४१ युधिष्ठिरकृष्णसमागमः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

धृतराष्ट्रं च जन्मान्धं त्यक्त्वा पाण्डुं प्रचक्रिरे ।
राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुन्धराम् ॥ १ ॥

छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः ।
धृतराष्ट्रं चकाराऽसौ पाण्डुः परपुरञ्जयः ॥ २ ॥

धृतराष्ट्रस्य भार्याऽभूद्गान्धारी च पतिव्रता ।
पाण्डोः कुन्ती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥ ३ ॥

भार्याभ्यां संयुतो राजा वनं पाण्डुर्जगाम ह ।
क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥ ४ ॥

मृगरूपधरं राजा मुनिं जघ्ने शरेण सः ।
मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥ ५ ॥

भार्यासंसक्तरूपं मां हतवांश्च नृपाधम ।
अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥ ६ ॥

तदा ते मरणं सद्यो मम वाक्याद्भविष्यति ।
इत्युक्त्वा देहसन्त्यागं चकार द्विजसत्तमः ॥ ७ ॥

श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः ।
भार्याभ्यां सहितः पाण्डुः कन्दमूलादि भक्षयन् ॥ ८ ॥

ततः कुन्त्यां समुद्भूतो धर्माद्धर्मभृतां वरः ।
युधिष्ठिरो महाभागो मन्त्रसामर्थ्यकारणात् ॥ ९ ॥

वायोश्च भीमसेनो वै बभूव बलसंयुतः ।
इन्द्रात् कुन्त्यामर्जुनः स धनुर्विद्यापरायणः ॥ १० ॥

अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् ।
माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुतौ ॥ ११ ॥

गान्धार्यां च शतं पूर्णं पुत्राणाममितौजसाम् ।
बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥ १२ ॥

पाण्डुः शापविमोहेन माद्र्यां सक्तो ममार ह ।
सा वै सहगता जाता कुन्ती पुत्रानपालयत् ॥ १३ ॥

ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे ।
पुत्रैः कुन्ती तथा भीष्मादिभिः सम्मानिताऽवसत् ॥ १४ ॥

ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह ।
पाण्डवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥ १५ ॥

दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल ।
पाण्डवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥ १६ ॥

इत्यादिविविधैर्भावैः द्वेषयुक्तः स दुर्मतिः ।
पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥ १७ ॥

अर्धं राज्यं च सङ्गृह्य पुराद् गच्छन्तु पाण्डवाः ।
इन्द्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥ १८ ॥

तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् ।
कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥ १९ ॥

राजसूयमखं कृत्वा शुशुभुः पाण्डवास्ततः ।
यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥ २० ॥

धृतराष्ट्रेण दुर्बुद्धिरानयामास पाण्डवान् ।
द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥ २१ ॥

वनेषु स्थापयामास पाण्डवान् साहसप्रियः ।
वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥ २२ ॥

त्यक्त्वा राज्यादिकं सर्वं पाण्डवा वनमाययुः ।
तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥ २३ ॥

पाण्डवान् सान्त्वयामास क्रोधयुक्तो बभूव सः ।
दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥ २४ ॥

कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः ।
ब्रुवन्तं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥ २५ ॥

धर्मयुक्ततया राज्यं करिष्यामि जनार्दन ।

[[९२]]

अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापदम् ॥ २६ ॥

अतः कोपं महाबाहो नियच्छ मम वाक्यतः ।
वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥ २७ ॥

ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह ।
युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥ २८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥