॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् ।
सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥ १ ॥
शुक्रशिष्या ऊचुः ।
ज्ञानारे शृणु वाक्यं नो दारुणं विपरीतगम् ।
पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदाऽस्मानुपेक्षते ॥ २ ॥
उल्लङ्घ्य सर्वमस्माभिः कथितं जातिदूषणम् ।
करोति स्वमतेनायमन्यान् सम्बोधयंस्तथा ॥ ३ ॥
पितृहन्तारमत्यन्तं सदा स्मरति भक्तितः ।
तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥ ४ ॥
अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् ।
वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥ ५ ॥
श्रीकृष्ण उवाच ।
तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः ।
प्रेषयामास दूतं स पुत्रमानेतुमन्तिके ॥ ६ ॥
दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः ।
उवाच कृतवन्तं तं प्रणामं क्रोधसंयुतः ॥ ७ ॥
ज्ञानारिरुवाच ।
किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद ।
हितं ते हृदये किं च वर्तते कुलपांसन ॥ ८ ॥
पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः ।
उवाच पितरं भ्रान्तं मायया गणपस्य सः ॥ ९ ॥
सुबोध उवाच ।
सर्वेषां कुलदेवं च सर्वेषां हितकारकम् ।
भुक्तिमुक्तिप्रदं तात भजामि गणनायकम् ॥ १० ॥
ब्रह्मविष्ण्वादिभिर्देवैः कश्यपादिमुनीश्वरैः ।
पूजितं कुलवृद्ध्यर्थं योगशान्त्यर्थमादरात् ॥ ११ ॥
कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः ।
जन्तवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥ १२ ॥
भजामि गणनाथं वै अतोऽहं सर्वभावतः ।
तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
जगाद तं धर्मराजमुखादनलमुद्वमन् ॥ १४ ॥
ज्ञानारिरुवाच ।
अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः ।
सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥ १५ ॥
तत्राप्ययं पितुर्हन्ता मम तं भजसे मुधा ।
बालभावे मया ज्ञातं चेष्टितं ते रिपुश्रितम् ॥ १६ ॥
[[१०७]]
बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ ।
अधुना तादृशं मत्वा न मुञ्चामि कदाचन ॥ १७ ॥
त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल ।
एवमुक्त्वा खङ्गहस्तो दुद्राव स्वसुतं नृप ॥ १८ ॥
ततस्तं दैत्यराजं स उवाच तनयो वचः ।
किं धर्षयसि मां तात भ्रान्तिभावेन मोहितः ॥ १९ ॥
सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः ।
तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥ २० ॥
सुरासुरमयः साक्षाद्गणेशो नात्र संशयः ।
उद्धतं हन्ति वेगेन नानारूपधरः प्रभुः ॥ २१ ॥
ब्रुवन्तं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर ।
क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥ २२ ॥
दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः ।
वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥ २३ ॥
नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः ।
हन्तुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥ २४ ॥
गणेशभजने सक्तो बभूव न चचाल ह ।
देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥ २५ ॥
विघ्नेश हेरम्ब जयाखिलेश स्वानन्दवासिन् जय वक्रतुण्ड ।
नाथोऽसि सर्वत्र जगत् सुढुण्ढे लम्बोदर ब्रह्मसुते नमो वै ॥ २६ ॥
इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः ।
तं तथा क्रोधसंयुक्ता जघ्रुर्दैत्या महाबलाः ॥ २७ ॥
नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर ।
गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥ २८ ॥
क्रोधानलेन सर्वान् स दाहयामास विघ्नपः ।
ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥ २९ ॥
तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः ।
श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥ ३० ॥
चतुरङ्गबलैर्युक्ता दैत्येशास्तं समाययुः ।
अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥ ३१ ॥
गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् ।
जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥ ३२ ॥
तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः ।
समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥ ३३ ॥
ते मेघास्त्राणि ससृजुस्तैर्न शान्तो बभूव ह ।
ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥ ३४ ॥
मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप ।
ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥ ३५ ॥
प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् ।
शुक्रं तपसि तिष्ठन्तं ज्ञात्वा क्रोधं नियम्य च ॥ ३६ ॥
मेधावी स यदा शुक्र आगमिष्यति वै गृहे ।
तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥ ३७ ॥
एवं निश्चितसङ्कल्पाः स्थितास्ते दैत्यनायकाः ।
ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥ ३८ ॥
सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः ।
निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥ ३९ ॥
ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर ।
शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥ ४० ॥
सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः ।
सन्दृश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥ ४१ ॥
एवं विचार्य सर्वत्र बाला विघ्नेशमादरात् ।
[[१०८]]
अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥ ४२ ॥
यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् ।
अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥ ४३ ॥
नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् ।
अनादिमध्यान्तविहीनकाय सुशान्तिदात्रे जय सर्वपूज्य ॥ ४४ ॥
एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे ।
सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥ ४५ ॥
हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः ।
न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥