॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् ।
दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥ १ ॥
येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे ।
महिम्नि निपुणोऽत्यन्तं सम्भवेर्ब्रह्मपुत्रक ॥ २ ॥
महायशा दशरथो वन्ध्यदोषभयार्दितः ।
वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥ ३ ॥
दशरथ उवाच ।
पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने ।
शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥ ४ ॥
ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् ।
कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥ ५ ॥
वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह ।
पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥ ६ ॥
कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः ।
कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥ ७ ॥
कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने ।
वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥ ८ ॥
वसिष्ठ उवाच ।
चतुर्थी गणनाथस्य प्रियाऽत्यन्तं नृपोत्तम ।
शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥ ९ ॥
चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका ।
सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥ १० ॥
चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज ।
सङ्कष्टं तत् समाख्यातं बन्धनेन विशेषतः ॥ ११ ॥
इह भुक्त्वाऽखिलान् भोगान् सङ्कष्टीकरणान्नृप ।
सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यति ॥ १२ ॥
यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते ।
प्रदोषव्यापिनी ग्राह्या सर्वसङ्कटमुक्तये ॥ १३ ॥
उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी ।
तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥ १४ ॥
तृतीयायां प्रदोषाच्च चन्द्रस्योदयगा भवेत् ।
तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥ १५ ॥
शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः ।
सञ्चिताऽसञ्चितानां वै व्रतकारिजनाय च ॥ १६ ॥
धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः ।
तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥ १७ ॥
मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका ।
उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥ १८ ॥
उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा ।
तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥ १९ ॥
प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता ।
तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥ २० ॥
चतुर्थीव्रतहीनस्य फलहीनानि भूमिप ।
व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥ २१ ॥
एतद्व्रतं महाभाग ब्रह्मणाऽऽचरितं पुरा ।
व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥ २२ ॥
विष्णुना शङ्करेणैव कृतं व्रतमनुत्तमम् ।
पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥ २३ ॥
योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः ।
मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥ २४ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ।
नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥ २५ ॥
अन्यैर्नानाविधैरेतत् कृतं वर्णाश्रमस्थितैः ।
ते सर्वे ब्रह्मभूता वै ययुः स्वानन्दके पुरे ॥ २६ ॥
[[५]]
एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः ।
भविताऽसि सपुत्रश्च तथा स्वानन्दगो भवेः ॥ २७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥