॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग चरितं विघ्नपस्य च ।
कृष्णः सङ्कथयामास पाण्डवानमितद्युतिः ॥ १ ॥
श्रीकृष्ण उवाच ।
युधिष्ठिर महापुण्यशीलः शृणु वचो महत् ।
येन त्वं सङ्कटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥ २ ॥
इतिहासं पुरावृत्तं कथयामि समासतः ।
सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥ ३ ॥
एकदा देवदेवेशो विष्णुर्वैकुण्ठसंस्थितः ।
लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥ ४ ॥
गरुडेन समीपस्थेन सदा हर्षसंयुतः ।
अप्सरोभिश्च गन्धर्वैर्देवैः संसेवितो बभौ ॥ ५ ॥
तमुवाच महाभागं भगवन्तं सनातनम् ।
शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥ ६ ॥
श्रीलक्ष्मीरुवाच ।
स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः ।
स्त्रीणां भर्तृसमं नैवास्ति किञ्चिद्वेदभाषितम् ॥ ७ ॥
त्वं साक्षाद्देवदेवेशः शङ्कराद्यैः सुसंस्तुतः ।
षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥ ८ ॥
देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः ।
सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥ ९ ॥
सर्वेषां पालकस्त्वं वै तव पाता न विद्यते ।
तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥ १० ॥
एकान्ते पूजयसि कं देवं त्वं विष्टरश्रवाः ।
आनन्दं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥ ११ ॥
विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो ।
अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥ १२ ॥
संशयच्छेदनार्थं मां वद विष्णो विशेषतः ।
दासीं ते पादपद्मस्य द्वन्द्वहीनः सदा मतः ॥ १३ ॥
सर्वत्र समरूपस्त्वं सदाऽऽनन्दमयस्ततः ।
तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥ १४ ॥
ध्यानेन पूजनेनैव फलं किं ते भविष्यति ।
तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥ १५ ॥
श्रीकृष्ण उवाच ।
इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः ।
समालिङ्ग्य प्रजानाथ उवाच जलधेः सुताम् ॥ १६ ॥
श्रीविष्णुरुवाच ।
शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम् ।
तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥ १७ ॥
न करोमि जनानां वै ध्यानं मोहाय नित्यदा ।
कुलदेवं गणेशानं भजामि सर्वभावतः ॥ १८ ॥
गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः ।
पञ्च देवा महाभागे तेन संस्थापिताः पदे ॥ १९ ॥
[[९३]]
गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः ।
गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥ २० ॥
ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः ।
सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥ २१ ॥
प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् ।
जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥ २२ ॥
अतस्तं भावसंयुक्ता भजामो नित्यमादरात् ।
स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥ २३ ॥
विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा ।
जगाद तं महाविष्णुं विनयेन समन्विता ॥ २४ ॥
श्रीलक्ष्मीरुवाच ।
कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः ।
स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥ २५ ॥
श्रीविष्णुरुवाच ।
सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् ।
वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥ २६ ॥
स्वानन्दे सोऽपि वसति गणेशो ब्रह्मनायकः ।
स्वानन्दः पञ्चधा जातः शृणु तस्य कथानकम् ॥ २७ ॥
नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् ।
तत्र स्वानन्दको योगोऽसद्रूपः परिकथ्यते ॥ २८ ॥
असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् ।
सत्स्वरूपं च तद्विद्धि सत् स्वानन्दः प्रकीर्तितः ॥ २९ ॥
सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा ।
आनन्दात्मकरूपं तत् समस्वानन्द उच्यते ॥ ३० ॥
त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् ।
नेतिरूपं महाभागे स्वानन्दोऽव्यक्त उच्यते ॥ ३१ ॥
चतुर्णां योगभावोऽयं समाधिर्जायते किल ।
स्वानन्दः पञ्चमो ह्यत्र सर्वसंयोग उच्यते ॥ ३२ ॥
स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः ।
चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥ ३३ ॥
मायाहीनतया ढुण्ढिरभूत् सोऽयोगवाचकः ।
न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥ ३४ ॥
मायायुक्तविहीनत्वं तदेव भ्रान्तिदायकम् ।
ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥ ३५ ॥
तत्र शान्तिर्भवेद्देवि योगिनां नात्र संशयः ।
अतो योगस्वरूपा सा कथ्यते शान्तिरुत्तमा ॥ ३६ ॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥ ३७ ॥
तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते ।
अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥ ३८ ॥
भ्रमरूपां महामायां सिद्धिं जानीहि मानदे ।
सिद्ध्यर्थं सर्वलोकाश्च विभ्रमन्तीश्वरा अतः ॥ ३९ ॥
भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् ।
सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥ ४० ॥
तयोः स्वामी सदायोगशान्तिरूपोऽयमुच्यते ।
तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥ ४१ ॥
इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः ।
श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥
[[९४]]