४५ पूर्णानन्दावतारः

॥ श्रीगणेशाय नमः ॥

श्रीकृष्ण उवाच ।

ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः ।
शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥ १ ॥

नमुचिः शम्बरः कालासुरश्चैव प्रतापवान् ।
जम्भो बलासुरः पञ्च प्रधानास्तस्य चाऽभवन् ॥ २ ॥

नानादैत्यगणैर्युक्तः पृथिवीं सप्तसागराम् ।
दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥ ३ ॥

ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः ।
इन्द्रः सुरगणैः सार्धं पपाल भयसङ्कुलः ॥ ४ ॥

ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः ।
तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥ ५ ॥

विष्णुर्वैकुण्ठमुत्सृज्य पपाल च युधिष्ठिर ।
दैत्यस्तत्र समागम्य हर्षितः सम्बभूव ह ॥ ६ ॥

जगाम तत आनन्दात् कैलासं दैत्यनायकः ।
शङ्करं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥ ७ ॥

नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः ।
शङ्करः क्षुभितो भूत्वा कम्पितः प्रददौ तथा ॥ ८ ॥

पपाल भयसंयुक्तः सामरः स वनं ययौ ।
कैलासे संस्थितो दैत्यो ननन्द भृशमोहितः ॥ ९ ॥

ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः ।
ययौ स्वनगरे धर्म दैत्यपैः संवृतो बभौ ॥ १० ॥

सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर ।
सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥ ११ ॥

पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप ।
जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥ १२ ॥

सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् ।
तैः सर्वत्र कृतो नाशः कर्मणां भूमिमण्डले ॥ १३ ॥

[[९८]]

न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो ।
कर्महीनतया देवा दुःखिता अभवंस्ततः ॥ १४ ॥

उपोषणसमायुक्ता विचारं चक्रुरादरात् ।
ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥ १५ ॥

गते बहुतरे काले किं कुर्यामिति विह्वलाः ।
तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥ १६ ॥

श्रीविष्णुरुवाच ।
चराचरमयं सर्वं तस्मात्तस्य भयं नहि ।
अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥ १७ ॥

स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् ।
तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥ १८ ॥

विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः ।
ऊचुस्तं ते ततो ढुण्ढिमभजन् भक्तिसंयुताः ॥ १९ ॥

दशाक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।
अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥ २० ॥

गते वर्षे गणाधीशः प्रसन्नः स समाययौ ।
रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥ २१ ॥

शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया ।
सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥ २२ ॥

एवमुक्त्वान्तर्दधेऽसौ गणेशो गणवल्लभः ।
लक्ष्म्युत्सङ्गे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥ २३ ॥

जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् ।
ददर्श निजशय्यायां बालं शुण्डाधरं परम् ॥ २४ ॥

विस्मिता हर्षिताऽत्यन्तं नारायणमुवाच ह ।
वृत्तान्तं सा महाभागा दर्शयामास विघ्नपम् ॥ २५ ॥

सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् ।
गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्व माधवः ॥ २६ ॥

धन्योऽहं सर्वभावेन त्वदङ्घ्रियुगदर्शनात् ।
पुत्रभावेन मां पालयसि नाथ न संशयः ॥ २७ ॥

ततस्तत्रामराः सर्वे मुनयश्च समागताः ।
विस्मितास्तुष्टुवस्तं ते नानास्तोत्रैर्युधिष्ठिर ॥ २८ ॥

ततस्ते जातकर्माऽपि चक्रुः परमभाविताः ।
एकादशदिने तस्य मुनयो नाम चक्रिरे ॥ २९ ॥

द्वन्द्वभावविहीनोऽयं साक्षादानन्ददायकः ।
समो द्वन्द्वेषु सर्वेषु तद्विकारविवर्जितः ॥ ३० ॥

अतो नामाऽस्य देवेशाः पूर्णानन्द इति स्फुटम् ।
कुरुध्वं सर्वदाऽऽनन्ददायको नो भविष्यति ॥ ३१ ॥

तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः ।
चकार व्रतबन्धं च पञ्चमे विष्णुरव्ययः ॥ ३२ ॥

कश्यपस्य गृहे देव्यौ सम्भूते पुत्रिकात्मिके ।
विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥ ३३ ॥

तस्मै ददौ मुदा युक्तः कश्यपः सम्प्रहर्षितः ।
ननाम पूर्णानन्दाय विप्रेशो भक्तिसंयुतः ॥ ३४ ॥

द्वादशाब्दवयो युक्तो बभूव गणनायकः ।
बालक्रीडनकेनैव मोहयामास देवपान् ॥ ३५ ॥

स्तनपानादिकं तस्य भोजनाच्छादनादिकम् ।
लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥ ३६ ॥

विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः ।
जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः ॥

[[९९]]