४७ वेदनिर्णयः

॥ श्रीगणेशाय नमः ॥

श्रीशुक उवाच ।

तत्र नानाकथां चक्रुर्नानामतविकासिनीम् ।
स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥ १ ॥

केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् ।
ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥ २ ॥

केचिदन्नं च प्राणं च मनोविज्ञानकं तथा ।
आनन्दं सोऽहमेकं वै चैतन्यं बिन्दुकं परे ॥ ३ ॥

बोधमात्मानमेके च साङ्ख्यं कर्म तथाऽपरे ।
सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥ ४ ॥

स्वसंवेद्यं तथा केचिन्निवृत्तिं शान्तिरूपकम् ।
योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥ ५ ॥

असत्यं सत्यमेके च पूर्णानन्दं तथाऽसुर ।
सहजं च परं ब्रह्म वादयुक्ता ?बभूविरे ॥ ६ ॥

[[१०२]]

निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् ।
स्वस्वज्ञानसमायुक्ता वादं चक्रुरपण्डिताः ॥ ७ ॥

ततो वादस्य शान्त्यर्थमवोचद् विष्णुरव्ययः ।
सर्वान् समागतांस्तत्र सर्वज्ञः शङ्करेरितः ॥ ८ ॥

श्रीविष्णुरुवाच ।
वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः ।
तैर्यत् सम्पादितं देव मुनयः सर्व आगताः ॥ ९ ॥

सम्पाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः ।
सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥ १० ॥

वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः ।
अतो वेदैश्च सर्वेषां ज्ञानं सञ्जायते परम् ॥ ११ ॥

योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः ।
साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥ १२ ॥

तथापि वेदसम्मान्यं वचस्तेषां न विद्यते ।
वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥ १३ ॥

सम्पूर्णयोगिनो वेदा अतस्ते गुरवो मताः ।
महाभागाः स्मरध्वं त्वांस्तदा निःसंशयो भवेत् ॥ १४ ॥

ततो मुनिगणाः सर्वे योगिनो देवनायकाः ।
साधु साधु समूचुस्तं विष्णुं बुद्धिमतां वरम् ॥ १५ ॥

ततः शङ्करमुख्यैस्तैः संस्मृताः कार्यसिद्ध्ये ।
साङ्गाः समाययुर्वेदा ओङ्कारेण समन्विताः ॥ १६ ॥

तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे ।
प्रणम्य पूजयामासुः कृताञ्जलिपुटाः पुरः ॥ १७ ॥

आसनेषु समासीनाः सोङ्कारा वेदमुख्यकाः ।
ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥ १८ ॥

वेदा ऊचुः ।
किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः ।
अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥ १९ ॥

वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः ।
विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥ २० ॥

शिव उवाच ।

ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः ।
तत्र वादसमायुक्ता न तदन्तं लभामहे ॥ २१ ॥

अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः ।
निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥ २२ ॥

योगिनो न भवन्तीह कदापि च भवत्समाः ।
भवद्वचःप्रमाणेन योगज्ञा वयमप्युत ॥ २३ ॥

शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः ।
देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥ २४ ॥

वेदा ऊचुः ।
ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् ।
अक्षरात्मकदेहत्वात्तथापि कथयामहे ॥ २५ ॥

न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किञ्चिदप्यहो ।
योगमार्गबलेनैव वदिष्यामो यथातथम् ॥ २६ ॥

प्रत्येकनिश्चयं देवाः शृणुत ब्रह्मधारणम् ।
येन संशयसंहीना गमिष्यथ परां गतिम् ॥ २७ ॥

ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च ।
प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥ २८ ॥

सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् ।
योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥ २९ ॥

न योगात् परमं ब्रह्म योगशान्त्या प्रलभ्यते ।
ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥ ३० ॥

ब्रह्मणां सकलानां च पातृपालयितृत्वतः ।
तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥ ३१ ॥

[[१०३]]

भवन्ति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् ।
एवमुक्त्वा ब?ह्वृचस्तु तूष्णीम्भावधरोऽभवत् ॥ ३२ ॥

ततो यजुः स्वयं साक्षादवोचत् सर्वसंसदि ।
ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥ ३३ ॥

यजुरुवाच ।
नानाविधं मया ब्रह्म वर्णितं योगसेवया ।
महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥ ३४ ॥

तत्र योगस्वरूपाख्यमान्त्यं ब्रह्म विशिष्यते ।
सर्वब्रह्मसुयोगेन योगस्तेन प्रकथ्यते ॥ ३५ ॥

तदेव गणराजश्च भक्तैः सम्प्रार्थितः पुरा ।
योगप्राप्त्यर्थमत्यन्तं तेन साकारकोऽभवत् ॥ ३६ ॥

गणः समूहरूपाख्यः समूहा ब्रह्मरूपिणः ।
तेषां स्वामी न सन्देहस्तं भजध्वं विधानतः ॥ ३७ ॥

अन्नानां सकलानां च सदैकानेकरूपिणाम् ।
समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥ ३८ ॥

नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः ।
ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥ ३९ ॥

अतो गणेशभक्त्या वै सकलं सुलभं भवेत् ।
ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥ ४० ॥

इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् ।
उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥ ४१ ॥

साम उवाच ।

योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने ।
किञ्चित् शृणुत देवेशा ब्रह्मणो मुनयो वचः ॥ ४२ ॥

प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया ।
पात्रभेदार्थमत्यन्तं ज्ञातव्यं योगसेवया ॥ ४३ ॥

तत्र शान्तिप्रदं ब्रह्म योगाख्यं नात्र संशयः ।
भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥ ४४ ॥

नास्ति योगात् परं ब्रह्म शान्तिमार्गेण लभ्यते ।
तदेव मुनयो देवा गणेशो नात्र संशयः ॥ ४५ ॥

मनोवाणीमयं देवा मया यद्यत् प्रकीर्तितम् ।
गकाराक्षरसम्भूतं ज्ञातव्यं विबुधैः सदा ॥ ४६ ॥

मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा ।
णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥ ४७ ॥

तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः ।
तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥ ४८ ॥

नानाभावेन युक्तास्तं भजन्ते तद्ददाति सः ।
एवमुक्त्वा महायोगी विरराम स सामगः ॥ ४९ ॥

ततोऽथर्वा महायोगी जगाद सकलांस्तदा ।
ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद शृणु तद्वचः ॥ ५० ॥

अथर्वा उवाच ।

आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया ।
सम्पादितं च योगेन तदेवोपाधिसंयुतम् ॥ ५१ ॥

योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते ।
संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥ ५२ ॥

शान्तिस्तत्र समाख्याता योगे योगविदां वरः ।
स एव गणनाथस्तु सर्वशान्तिप्रदोऽभवत् ॥ ५३ ॥

एक एव गणेशानो जगतां ब्रह्मणां स्वयम् ।
ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥ ५४ ॥

सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः ।
मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥ ५५ ॥

अन्ते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् ।
सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥ ५६ ॥

य आदिः सोऽन्तरूपस्तु भवते सर्वसम्मते ।
मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥ ५७ ॥

[[१०४]]

अतस्तं योगरूपाख्यं भजध्वं योगसेवया ।
भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥ ५८ ॥

एवमुक्त्वा महायोगी विरराम महामते ।
अथर्वा सर्वयोगज्ञस्तत्रोङ्कारोऽब्रवीद्वचः ॥ ५९ ॥

ओङ्कार उवाच ।

चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया ।
ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥ ६० ॥

मयोपदेशिता वेदाः साधयामासुर?न्वहम् ।
योगं ब्रह्मप्रदं तेन ब्रह्मज्ञाः सर्वसम्मताः ॥ ६१ ॥

योगात् परं न विद्येत ब्रह्म सर्वत्र सम्मतम् ।
जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥ ६२ ॥

तदेव गणराजो वै निश्चितो योगिभिः सदा ।
संयोगायोगभावेन क्रीडते योगरूपधृक् ॥ ६३ ॥

सिद्धिर्भ्रान्तिमयी माया बुद्धिर्भ्रान्तिधरा मता ।
तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥ ६४ ॥

भुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी ।
चित्तं पञ्चविधं बुद्धिस्तयोर्योगेन लभ्यते ॥ ६५ ॥

स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् ।
सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥ ६६ ॥

तेन स्वानन्दवासी च मायायुक्तः प्रकीर्तितः ।
अयोगे दर्शनं तस्य जायते न कदाचन ॥ ६७ ॥

निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते ।
गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥ ६८ ॥

तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः ।
तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥ ६९ ॥

ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः ।
एवमुक्त्वा तदोङ्कारस्तूष्णीमासीन् महामते ॥ ७० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्ड महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥