४३ महालक्ष्मीवरप्रदानवर्णनम्

॥ श्रीगणेशाय नमः ॥

श्रीकृष्ण उवाच ।

शृणु धर्म महाभाग कथां पापापनोदिनीम् ।
लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥ १ ॥

श्रीमहालक्ष्मीरुवाच ।
भगवन् भवता प्रोक्तं महाशान्तिप्रदं परम् ।
तथाऽपि मे सुशान्त्यर्थं तत्रोपायं वदस्व मे ॥ २ ॥

श्रीनारायण उवाच ।

षडक्षरेण मन्त्रेण यदि तं साधयिष्यसि ।
तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥ ३ ॥

तस्य दर्शनमात्रेण शान्तिं प्राप्स्यसि निश्चितम् ।
तमाराधय यत्नेन तपसा योगभाविता ॥ ४ ॥

एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् ।
षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥ ५ ॥

ततः सा तं प्रणम्यैव तपसे वनमाययौ ।
हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥ ६ ॥

षडक्षरविधानेन ध्यात्वा देवं गजाननम् ।
जजाप मन्त्रराजं तं नासाग्रनयना सती ॥ ७ ॥

चित्तस्य चेन्द्रियाणां संस्थाप्य वृत्तिं गजानने ।
निराहारयुता देवी बभूव तपसि स्थिता ॥ ८ ॥

शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता ।
तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥ ९ ॥

तमागतं महादेवी प्रणनाम चतुर्भुजम् ।
महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥ १० ॥

मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् ।
सिद्धिबुद्धिसमायुक्तं नानाभूषणभूषितम् ॥ ११ ॥

गले चिन्तामणिमणिं बिभ्रतं ज्योतिषां पतिम् ।
शेषनाभिं गजास्यं वै ?पीतवस्त्रैश्च शोभितम् ॥ १२ ॥

ततस्तं पूजयामास प्रभुं नानोपचारकैः ।
प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥ १३ ॥

श्रीमहालक्ष्मीरुवाच ।
नमो महोदरायैव नानालीलाधराय ते ।
सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १४ ॥

चतुर्बाहुधरायैव चतुर्णां चालकाय ते ।
मूषकारूढरूपाय मूषकध्वजिने नमः ॥ १५ ॥

अन्नताननदेहाय ह्यनन्तविभवाय ते ।
अनन्तहस्तपादाय सदाऽनन्ताय ते नमः ॥ १६ ॥

चराचरमयायैव चराचरविवर्जित ।
योगशान्तिप्रदात्रे ते सदा योगस्वरूपिणे ॥ १७ ॥

अनादये गणेशायादिमध्यान्तस्वरूपिणे ।
आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ १८ ॥

सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः ।
सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ १९ ॥

विनायकाय सर्वेषां नायकाय विशेषतः ।
ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ २० ॥

सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः ।
त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ २१ ॥

कर्मणां फलदात्रे च कर्मणां चालकाय ते ।
कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ २२ ॥

योगेशाय च योगिभ्यो योगदाय गजानन ।
सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ २३ ॥

किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो ।
अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ २४ ॥

धन्याऽहं कृतकृत्याऽहं सफलो मे भवोऽभवत् ।
धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥ २५ ॥

एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा ।
साश्रुयुक्ता ननर्तैव बाष्पकण्ठा युधिष्ठिर ॥ २६ ॥

[[९५]]

तामुवाच गणाधीशो वरं वृणु यथेप्सितम् ।
दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ २७ ॥

त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां देवि नानाकार्यकरं तथा ॥ २८ ॥

पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ २९ ॥

गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् ।
हर्षेण महता युक्ता प्रणम्य करसम्पुटा ॥ ३० ॥

श्रीमहालक्ष्मीरुवाच ।
यदि प्रसन्नभावेन वरदोऽसि महोदर ।
तदा ते भक्तिमुग्रां मे देहि नाथ नमोऽस्तु ते ॥ ३१ ॥

अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक ।
भजामि भावयुक्ताऽहं तथापि शृणु मे वचः ॥ ३२ ॥

मनश्चञ्चलभावेन संसारे गच्छति प्रभो ।
संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥ ३३ ॥

अतस्त्वं पुत्रभावेन भव मे विघ्नवारण ।
तत्र त्वां पुत्रवात्सल्येन भजामि निरन्तरम् ॥ ३४ ॥

देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् ।
भजामि च तथा त्वाहं संसारे पुत्ररूपिणम् ॥ ३५ ॥

योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि ।
तेन योगस्वरूपा सा शान्तिः प्राप्ता न संशयः ॥ ३६ ॥

तव माता पिता चैव बन्धयुक्तौ यदि प्रभो ।
तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥ ३७ ॥

अतो मे पुत्रतां याहि तयाऽहं गणनायक ।
भजामि ब्रह्मभूता न सन्देहो भक्तिसंयुता ॥ ३८ ॥

मह्यमेष वरो नाथ दातव्यः करुणानिधे ।
नान्यं याचे महाभाग देवदेवेश ते नमः ॥ ३९ ॥

इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः ।
उवाच तां सुभावज्ञो भावपूर इति स्मृतः ॥ ४० ॥

गणेश उवाच ।

तव पुत्रो भविष्यामि ज्ञानारेर्नाशनाय च ।
दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥ ४१ ॥

यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् ।
मदीयवरदानेन योगिवन्द्या भविष्यसि ॥ ४२ ॥

आदौ त्वया महादेवि मदीयं भजनं कृतम् ।
तेन शान्तियुता जाता योगस्था मोहवर्जिता ॥ ४३ ॥

ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह ।
सा त्वं नष्टा द्विजस्यैव शापतो मोहसंयुता ॥ ४४ ॥

समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा ।
तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता सदा ॥ ४५ ॥

तेन ते विस्मृतिर्जाता मदीया नात्र संशयः ।
विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥ ४६ ॥

अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे ।
विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥ ४७ ॥

त्वं तथा पुत्रभावार्थं याचसे मां समुद्रजे ।
करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥ ४८ ॥

एवमुक्त्वा गणेशस्तां ययौ स्वानन्दके पुरे ।
अन्तर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥ ४९ ॥

स्मृत्वा योगबलेनैव पुरातनभवां कथाम् ।
विस्मिता मानसे जाता सस्मार द्विरदाननम् ॥ ५० ॥

मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः ।
पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥ ५१ ॥

[[९६]]

प्रणम्य तं महाविष्णुं जगाद सर्वमञ्जसा ।
वृत्तान्तं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥ ५२ ॥

धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः ।
पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥ ५३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥