्वोग्रसेनमुख्यास्ते प्रशशंसुर्जनार्दनम् ॥ २२७ ॥

विश्वास-प्रस्तुतिः

अक्रूरश् च विदर्भं तं
गत्वा हलधरं प्रभुम् ।
मणिं दत्त्वा समानीय
सभायां संस्थितो ऽभवत् ॥ २२८ ॥

मूलम्

अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् ।
मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥ २२८ ॥

विश्वास-प्रस्तुतिः

समागतं महावीरम्
अनमत् केशवः पुनः ।
सर्वे हर्षयुता जाता
द्वारका-वासिनस् ततः ॥ २२९ ॥

मूलम्

समागतं महावीरमनमत् केशवः पुनः ।
सर्वे हर्षयुता जाता द्वारकावासिनस्ततः ॥ २२९ ॥

विश्वास-प्रस्तुतिः

निर्दोषं वासुदेवं ते
मानयाम् आसुर् आदरात् ।
राजानः सुहृदः सर्वे
नाना-देश-निवासिनः ॥ २३० ॥

मूलम्

निर्दोषं वासुदेवं ते मानयामासुरादरात् ।
राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥ २३० ॥

[[२०]]

विश्वास-प्रस्तुतिः

सर्वेषां हृदि संस्थोऽयं
गणेशो बुद्धि-नायकः ।
तस्यैव कृपया राजन्
भवेत् किं किं सुदुर्लभम् ॥ २३१ ॥

मूलम्

सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः ।
तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥ २३१ ॥

विश्वास-प्रस्तुतिः

अतो भाद्र-चतुर्थ्यां वै
न द्रष्टव्यः कदाचन ।
चन्द्रः कदाचित् दृष्टश् चेद्
इदं श्रोतव्यम् आदरात् ॥ २३२ ॥

मूलम्

अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन ।
चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥ २३२ ॥

विश्वास-प्रस्तुतिः

तेन दोष-विहीनश्
जायते नात्र संशयः ।
अन्यथा भ्रष्ट-भावेन
नारकी स नरो भवेत् ॥ २३३ ॥

मूलम्

तेन दोषविहीनश्च जायते नात्र संशयः ।
अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥ २३३ ॥

विश्वास-प्रस्तुतिः

स्यमन्तक-मणेश् चित्रं
चरितं कथितं परम् ।
चन्द्र-दर्शन-जं दोषं
हरति
श्रवणेन च ॥ २३४ ॥

मूलम्

स्यमन्तकमणेश्चित्रं चरितं कथितं परम् ।
चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥ २३४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थीचन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥