॥ श्रीगणेशाय नमः ॥
युधिष्ठिर उवाच ।
तव कृष्णमुखाम्भोजान्निःसृतां सर्वपावनीम् ।
कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ १ ॥
ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह ।
किं कर्म तस्य यत् कृष्ण चेष्टितं वद विस्तरात् ॥ २ ॥
यदर्थं गणराजः स देहधारी बभूव ह ।
न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥ ३ ॥
कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः ।
चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥ ४ ॥
मुद्गल उवाच ।
युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः ।
नारायणः कथां त?स्मै अवदद्भवनाशिनीम् ॥ ५ ॥
श्रीकृष्ण उवाच ।
युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् ।
ब्रह्मभूयप्रदां ढुण्ढेः सुचरित्राश्रितां प्रभोः ॥ ६ ॥
दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च ।
शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥ ७ ॥
तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा ।
बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिनामकः ॥ ८ ॥
प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः ।
रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥ ९ ॥
स तु यौवनमापन्नो दुर्मतिं पितरं सदा ।
सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥ १० ॥
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।
शैवीं तया वने गत्वाऽऽराधयामास शङ्करम् ॥ ११ ॥
वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः ।
तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥ १२ ॥
ततस्तं प्रययौ शम्भुः पार्वत्या सहितः स्वयम् ।
उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥ १३ ॥
श्रीशिव उवाच ।
वरं वृणु महाभाग तपसा तोषितस्त्वया ।
दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥ १४ ॥
शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुङ्गवः ।
दृष्ट्वा शम्भुं मुदा युक्तः प्रणनाम कृताञ्जलिः ॥ १५ ॥
प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः ।
तुष्टाव सुस्थिरो भूत्वा शङ्करं भक्तवत्सलम् ॥ १६ ॥
ज्ञानारिरुवाच ।
नमस्ते शङ्करायैव पार्वतीसहिताय ते ।
वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ १७ ॥
अव्यक्तदेवाय च शिवाय शूलप्रधारिणे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ १८ ॥
सदाशिवाय मायाया आधाराय नमो नमः ।
मायामोहविहीनाय शम्भवे ते नमो नमः ॥ १९ ॥
[[९७]]
सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे ।
अनाथाय च सर्वेषां नाथाय परमात्मने ॥ २० ॥
चराचरस्वरूपाय नमोऽचरचरात्मने ।
महादेवाय देवानां पतये ते नमो नमः ॥ २१ ॥
मनोवागतिरूपाय योगिध्येयाय ते नमः ।
योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ २२ ॥
धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः ।
तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ २३ ॥
प्रसन्नोऽसि महेशान तदा देहि महाप्रभो ।
चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ २४ ॥
यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा ।
आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ २५ ॥
तथेति शिव ऊचे तमन्तर्धानं चकार ह ।
स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ २६ ॥
ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः ।
शृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ २७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥