॥ श्रीगणेशाय नमः ॥
श्रीशुक उवाच ।
सोङ्कारवेदमुख्यानां वचनं हितकारकम् ।
श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥ १ ॥
त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै ।
ओङ्कारादीन् महाभागा ऊचुः प्राञ्जलयो वचः ॥ २ ॥
देवादय ऊचुः ।
ओङ्कारसहिता वेदा भवद्भिः कथितं वचः ।
तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥ ३ ॥
सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् ।
तदेव करणीयं यद् गतिदं सर्वसम्मतम् ॥ ४ ॥
वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः ।
नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥ ५ ॥
ब्रह्मयज्ञस्य पारं वै भवन्तो देवनायकैः ।
मुनिभिर्जनसङ्घैश्च गता भवथ निश्चितम् ॥ ६ ॥
देवादयो महाभागा एवमुक्त्वा विशेषतः ।
प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥ ७ ॥
पूजितास्तैरुक्तवेदाः सोङ्कारा दैत्यनायक ।
अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥ ८ ॥
[[१०५]]
एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् ।
तेन संशयहीनास्ते भजन्ते गणनायकम् ॥ ९ ॥
एतत्ते कथितं पूर्णयोगशान्तिप्रदं परम् ।
सर्वमान्यं विशेषेण भज तं गणनायकम् ॥ १० ॥
सुबोध उवाच ।
एवमुक्त्वा महायोगी शुकश्चान्तर्हितोऽभवत् ।
प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥ ११ ॥
संश्रुतं मातुरुदरसंस्थेन सकलं ततः ।
मया धृतं विशेषेण तदेवं योगदायकम् ॥ १२ ॥
पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता ।
जनितोऽहमतो विप्रा भजामि गणनायकम् ॥ १३ ॥
एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः ।
अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥ १४ ॥
श्रीकृष्ण उवाच ।
सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः ।
ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥ १५ ॥
विप्रा ऊचुः ।
सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा ।
तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥ १६ ॥
पितामहो महाभाग दुर्बुद्धिस्ते महासुरः ।
गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥ १७ ॥
तं द्वेष्टि गणराजं च पिता ते पितृवत्सल ।
पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥ १८ ॥
नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः ।
तस्मादाग्रहमत्यन्तं मा कुरुष्व महामते ॥ १९ ॥
असुराणां कुले पश्य जनिस्तव हितावहा ।
स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥ २० ॥
तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः ।
जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुतम् ॥ २१ ॥
सुबोध उवाच ।
सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः ।
स्वस्वधर्मनियन्ताऽसौ नानाक्रीडापरायणः ॥ २२ ॥
स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः ।
स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥ २३ ॥
पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् ।
चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥ २४ ॥
पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः ।
तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥ २५ ॥
अतः किं गणराजेन विपरीतं कृतं द्विजाः ।
स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥ २६ ॥
सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः ।
तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥ २७ ॥
गणेशं भजमानं मां वधिष्यति यदा खलः ।
तदेव मरणं श्रेष्ठं ब्रह्मभूयप्रदं भवेत् ॥ २८ ॥
मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः ।
तिष्ठन्ति ब्राह्मणाः सर्वे मां वदेत हि साम्प्रतम् ॥ २९ ॥
बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते ।
सिद्धेः पतेर्न सन्देहः किं करिष्यति मां पिता ॥ ३० ॥
स्वधर्मः सर्वभूतानां धर्मकामार्थमुक्तये ।
ब्रह्मभूयार्थमत्यन्तं गणेशभजनात्मकः ॥ ३१ ॥
तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलम्पटः ।
भविष्याम्यसुराधीनो ब्राह्मणाः कुलपांसवः ॥ ३२ ॥
न ब्राह्मणा भवन्तोऽपि विषयेषु परायणाः ।
त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना न संशयः ॥ ३३ ॥
गणेशभजने सक्ता ब्रह्मभूयपरायणाः ।
ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥ ३४ ॥
श्रीकृष्ण उवाच ।
शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः ।
सुबोधो गणनाथस्य भजने तत्परोऽभवत् ॥ ३५ ॥
नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते ।
अनादिमध्यान्तमयाय ढुण्ढये नमो नमो विघ्नपते सुशान्तिद ॥ ३६ ॥
एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः ।
भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥ ३७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥