॥ श्रीगणेशाय नमः ॥
[[१]]
शौनक उवाच ।
त्वया सूत महाप्राज्ञ महोदरचरित्रकम् ।
कथितं शान्तिदं मोहनाशकं संश्रुतं मया ॥ १ ॥
तथा तृप्तिं न याम्येव पायं पायं सुधामिव ।
नानेन सदृशं किञ्चिच्छान्तिदं विद्यते द्विज ॥ २ ॥
अतो गजाननस्यापि चरित्रं वद विस्तरात् ।
सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥ ३ ॥
मुद्गलस्य च दक्षस्य संवादं वद मानद ।
किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥ ४ ॥
सूत उवाच ।
शृणु भार्गव विप्रेन्द्र महाज्ञानकरं प्रभो ।
गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥ ५ ॥
श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् ।
मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥ ६ ॥
मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगम् ।
विनयेन समायुक्तो गणेशज्ञानलालसः ॥ ७ ॥
दक्ष उवाच ।
महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः ।
तेनाऽऽनन्दसमायुक्तः कृतोऽहं योगिना त्वया ॥ ८ ॥
अधुना वद विप्रेश गजाननचरित्रकम् ।
कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥ ९ ॥
किमर्थं देहधारी स बभूव मुनिसत्तम ।
किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥ १० ॥
पूर्वपुण्यप्रभावेण सङ्गतिस्ते प्रजायते ।
धन्योऽहं सर्वभावेन शृणोमि च कथां शुभाम् ॥ ११ ॥
सूत उवाच ।
दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना ।
तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥ १२ ॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः ।
कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥ १३ ॥
तव भावेन सन्तुष्टो वदामि सकलं प्रभो ।
गजाननस्य माहात्म्यं योगशान्तिपदप्रदम् ॥ १४ ॥
साङ्ख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् ।
तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥ १५ ॥
बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् ।
तयोरभेदको बोधो बभावेव स देहवान् ॥ १६ ॥
त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः ।
विदेहो गजवक्त्रश्च शोभत साङ्ख्यधारकः ॥ १७ ॥
बोधत्यागे महाभाग कः सङ्ख्यां कुरुते वद ।
ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥ १८ ॥
लोभासुरविनाशाय प्रकटोऽभूद्गजाननः ।
देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥ १९ ॥
चतुर्थ्यां मध्यगे भानौ देहधारी समागतः ।
सा तिथिः परमा तस्य प्रीतिदा सम्बभूव वै ॥ २० ॥
सूत उवाच ।
इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने ।
जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥ २१ ॥
दक्ष उवाच ।
का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो ।
गणनाथप्रियाऽत्यन्तं बभूव कथमेव सा ॥ २२ ॥
पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् ।
अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥ २३ ॥
दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः ।
मुद्गलस्तमथोवाच चतुर्थीसम्भवां कथाम् ॥ २४ ॥
मुद्गल उवाच ।
सङ्क्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् ।
गणनाथप्रियं पूर्णं ज्ञास्यसि त्वं प्रजापते ॥ २५ ॥
पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः ।
स्थितानां तत्र जन्तूनां कालार्थं स दधे मनः ॥ २६ ॥
नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि ।
अभवद्ध्यानमास्थाय संस्थितश्चिन्तयान्वितः ॥ २७ ॥
ततस्तस्य शरीराद्वै निःसृता प्रकृतिः परा ।
महामाया तिथीनां सा जननी कामरूपिणी ॥ २८ ॥
चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् ।
चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥ २९ ॥
ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् ।
नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥ ३० ॥
प्रकृतिरुवाच ।
तवाङ्गनिःसृतां मां त्वं विद्धि ब्रह्माण्डनायक ।
आज्ञां कुरु पितर्मां च कुर्वेऽहं भावयन्त्रिता ॥ ३१ ॥
स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो ।
मह्यं देव दयासिन्धो नमस्ते परमेश्वर ॥ ३२ ॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः ।
सृष्टिं गणेशं सञ्चिन्त्य विचित्रां कुरु मानदे ॥ ३३ ॥
स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरम् ।
सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥ ३४ ॥
तताप तप उग्रं सा नासाग्रनयना सती ।
गणेशं हृदि सन्ध्याय जजाप मन्त्रमुत्तमम् ॥ ३५ ॥
प्रजापते गते वर्षसहस्रे तु गजाननः ।
आययौ तां महाभागामगदद्भक्तवत्सलः ॥ ३६ ॥
गणेश उवाच ।
वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् ।
निराहारेण सन्तुष्टो ददामि तपसा च ते ॥ ३७ ॥
तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् ।
गजाननं प्रसम्पूज्य तुष्टाव च कृताञ्जलिः ॥ ३८ ॥
प्रकृतिरुवाच ।
नमस्ते विघ्ननाथाय गणेशाय परात्मने ।
अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९ ॥
नमो मूषकवाहाय मूषकध्वजिने नमः ।
स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४० ॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१ ॥
सर्वादये सदा सर्वपूज्याय भक्तपालका ।
ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ ४२ ॥
ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः ।
सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ ४३ ॥
चतुर्भुजाय हेरम्ब परशोर्धारकाय ते ।
अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ ४४ ॥
रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते ।
तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ ४५ ॥
स्थावराय चरायैव चराचरमयाय ते ।
चराचरविहीनाय बोधाय च नमो नमः ॥ ४६ ॥
चतुर्विधस्वरूपाय चतुर्विधसुखप्रद ।
चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ ४७ ॥
विनायकाय सर्वेषां नायकाय नमो नमः ।
गजाननाय देवाय देवदेवेश ते नमः ॥ ४८ ॥
किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् ।
यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ ४९ ॥
तवदर्शनबोधेन तथापि संस्तुतो मया ।
तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ ५० ॥
इति स्तुत्वा गणेशानं दण्डवत् प्रणनाम तम् ।
तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ ५१ ॥
[[२]]
गणेश उवाच ।
वरं वृणु महाभागे यं यमिच्छसि शोभने ।
तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ ५२ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ ५३ ॥
एककालं द्विकालं वा त्रिकालं लभते सदा ।
अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ ५४ ॥
ब्रुवन्तं गणनाथं सोवाच गम्भीरनिःस्वना ।
देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥ ५५ ॥
देव्युवाच ।
वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् ।
भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥ ५६ ॥
सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते ।
सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥ ५७ ॥
ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः ।
चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥ ५८ ॥
तिथीनां मातृभावेन चतुर्थी सञ्ज्ञिता भव ।
वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥ ५९ ॥
मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः ।
सदा तव व्रते संस्थान् पालयामि विशेषतः ॥ ६० ॥
मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि ।
व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥ ६१ ॥
एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह ।
व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥ ६२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः ॥