॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे ।
ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥ १ ॥
वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ ।
शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥ २ ॥
पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे ।
ततस्तस्या मुखाम्भोजात् प्रतिपन्निःसृता तिथिः ॥ ३ ॥
नासिकायां द्वितीया वै वक्षसश्च तृतीयिका ।
अङ्गुलीभ्यस्तथा दक्ष पञ्चमी चाभवत्तिथिः ॥ ४ ॥
उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ ।
अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥ ५ ॥
नवमी तिथिरुत्पन्ना उदराच्च प्रजापते ।
दशमी कर्णदेशाद्वै कण्ठाच्चैकादशी मता ॥ ६ ॥
द्वादशी पादयोस्तस्याः समुत्पन्ना तथा विभो ।
स्तनात् त्रयोदशी तस्या अहङ्काराच्चतुर्दशी ॥ ७ ॥
मनसः पूर्णिमा जाता अमावास्या तथाऽभवत् ।
जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥ ८ ॥
कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः ।
तिथयोः दशपञ्चाख्या ज्ञातव्या विबुधैः किल ॥ ९ ॥
शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः ।
तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥ १० ॥
दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः ।
स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥ ११ ॥
[[४]]
तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता ।
गणेशमभजन्नित्यं मन्त्रध्यानपरायणा ॥ १२ ॥
वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः ।
शुक्लां मध्याह्नसमये कृष्णां चन्द्रोदये तथा ॥ १३ ॥
वरं ब्रूहि गणेशानस्तामुवाच विशेषतः ।
प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा ॥ १४ ॥
चतुर्थ्युवाच ।
त्वदेकनिलयां देव मां कुरुष्व गजानन ।
नान्यं याचे वरं स्वामिन् भक्तिमिच्छामि शाश्वतीम् ॥ १५ ॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥ १६ ॥
अतो मध्याह्नकालेऽन्ये मां भजन्ते शिवादयः ।
चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥ १७ ॥
मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः ।
निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥ १८ ॥
चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितम् ।
सञ्चितं नास्ति चेद्देवि तथाप्यत्र न संशयः ॥ १९ ॥
सञ्चितं चास्ति चेद्वापि ददासि त्वं महामते ।
अतस्ते नाम विख्यातं वरदेति भविष्यति ॥ २० ॥
त्वां पूजयन्ति ये नैव मद्युक्तां व्रतभावतः ।
तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै ॥ २१ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो देवनायकः ।
तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥ २२ ॥
गणेशस्य प्रियाऽत्यन्तमिति जन्मतिथि: स्मृता ।
तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥ २३ ॥
पञ्चम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् ।
चतुर्विधं फलं तैश्च सम्प्राप्तं नात्र संशयः ॥ २४ ॥
यद्यदिच्छति तत्तत् स लभते व्रतकारकः ।
अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥ २५ ॥
तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत् प्रियम् ।
नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ ॥ २६ ॥
एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः ।
सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥ २७ ॥
ततः कृष्णां चतुर्थीं स जगाद गणनायकः ।
वरं वृणु महाभागे दास्यामि मनसीप्सितम् ॥ २८ ॥
श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् ।
स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता ॥ २९ ॥
कृष्णचतुर्थ्युवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा भक्तिं दृढां देहि त्वदीयां मे महोदर ॥ ३० ॥
त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे ।
सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥ ३१ ॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
सदा मम प्रियाऽत्यन्तं भविष्यसि महातिथे ॥ ३२ ॥
चन्द्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके।
तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥ ३३ ॥
न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः ।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३४ ॥
प्रहरान् पञ्च मद्भक्ताः प्रियेऽन्नजलवर्जिताः ।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३५ ॥
चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजम् ।
व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥ ३६ ॥
इत्यादि विविधं देवि विशेषेण चतुर्विधम् ।
सङ्कष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥ ३७ ॥
[[५]]
न सङ्कष्टं कदाचिद्वै व्रतकारि नरस्य च ।
भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः ॥ ३८ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ।
सङ्कष्टहरणी नाम भवेत्तव चतुर्थिके ॥ ३९ ॥
न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः ।
निष्फलं सकलं तस्य भजनं वै भविष्यति ॥ ४० ॥
त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते ।
व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति ॥ ४१ ॥
वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् ।
तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥ ४२ ॥
?यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् ।
सङ्कष्टहरणं देवि स्वानन्दार्थं न संशयः ॥ ४३ ॥
अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् ।
रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥ ४४ ॥
श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् ।
निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥ ४५ ॥
मार्गशीर्षे जलाहारः पौषे गोमूत्रभक्षणम् ।
माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥ ४६ ॥
पञ्चगव्यं म?धौ मासे वैशाखे पद्मबीजकम् ।
ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥ ४७ ॥
यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् ।
अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥ ४८ ॥
याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् ।
प्रातःकृत्यं सुसङ्क्षेपात् कर्तव्यं तन्नरेण वै ॥ ४९ ॥
तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च ।
चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥ ५० ॥
एवं कर्मादिकं कृत्वा मां सम्पूज्याल्पमन्त्रतः ।
प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥ ५१ ॥
चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत् ।
मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥ ५२ ॥
सायाह्नकालजं कर्म तत्र कुर्यान्नरोत्तमः ।
विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥ ५३ ॥
आदौ तेऽर्ध्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् ।
ततः सप्तार्घ्यदानं व्रती चन्द्राय समाचरेत् ॥ ५४ ॥
ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् ।
मोदकापूपलड्डूकपायसादिभिरादरात् ॥ ५५ ॥
रात्रौ जागरणं कुर्यान् मदीयकथयान्वितः ।
पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः ॥ ५६ ॥
एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् ।
भविष्यत्यमरैर्मान्योऽन्ते ब्रह्मणि लयं व्रजेत् ॥ ५७ ॥
यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः ।
तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥ ५८ ॥
शुक्लां कृष्णां चतुर्थीं ये करिष्यन्त्यमरादयः ।
सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥ ५९ ॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥ ६० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥