॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति ।
उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥ १ ॥
श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम् ।
पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥ २ ॥
प्रतिपदाद्या उचुः ।
यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन ।
किं कर्तव्यं दयासिन्धो अस्माभिर्वद साम्प्रतम् ॥ ३ ॥
स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम् ।
भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो ॥ ४ ॥
तासां वचनमाकर्ण्य जगाद गणनायकः ।
ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥ ५ ॥
गणेश उवाच ।
मदीया भक्तिरत्यन्तं भविष्यति न संशयः ।
भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥ ६ ॥
मत्कलांशसमुद्भूता देवास्तान् प्रीणयन्तु वै ।
भवतीभिर्युता देवा नराणां प्रीतिदाऽस्तु च ॥ ७ ॥
सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः ।
हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥ ८ ॥
उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः ।
तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम् ॥ ९ ॥
ते मृताः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः ।
अग्नितुल्यप्रकाशेन विमानेन विहायसा ॥ १० ॥
चरिष्यन्ति न सन्देहः प्रतिपद्व्रतकारकाः ।
ब्रह्मार्पणस्वभावेन गमिष्यन्ति मदात्मनि ॥ ११ ॥
द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ ।
पत्राहारसमायुक्तो रूपवान् जायते किल ॥ १२ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते तल्लोकमाप्नुयात् ।
द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥ १३ ॥
ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत् ।
स स्वानन्दे मदीये वै लीनश्चैव भविष्यति ॥ १४ ॥
तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः ।
सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहारवर्जितः ॥ १५ ॥
स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति ।
ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥ १६ ॥
पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः ।
पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥ १७ ॥
स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति ।
निष्कामेन मदीये वै लोकेऽन्ते आगमिष्यति ॥ १८ ॥
षष्ठ्यां स्कन्दं फलाहारः पूजयेद्भक्तिसंयुतः ।
स्कन्दलोके चरेत् सोऽपि महाभोगपरायणः ॥ १९ ॥
निष्कामभावयुक्तश्चेत् स्वानन्देऽन्ते गमिष्यति ।
शुक्लगत्याः क्रमेणैव सर्वभावनियन्त्रितः ॥ २० ॥
सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः ।
स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥ २१ ॥
निष्कामव्रतकारी चेन् महालयसमुत्थिते ।
स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥ २२ ॥
अष्टम्यां मातृकानां यः पूजको भावसंयुतः ।
बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥ २३ ॥
मदर्पणस्वभावेन सदा व्रतपरायणः ।
अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥ २४ ॥
नवम्यामेव दुर्गायाः पूजनं यः समाचरेत् ।
पिष्टाशी भोगसंयुक्तोऽन्ते तल्लोकमवाप्नुयात् ॥ २५ ॥
[[७]]
ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति ।
शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥ २६ ॥
दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः ।
दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥ २७ ॥
इह भुक्त्वाऽखिलात् भोगानन्ते तल्लोकमाप्नुयात् ।
निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥ २८ ॥
एकादश्यां नरो भक्षेद्वह्निपक्वविवर्जितम् ।
धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥ २९ ॥
स वै तस्य वसेल्लोके नानाभोगकरः सदा ।
ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेत् ॥ ३० ॥
विष्णुं सम्पूजयेद्यो वै द्वादश्यां घृतभोजनः ।
स विकुण्ठे वसेन्नित्यं नानाभोगपरायणः ॥ ३१ ॥
ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः ।
महालये मदीये स लोके ब्रह्ममयो भवेत् ॥ ३२ ॥
धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः ।
स धर्मलोकगो भूत्वा भुञ्जीत विविधं सुखम् ॥ ३३ ॥
ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी ।
स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति ॥ ३४ ॥
चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः ।
उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥ ३५ ॥
करिष्यति च कैलासे वासस्तस्य भविष्यति ।
निष्कामश्चेत्तदन्ते स मल्लोके मन्मयो भवेत् ॥ ३६ ॥
पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा ।
पूजयेद्भक्तिभावेन चन्द्रलोकं स आप्नुयात् ॥ ३७ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते देवान् गमिष्यति ।
निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥ ३८ ॥
उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति ।
चन्द्राय निशिभुग् वाऽपि सर्वदेवपरायणः ॥ ३९ ॥
सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता ।
चान्द्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥ ४० ॥
अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः ।
उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ४१ ॥
अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत् ।
आगमिष्यति निष्कामश्चेत् स्वानन्दे स तल्लये ॥ ४२ ॥
कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा ।
एवं भावयुतेनैव स सर्वार्थमवाप्नुयात् ॥ ४३ ॥
मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः ।
मत्कलांशयुतैर्देवैः संयुक्ताः प्रभवेत वै ॥ ४४ ॥
चतुर्थीं ये न कुर्वन्ति तेषां सर्वं निरर्थकम् ।
भवदीयव्रते संस्थं भविष्यति न संशयः ॥ ४५ ॥
अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः ।
तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥ ४६ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः ।
तथा जातं प्रजानाथ तिथियुक्तव्रतं सदा ॥ ४७ ॥
चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः ।
शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥
[[४]]