॥ श्रीगणेशाय नमः ॥
युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् ।
पूर्णानन्दः कथं दैत्यं जघान कौतुकं महत् ॥ १ ॥
चराचराद्भयं तस्य नास्ति नारायण प्रभो ।
अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥ २ ॥
मुद्गल उवाच ।
युधिष्ठिरवचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् ।
तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥ ३ ॥
श्रीकृष्ण उवाच ।
पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसम्मतः ।
एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥ ४ ॥
सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः ।
द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥ ५ ॥
स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः ।
बालभावेऽपि विघ्नेशं चिन्तयामास सर्वदा ॥ ६ ॥
स्तनपानादिकं बालः सस्मार न कदाचन ।
माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥ ७ ॥
एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह ।
सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥ ८ ॥
ततः पञ्च तथा सप्त मासास्तस्य गता विभो ।
वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥ ९ ॥
धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् ।
चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥ १० ॥
त्रिकालपूजनं तत्र चकार नियमेन सः ।
ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥ ११ ॥
एकदा भोजनार्थं च संस्थितो दैत्यनायकः ।
ज्ञानारिस्तं ददर्शैव क्रीडन्तं बालभावतः ॥ १२ ॥
गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः ।
पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥ १३ ॥
ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः ।
पितुर्मम निहन्तारं भजतेऽयं तवात्मजः ॥ १४ ॥
अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये ।
सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥ १५ ॥
पितृहन्तारमेवायं करोति तनयो यतः ।
पुनर्दृष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥ १६ ॥
सा तथेति तमुच्चार्य स्थिता विनयसंयुता ।
पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥ १७ ॥
भर्तुर्गमनकाले सा संयता पुत्रमाददे ।
लालयामास तं तत्र न पश्यति यथा नृपः ॥ १८ ॥
ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः ।
चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥ १९ ॥
नमो हेरम्ब विघ्नेश गणेशाय महोदर ।
लम्बोदराय विकटाय नमो ढुण्ढये नमः ॥ २० ॥
इत्यादिभावयुक्तश्च सस्मार गणपं सदा ।
अनन्यमनसा धर्म तथा पूजापरायणः ॥ २१ ॥
माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर ।
भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥ २२ ॥
यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह ।
कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥ २३ ॥
निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती ।
कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥ २४ ॥
पञ्चमे व्रतबन्धं च ज्ञानारिस्तस्य हर्षितः ।
चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥ २५ ॥
कर्मभङ्गभयात् सोऽपि पूजां चक्रे सुमानसीम् ।
ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥ २६ ॥
[[१००]]
ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः ।
तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥ २७ ॥
शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा ।
विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥ २८ ॥
तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् ।
अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥ २९ ॥
विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् ।
सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितोऽभवत् ॥ ३० ॥
गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः ।
उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥ ३१ ॥
सुबोध उवाच ।
ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः ।
गाणपत्या विशेषेण भजन्ते गणनायकम् ॥ ३२ ॥
भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः ।
मोहदामासुरीं विद्यां त्यक्त्वा वन्द्या भवन्त्यतः ॥ ३३ ॥
भवन्तो ज्ञानशीलाश्च किं मां वदथ विप्रपाः ।
गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥ ३४ ॥
यदा स्वधर्मनिष्ठाश्चेद्ब्राह्मणा वचनं तदा ।
तेषां ग्राह्यं न सन्देहो नान्यथा मोहकं कदा ॥ ३५ ॥
गुणयुक्तविहीनाश्चेद्ब्राह्मणा मानवैः सदा ।
वन्दनीया न सन्देहः पूज्या सर्वत्र सम्मताः ॥ ३६ ॥
अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा ।
हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥ ३७ ॥
श्रीकृष्ण उवाच ।
सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः ।
ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥ ३८ ॥
दैत्याचार्या ऊचुः ।
सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् ।
स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥ ३९ ॥
न त्वया वेदविद्या या शिक्षिता सा महामते ।
तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥ ४० ॥
सुबोध उवाच ।
माता गर्भवती मे गता पितृर्गृह एकदा ।
तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥ ४१ ॥
तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः ।
सम्पूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥ ४२ ॥
प्रल्हाद उवाच ।
व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् ।
त्वं जातोऽसि न सन्देहो योगीन्द्राणां गुरोर्गुरुः ॥ ४३ ॥
पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ।
अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥ ४४ ॥
सर्वमान्यं च सर्वेषां योगशान्तिप्रदं भवेत् ।
नानामतविमोहस्य च्छेदकं वद विस्तरात् ॥ ४५ ॥
सुबोध उवाच ।
प्रह्लादस्य वचो रम्यं श्रुत्वा योगीन्द्रसत्तमः ।
जगाद तं महाभागं योगशान्तिपरायणम् ॥ ४६ ॥
श्रीशुक उवाच ।
प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः ।
अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥ ४७ ॥
सर्वमान्यं तथा राजन् सर्वेभ्यः शान्तिदायकम् ।
नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥ ४८ ॥
एकदा नैमिषारण्ये समाजग्मुर्महर्षयः ।
ब्रह्माण्डस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥ ४९ ॥
यत्र योगमयी गाथा वर्तते दानवोत्तम ।
वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥ ५० ॥
[[१०१]]
मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः ।
विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥ ५१ ॥
अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः ।
व्यासः परशुरामः श्वेतकेतुर्मुद्गलो मुनिः ॥ ५२ ॥
अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः ।
अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥ ५३ ॥
मार्कण्डेयो मृकण्डश्च बकदाल्भ्यस्तथा विभो ।
नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥ ५४ ॥
एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा ।
पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥ ५५ ॥
अङ्गिरा वै दीर्घतमा उतथ्यो गालवस्तथा ।
दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥ ५६ ॥
वैशम्पायन एवं वै शौनकः शुनकः प्रभो ।
वामदेवः सुमन्तुश्च पैलः शाकलको मुनिः ॥ ५७ ॥
जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः ।
अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥ ५८ ॥
दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः ।
सनातनः सनन्दः सनत्कुमारक आययुः ॥ ५९ ॥
अहं रिभूश्च सनक इत्याद्या बहवोऽपरे ।
अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥ ६० ॥
इन्द्रो ब्रह्मा तथा विष्णुः शङ्करो भानुरेव च ।
सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥ ६१ ॥
शेषो वासुकिनागश्च कम्बलोऽश्वतरस्तथा ।
तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥ ६२ ॥
गन्धर्वाश्चारणाश्चैव सिद्धाः साध्यगणास्तथा ।
आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥ ६३ ॥
कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः ।
नानादेवरताः सर्वे आययुस्तत्र मानद ॥ ६४ ॥
प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः ।
तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥ ६५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥