०५ चतुर्थीविवेकवर्णनम्

॥ श्रीगणेशाय नमः ॥

दशरथ उवाच ।

विश्वास-प्रस्तुतिः

ब्रह्मादिभिः कथं विप्र
चतुर्थीगं व्रतं कृतम्
गण-नाथ-प्रियं पूर्णं
वद सर्वं प्रविस्तरात् ॥ १ ॥

मूलम्

ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् ।
गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥ १ ॥

दक्ष उवाच ।

विश्वास-प्रस्तुतिः

वद मुद्गल माहात्म्यं
चतुर्थ्यास् त्वं प्रविस्तरात् ।
श्रुत्वा कथां महारम्यां
न तृप्यामि मुनीश्वर ॥ २ ॥

मूलम्

वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् ।
श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥ २ ॥

विश्वास-प्रस्तुतिः

दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः ।
जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥ ३ ॥

मूलम्

दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः ।
जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥ ३ ॥

विश्वास-प्रस्तुतिः

वचनं नृप-वर्यस्य
श्रुत्वा दशरथस्य च ।
जगाद तं मुनिश्रेष्ठो
वसिष्ठः सर्ववित् प्रभुः ॥ ४ ॥

मूलम्

वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च ।
जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥ ४ ॥

वसिष्ठ उवाच ।

विश्वास-प्रस्तुतिः

कदाचित् प्रलये वृत्ते
नष्टं स्थावर-जङ्गमम् ।
पञ्च-भूत-मयं सर्वं
व्यवस्था-संयुतं पुरा ॥ ५ ॥

मूलम्

कदाचित् प्रलये वृत्ते नष्टं स्थावरजङ्गमम् ।
पञ्चभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥ ५ ॥

विश्वास-प्रस्तुतिः

शून्यवत् सर्व-भावैस् तद्
+हीनं ब्रह्ममयं बभौ
योग-निद्रा गणेशस्य
सैव वेदे प्रकथ्यते ॥ ६ ॥

मूलम्

शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ ।
योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥ ६ ॥

विश्वास-प्रस्तुतिः

पुनः स कस्मिंश्चित् काले
वेद-वाग्भिः प्रबोधितः
गणेशो निर्ममे सर्वं
तत्त्वैस् तत्त्व-प्रधारकः ॥ ७ ॥

मूलम्

पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः ।
गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥ ७ ॥

विश्वास-प्रस्तुतिः

त्रि-गुणेभ्यः समुत्पन्ना
देवाः पञ्च नृपेश्वर ।
ब्रह्मा विष्णुः शिवः शक्तिः
सूर्यः सर्व-धरा बभुः ॥ ८ ॥

मूलम्

त्रिगुणेभ्यः समुत्पन्ना देवाः पञ्च नृपेश्वर ।
ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥ ८ ॥

विश्वास-प्रस्तुतिः

तैस् तपश् चरितं घोरम्
एकाक्षर-विधानतः ।
तपसा गणनाथस् तु
प्रसन्नः प्रबभूव ह ॥ ९ ॥

मूलम्

तैस्तपश्चरितं घोरमेकाक्षरविधानतः ।
तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥ ९ ॥

विश्वास-प्रस्तुतिः

हृदये दर्शयाम् आस
स्वात्मानं सर्वदं परम् ।
तेन ज्ञान-युता जाता
देवाः पञ्च नरेश्वर ॥ १० ॥

मूलम्

हृदये दर्शयामास स्वात्मानं सर्वदं परम् ।
तेन ज्ञानयुता जाता देवाः पञ्च नरेश्वर ॥ १० ॥

विश्वास-प्रस्तुतिः

तैश् च सम्प्रार्थितो योगी
भ्रूशुण्डी सर्व-पार-गः ।
तेन सम्प्रेषिता देवा
आययुर् नगरे निजे ॥ ११ ॥

मूलम्

तैश्च सम्प्रार्थितो योगी भ्रूशुण्डी सर्वपारगः ।
तेन सम्प्रेषिता देवा आययुर्नगरे निजे ॥ ११ ॥

विश्वास-प्रस्तुतिः

कर्म-भूमौ गणेशस्य
क्षेत्रं स्वानन्द-वाचकम् ।
वेदैः सन्दर्शितं स्थापयाम्
आसुस् तत्र विघ्नपम् ॥ १२ ॥

मूलम्

कर्मभूमौ गणेशस्य क्षेत्रं स्वानन्दवाचकम् ।
वेदैः सन्दर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

यस्मिन् काले च देवेशैः
स्थापिता मूर्तिर् आदरात् ।
तस्मिन् काले चतुर्थी सा
भाद्री शुक्ला बभूव ह ॥ १३ ॥

मूलम्

यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् ।
तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥ १३ ॥

विश्वास-प्रस्तुतिः

मध्याह्न-समये संस्था
सा मुख्या प्रबभूव ह ।
तत आराधितस् तैः स
गणराजो विशेषतः ॥ १४ ॥

मूलम्

मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह ।
तत आराधितस्तैः स गणराजो विशेषतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

माघ-मासे सिते पक्षे
चतुर्थ्यां राज-सत्तम ।
प्रकटो ऽभूत् पुरस् तेषां
वर-दाता गजाननः ॥ १५ ॥

मूलम्

माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम ।
प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥ १५ ॥

विश्वास-प्रस्तुतिः

वर-प्रसादेन तस्य
निर्मितं सकलं जगत् ।
देवेशैः सा तिथिर् मुख्या
बभूव वरदायिनी ॥ १६ ॥

मूलम्

वरप्रसादेन तस्य निर्मितं सकलं जगत् ।
देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥ १६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मादिभिश् च सर्वेभ्य
उपदिष्टा चतुर्थिका ।
आदौ काले, तथा तत्र
ज्येष्ठी मुख्या बभूव सा ॥ १७ ॥

मूलम्

ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका ।
आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥ १७ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठ-शुद्ध-चतुर्थ्यां तद्-
व्रत-दानं कृतं
पुरा ।
तस्मिन् काले धृता सर्वैः
सद्यः सा वरदायिनी ॥ १८ ॥

मूलम्

ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा ।
तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥ १८ ॥

विश्वास-प्रस्तुतिः

अतो मुख्यत्वम् आपन्ना
ज्येष्ठी माघी च भाद्रिका ।
चतुर्थी नृपशार्दूल
शुक्लपक्षेषु सर्वदा ॥ १९ ॥

मूलम्

अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका ।
चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥ १९ ॥

विश्वास-प्रस्तुतिः

तत्र भाद्रपदे मासे
चतुर्थी या महामते ।
शुक्ला सा ऽत्यन्त-भावेन
मुख्या जाता ऽद्य भावतः ॥ २० ॥

मूलम्

तत्र भाद्रपदे मासे चतुर्थी या महामते ।
शुक्ला साऽत्यन्तभावेन मुख्या जाताऽद्य भावतः ॥ २० ॥

[[१०]]

विश्वास-प्रस्तुतिः

चतुर्थी समभावेन
न किञ्चिद् वर्तते व्रतम् ।
अतः किं वर्णनीयं वै
तदौपम्यं तदेव च ॥ २१ ॥+++(5)+++

मूलम्

चतुर्थी समभावेन न किञ्चिद्वर्तते व्रतम् ।
अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥ २१ ॥

विश्वास-प्रस्तुतिः

भाद्रे चतुर्थी या शुक्ला
साधिता सा नरेण चेत्
स द्वादश-चतुर्थी-सम्-
भवं पुण्यं समाप्नुयात् ॥ २२ ॥

मूलम्

भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् ।
स द्वादशचतुर्थीसम्भवं पुण्यं समाप्नुयात् ॥ २२ ॥

विश्वास-प्रस्तुतिः

अङ्गारक-युता भूप
सा नरेण कृता भवेत् ।
चतुर्थी षोडश-भवं पुण्यं
प्राप्तं न संशयः ॥ २३ ॥

मूलम्

अङ्गारकयुता भूप सा नरेण कृता भवेत् ।
चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥ २३ ॥

विश्वास-प्रस्तुतिः

नरेण धीमता सा चेद्
यदि चन्द्र+++(-वासर)+++-युता कृता
चतुर्थी विंशति-भवं
फलं प्राप्तं महामते ॥ २४ ॥

मूलम्

नरेण धीमता सा चेद्यदि चन्द्रयुता कृता ।
चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥ २४ ॥

विश्वास-प्रस्तुतिः

यदि स्वाति-युता भूप
चन्द्र-वारेण चेत्कृता ।
प्राप्तं चतुर्विंशति-
चतुर्थीजं किल पुण्यकम् ॥ २५ ॥

मूलम्

यदि स्वातियुता भूप चन्द्रवारेण चेत्कृता ।
प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

माघे शुक्ल-चतुर्थी सा
कृता चेन् नात्र संशयः ।
अष्टानां च चतुर्थीनां
फलं प्राप्तं नरेण तत् ॥ २६ ॥

मूलम्

माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः ।
अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

अङ्गारक-युता चेद् वै
साधिता सा नरेण च ।
द्वादशानां चतुर्थीनां
पुण्यं प्राप्तं व्रतोद्भवम् ॥ २७ ॥

मूलम्

अङ्गारकयुता चेद्वै साधिता सा नरेण च ।
द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठे शुक्ल-चतुर्थीं यः
करोति व्रत-धारकः ।
चतुश्-चतुर्थी-जं पुण्यं
लभते स नराधिप ॥ २८ ॥

मूलम्

ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः ।
चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥ २८ ॥

विश्वास-प्रस्तुतिः

अङ्गारक-युता चेद्
द्वादशभिः समतां व्रजेत् ।
नरेण सा प्रयत्नेन
कर्तव्या सर्वदायिका ॥ २९ ॥

मूलम्

अङ्गारकयुता चेद् द्वादशभिः समतां व्रजेत् ।
नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥ २९ ॥

विश्वास-प्रस्तुतिः

अन्येषु श्रावणाद्येषु
चतुर्थी वरदा कृता ।
धर्मार्थ-काम-मोक्षाणां
दात्री शास्त्रेषु सम्मतम् ॥ ३० ॥

मूलम्

अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता ।
धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु सम्मतम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

तत्र श्रावण-मासे या
चतुर्थी वरदा मता ।
द्वि-चतुर्थी-भवं पुण्यं
ददाति व्रतकारिणे ॥ ३१ ॥

मूलम्

तत्र श्रावणमासे या चतुर्थी वरदा मता ।
द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

चतुर्थ्या महिमा ऽनन्तो
ऽशक्यो वर्णयितुं भवेत् ।
चतुः-पद-प्रदा प्रोक्ता
सा कथं वर्ण्यते मया ॥ ३२ ॥

मूलम्

चतुर्थ्या महिमाऽनन्तोऽशक्यो वर्णयितुं भवेत् ।
चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अधुना शृणु राजेन्द्र
कृष्ण-पक्षे समागताम् ।
चतुर्थीं सर्वदां पुण्यां
सङ्कष्टहरिणीं शुभाम् ॥ ३३ ॥

मूलम्

अधुना शृणु राजेन्द्र कृष्णपक्षे समागताम् ।
चतुर्थीं सर्वदां पुण्यां सङ्कष्टहरिणीं शुभाम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

चतुर्विधंसङ्कष्टं
प्राप्तं सर्वैर्नराधिप ।
जन्म-मृत्यु-व्यवस्थाख्यं
चतुर्थं कर्मजं फलम् ॥ ३४ ॥

मूलम्

चतुर्विधं च सङ्कष्टं प्राप्तं सर्वैर्नराधिप ।
जन्ममृत्युव्यवस्थाख्यं चतुर्थं कर्मजं फलम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इत्यादि-बहवो भेदाः
कथनं नैव शक्यते ।
चतुर्-विधं जगत् सर्वं
पञ्चमं ब्रह्म उच्यते ॥ ३५ ॥

मूलम्

इत्यादिबहवो भेदाः कथनं नैव शक्यते ।
चतुर्विधं जगत् सर्वं पञ्चमं ब्रह्म उच्यते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

चतुर्-विधं सुसङ्कष्टं
व्रत-मात्रेण हन्ति या ।
सङ्कष्ट-हरिणी प्रोक्ता
चतुर्थी कृष्ण-पक्ष-गा ॥ ३६ ॥

मूलम्

चतुर्विधं सुसङ्कष्टं व्रतमात्रेण हन्ति या ।
सङ्कष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तस्यापि महिमानं कः
क्षमो वर्णयितुं भवेत् ।
सर्व-सिद्धि-प्रदायास्तु
व्रताचरण-मात्रतः ॥ ३७ ॥

मूलम्

तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् ।
सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

माघ-मासे कृताऽऽदौ च
ब्रह्मणा विश्व-योनिना ।
अतः सा मुख्यतां प्राप्ता
ऽष्ट-चतुर्थी-व्रतैः समा ॥ ३८ ॥

मूलम्

माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना ।
अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अङ्गारक-युता तत्र
विंशत्या समतां व्रजेत् ।
साधिता व्रत-भावेन
चेन् नरेण नराधिप ॥ ३९ ॥

मूलम्

अङ्गारकयुता तत्र विंशत्या समतां व्रजेत् ।
साधिता व्रतभावेन चेन्नरेण नराधिप ॥ ३९ ॥

विश्वास-प्रस्तुतिः

श्रावणे या समाख्याता
चतुर्थी कृष्णपक्षगा ।
चतुश्-चतुर्थीतुल्या सा
भवत्यत्र न संशयः ॥ ४० ॥

मूलम्

श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा ।
चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥ ४० ॥

विश्वास-प्रस्तुतिः

ब्रह्मणा चोपदिष्टा वै
श्रावणे सा ततोऽधिका ।
आदौ देव-मुनीन्द्रेभ्यः
सर्वसङ्कष्टहारिणी ॥ ४१ ॥

मूलम्

ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका ।
आदौ देवमुनीन्द्रेभ्यः सर्वसङ्कष्टहारिणी ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भाद्र-मासे नराधीश
चतुर्थी कृष्णपक्षगा ।
चतुश्-चतुर्थीतुल्या सा
शृणु कारणमत्र वै ॥ ४२ ॥

मूलम्

भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा ।
चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥ ४२ ॥

विश्वास-प्रस्तुतिः

देवानां गणनाथश्
वरदः सम्बभूव ह ।
व्रत-मात्रेण तस्मात् सा
मुख्या जाता न संशयः ॥ ४३ ॥

मूलम्

देवानां गणनाथश्च वरदः सम्बभूव ह ।
व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अङ्गारक-युता कुत्र
सम्प्राप्ता चेत् सु-सिद्धि-दा ।
द्वा-दश-व्रत-जं पुण्यं
ददाति व्रतकारिणे ॥ ४४ ॥

मूलम्

अङ्गारकयुता कुत्र सम्प्राप्ता चेत् सुसिद्धिदा ।
द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥ ४४ ॥

विश्वास-प्रस्तुतिः

शुक्ला कृष्णा सदा कार्या
चतुःपद-सुसिद्धये ।
अन्यथा सिद्धि-हीनानि
प्रभवन्ति व्रतानि च ॥ ४५ ॥

मूलम्

शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये ।
अन्यथा सिद्धिहीनानि प्रभवन्ति व्रतानि च ॥ ४५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः ॥

[[११]]