॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् ।
देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥ १ ॥
दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद ।
महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥ २ ॥
स्वस्वखण्डेषु सर्वत्र द्वीपेषु मुनिभिः पुरा ।
स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥ ३ ॥
तत्र देवादयः सर्वे ऋषयो योगिनस्तथा ।
तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवन्ति च ॥ ४ ॥
समुद्रे स्नानकर्तारः स्वस्वतीर्थेषु नित्यदा ।
गणेशानं भजन्तस्ते परस्परहिते रताः ॥ ५ ॥
नानारूपाणि ते सर्वे महोदर कृतानि च ।
चेष्टितानि स्मरन्तो वै हृष्टरोमाण आभवन् ॥ ६ ॥
सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् ।
दूर्वादिभिः पूजयन्ति विशेषेण प्रजापते ॥ ७ ॥
भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः ।
वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥ ८ ॥
ततो महोदरस्यैव दर्शनेन हृदीप्सितम् ।
लभते मानवः सर्वं स्मरणेन तथा विभोः ॥ ९ ॥
क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः ।
अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥ १० ॥
ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः ।
संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥ ११ ॥
त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः ।
ते सर्वे निवसन्त्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥ १२ ॥
तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् ।
स्नानेनात्रकृतेनैव पुमान् सर्वार्थसिद्धिभाक् ॥ १३ ॥
विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः ।
गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥ १४ ॥
तत्त?त् पदप्रदानि स्युस्तेषामन्ते प्रजापते ।
ब्रह्मभूता भविष्यन्ति स्वानन्दे वासकारिणः ॥ १५ ॥
अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः ।
तस्य देवस्य लोके ते गमिष्यन्ति न संशयः ॥ १६ ॥
महालये त्रयो देवा लयं गच्छन्ति चेत् प्रभो ।
तदा ते निजलोके वै गमिष्यन्ति सुखप्रदे ॥ १७ ॥
क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवन्ति च ।
अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥ १८ ॥
यत्र कुत्र स्थिता भक्ता ये भजन्ति महोदरम् ।
ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥ १९ ॥
कुर्वन्ति ये शिवादीनां भजनं जन्मजन्मसु ।
तेन संस्कारयोगेन गाणेशास्ते भवन्ति वै ॥ २० ॥
गाणेशान्न परं ब्रह्म कथितं सर्वसम्मतम् ।
अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥ २१ ॥
इदं महोदराख्यानं कथितं ते प्रजापते ।
सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥ २२ ॥
शृणुयाद्यो नरो भत्तया श्रावयेद्वा पठेद्यदि ।
अन्ते स ब्रह्मभूतश्च भविता नात्र संशयः ॥ २३ ॥
अनेन न समं किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥ २४ ॥
व्रतानि विधिवन्नाना कुरुते मानवोत्तमः ।
अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥ २५ ॥
नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् ।
यथाशास्त्रं फलं तस्य तदस्य श्रवणाल्लभेत् ॥ २६ ॥
[[११२]]
क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः ।
विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत् ॥ २७ ॥
यज्ञैर्नानाविधैर्देक्ष दृष्ट्वा देवान् यथार्थतः ।
यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥ २८ ॥
इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः ।
अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥ २९ ॥
बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् ।
श्रवणेन न सन्देहो धर्मकामार्थमोक्षदम् ॥ ३० ॥
पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः ।
राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥ ३१ ॥
महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् ।
न तत्र राक्षसादिभ्यश्चोराग्न्याद्याद्भयं भवेत् ॥ ३२ ॥
ग्रहरोगादिका पीडा पूजनेन च नश्यति ।
पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥ ३३ ॥
इच्छन्ति जन्तवो यद्यदस्य श्रवणकारकाः ।
तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान् ॥ ३४ ॥
वाचकं परितोष्यैव लभते तत्क्षणात् फलम् ।
गणेशसन्निधाने च श्रवणेन न संशयः ॥ ३५ ॥
पतिता उद्धरिष्यन्ति श्रवणेनास्य निश्चितम् ।
किं पुर्नभावसंयुक्ता ब्रह्मभूता भवन्ति चेत् ॥ ३६ ॥
नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके ।
साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥ ३७ ॥
इति ते कथितं सर्वं सङ्क्षेपेण मया प्रभो ।
महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥ ३८ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥ ३९ ॥
सर्वमान्यं विशेषेण मतमान्यं महामते ।
वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥ ४० ॥
नानाशास्त्रपुराणानि मन्थयित्वा महामुनिः ।
व्यासः सङ्कथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥ ४१ ॥
न गणेशात् परं ब्रह्म न गणेशात् परं तपः ।
न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥ ४२ ॥
त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः ।
ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥ ४३ ॥
सिद्धेः पतिं परित्यज्य सिद्धिमिच्छति शाश्वतीम् ।
फलहीनः स्वभावेन नारकी जायते नरः ॥ ४४ ॥
बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति ।
न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥ ४५ ॥
सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः ।
तं भजध्वं विशेषेण द्विजा वेदादिसम्मतम् ॥ ४६ ॥
कथितं सर्वसारं ते महोदरकथानकम् ।
किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः ॥
॥ इति तृतीयः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे तृतीयः खण्डः समाप्तः ॥