॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
अधुना शृणु धर्मज्ञ देवादीनां वनेषु वै ।
यज्जातं तत् प्रवक्ष्यामि पूर्णानन्दस्य चेष्टितम् ॥ १ ॥
विष्णुमुख्यान् सुरानाह पूर्णानन्दः प्रतापवान् ।
किमर्थं दुःखसंयुक्ता भवन्तः सर्वजन्तुभिः ॥ २ ॥
ज्ञानारिणा कृतं सर्वं जगत् स्थावरजङ्गमम् ।
दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥ ३ ॥
मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति ।
तस्माद्देवगणैस्तात गच्छ वैकुण्ठमादरात् ॥ ४ ॥
ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो ।
तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥ ५ ॥
भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् ।
तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥ ६ ॥
चराचरमयात्तस्य भयं नास्ति कदाचन ।
चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥ ७ ॥
अतो द्वन्द्वविहीनेन तं रूपेण महासुरम् ।
हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥ ८ ॥
एतस्मिन्नन्तरे चैव ज्ञानारिः खड्गमादधौ ।
सुबोधं हन्तुमत्यन्तं क्रोधयुक्तो युधिष्ठिर ॥ ९ ॥
ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः ।
गणेशस्य जगादापि तच्छृणुष्व युधिष्ठिर ॥ १० ॥
सुबोध उवाच ।
अहङ्कारेण संयुक्तस्तात त्वं मायया भृशम् ।
न जानासि गणेशानं चित्ते संस्थितमेव ते ॥ ११ ॥
चिन्तामणिः स वेदेषु कथितो वेदवादिभिः ।
तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥ १२ ॥
न ते भयेन भावेन त्यजेयं विघ्ननायकम् ।
किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥ १३ ॥
इति पुत्रं ब्रुवन्तं स जघान दृढरोषतः ।
खड्गेन तीक्ष्णधारेण स खड्गो निष्फलोऽभवत् ॥ १४ ॥
ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः ।
तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥ १५ ॥
अग्न्यस्त्रादीनि शस्त्राणि निष्फलानि महासुरः ।
वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥ १६ ॥
पुत्रं पादे शिलायां स सङ्गृह्याऽऽस्फालयद्यदा ।
तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥ १७ ॥
[[९]]
अदृश्यरूपभावेन हतो विघ्नविनाशिना ।
पुनः सञ्ज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥ १८ ॥
गणेशभजने सक्तं वीक्ष्य विस्मितमानसः ।
विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥ १९ ॥
अहो मां को जघानैवं न पश्यामि महारिपुम् ।
केन मार्गे?ण मे पुत्रं हनिष्यामि कुलान्तकम् ॥ २० ॥
पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा ।
तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥ २१ ॥
अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा ।
अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥ २२ ॥
ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः ।
पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥ २३ ॥
मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति ।
पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥ २४ ॥
एवं निश्चितसङ्कल्पो जगाद क्रोधसंयुतः ।
पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥ २५ ॥
सुबोध कुत्र ते रक्षिता विशेषेण वर्तते ।
तमानय महादुष्टं हनिष्याम्यधुना शठ ॥ २६ ॥
ततस्तं मोहितं प्राह सुबोधः करुणायुतः ।
तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥ २७ ॥
वैरभावं परित्यज्य तथाऽहङ्कारमद्य वै ।
शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥ २८ ॥
सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् ।
तं हन्तुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥ २९ ॥
ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप ।
दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥ ३० ॥
एवं कपटभावेन सुबोधं स जगाद ह ।
सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥ ३१ ॥
ततस्तं मूषकारूढो विष्णुपुत्रः समाययौ ।
तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥ ३२ ॥
आकाशे गुप्तरूपेण मुनयो देवतागणाः ।
संस्थिता अभवंस्तत्र पश्यन्तश्चेष्टितं प्रभोः ॥ ३३ ॥
सुबोधस्य समीपे तं संस्थितं गणनायकम् ।
पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥ ३४ ॥
सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः ।
उवाच पितरं योगी पश्य तात गजाननम् ॥ ३५ ॥
सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः ।
अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥ ३६ ॥
एतस्मिन्नन्तरे तत्र पूर्णानन्दो हृदि स्थितः ।
जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥ ३७ ॥
ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा ।
हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥ ३८ ॥
ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः ।
प्रणम्य तुष्टुवुस्तं वै पूर्णानन्दं गणेश्वरम् ॥ ३९ ॥
स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः ।
अन्तर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥ ४० ॥
लक्ष्मीर्नारायणश्चैव मूर्च्छितौ धरणीतले ।
पेततुर्दुःखसंयुक्तौ पूर्णानन्दवियोगतः ॥ ४१ ॥
द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः ।
प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥ ४२ ॥
न वियोगो भवेत्तातौ पश्यतं बुद्धिचालकम् ।
[[११०]]
एवमुक्त्वान्तर्दधेऽसौ हृदिस्थो गणनायकः ॥ ४३ ॥
ततस्तौ दुःखसंयुक्तौ चक्रतुः परमादृतौ ।
लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥ ४४ ॥
एवं महोदरः सर्वप्रदाता वै प्रतापवान् ।
हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥ ४५ ॥
शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः ।
मुनिभिर्योगिभिर्नानाजन्तुभिर्नात्र संशयः ॥ ४६ ॥
तं भजस्व महीपाल विघ्नहीनो भविष्यसि ।
स्वधर्मस्थो महाभाग शान्तियोगमवाप्स्यसि ॥ ४७ ॥
मुद्गल उवाच ।
एवं नारायणं तं स ब्रुवन्तं धर्मपालकः ।
युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥ ४८ ॥
युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् ।
सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥ ४९ ॥
त्वदीयसङ्गयोगेन मया ज्ञातो गजाननः ।
वद त्वं तस्य मन्त्रं मे सस्त्रीकाय सबन्धवे ॥ ५० ॥
स तस्मै देवकीपुत्रो ददौ मन्त्रं षडक्षरम् ।
देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥ ५१ ॥
मुद्गल उवाच ।
पाण्डवा द्रौपदीयुक्तास्तेन मन्त्रेण विघ्नपम् ।
अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥ ५२ ॥
ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् ।
स्थालीस्थमन्नमत्यन्तं पोषयामासुरग्रजान् ॥ ५३ ॥
वनस्थाः दुखहीनाश्च भ्रमन्तस्ते समाययुः ।
व्यासेन वासुदेवेन युताः स्वानन्दके पुरे ॥ ५४ ॥
मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः ।
पाण्डवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥ ५५ ॥
तत्र पिण्डप्रदानेन पाण्डुं स्वर्गस्थमादरात् ।
नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥ ५६ ॥
गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणम् ।
चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥ ५७ ॥
गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः ।
पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पाण्डवा ययुः ॥ ५८ ॥
हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् ।
राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥ ५९ ॥
एवं युधिष्ठिरेणैवाराधितः स महोदरः ।
मोहशून्यस्वभावेन योगिना शान्तिधारिणा ॥ ६० ॥
पूर्णानन्दावतारो महोदरान्तर्गतः स्मृतः ।
एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥ ६१ ॥
तेषां कथयितुं पुण्यं चरित्रं न प्रशक्यते ।
वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥ ६२ ॥
इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् ।
शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः ॥
[[१११]]