४० माण्डव्यचरितम्

॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।

पुरोर्वंशे महाभागा राजानो धर्मशालिनः ।
बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥ १ ॥

तेषां चरित्रमत्यन्तं कथनाय न शक्यते ।
बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥ २ ॥

पूरोर्वंशे महाराज शन्तनुः प्रबभूव ह ।
विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥ ३ ॥

तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः ।
गङ्गायां सर्वशास्त्रज्ञो ब्रह्मचर्यपरायणः ॥ ४ ॥

सत्यवत्यां च पुत्रौ द्वौ शन्तनोर्वै बभूवतुः ।
चित्राङ्गदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥ ५ ॥

चित्राङ्गदो महातेजाः पस्पर्धे क्षत्रियान् सदा ।
चित्राङ्गदेन युद्धे स गन्धर्वेण हतोऽभवत् ॥ ६ ॥

विचित्रवीर्यकस्तत्र यक्ष्मणा पीडितोऽभवत् ।

[[८९]]

मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥ ७ ॥

तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके ।
अम्बिकाऽम्बालिका नाम्न्यौ दुःखिते ते बभूवतुः ॥ ८ ॥

सत्यवत्या कृतं तत्र सन्तानार्थं महामुनेः ।
व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥ ९ ॥

स आगत उवाचैनां किमर्थं दुःखिता वद ।
मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥ १० ॥

तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो ।
विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥ ११ ॥

तथेति तेन वंशस्य कृता वृद्धिः प्रजापते ।
कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥ १२ ॥

अम्बिकायां मुनेर्वीर्यात् धृतरा?ष्ट्रो बभूव ह ।
पाण्डुरम्बालिकायां वै दास्यां च विदुरोऽभवत् ॥ १३ ॥

यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् ।
माण्डव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥ १४ ॥

दक्ष उवाच ।

कथं माण्डव्यशापश्च यमेशस्य पुराऽभवत् ।
धर्ममार्गरतस्यापि स्वपरेषु समस्य भोः ॥ १५ ॥

मुद्गल उवाच ।

सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् ।
पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥ १६ ॥

माण्डव्यो मुनिवर्यः स वने तपसि संस्थितः ।
तत्र चोरा धनं हृत्वा पलन्तश्च समाययुः ॥ १७ ॥

राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः ।
चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसन्न्निधौ ॥ १८ ॥

धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते ।
राजदूतैर्धनं दृष्टं सङ्गृह्य कुपिता भृशम् ॥ १९ ॥

ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् ।
सङ्गृह्य ताडयन्तस्त आययुर्नगरे स्वके ॥ २० ॥

राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् ।
वृत्तान्तं चोरसम्भूतं नृपोऽपि कुपितोऽभवत् ॥ २१ ॥

शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः ।
तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥ २२ ॥

तत्र दुःखसमायुक्तो माण्डव्यस्तपसि स्थितः ।
सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥ २३ ॥

स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ ।
तं तथा दुःखसंयुक्तं दृष्ट्वा सन्दुःखितोऽभवत् ॥ २४ ॥

उवाच तं स्वशिष्यं स भज त्वं गणनायकम् ।
सर्वविघ्ननिहन्तारं भक्तेभ्यः शान्तिदायकम् ॥ २५ ॥

ततस्तं मुनिशार्दूलं माण्डव्यः प्रजगाद वै ।
केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥ २६ ॥

तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह ।
गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥ २७ ॥

कश्यप उवाच ।

पञ्चधा चित्तवृत्तेश्च चालकोऽयं गजाननः ।
चिन्तामणिरिति ख्यातो वेदान्ते वेदवादिभिः ॥ २८ ॥

सम्प्रज्ञातस्वरूपो वै देहस्तस्य महामुने ।
असम्प्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥ २९ ॥

तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय ।
भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥ ३० ॥

भ्रमधारकरूपां त्वं बुद्धिं जानीहि सत्तम ।
तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥ ३१ ॥

तं भजस्व विधानेन योगशान्तिमयं मुने ।
तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥ ३२ ॥

[[९०]]

इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः ।
एकाक्षरविधानेन कवचं शास्त्रसम्मतम् ॥ ३३ ॥

आज्ञां सङ्गृह्य विप्रेशः कश्यपः स्वालयं ययौ ।
माण्डव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥ ३४ ॥

कवचं गणराजस्य दधार मुनिसत्तमः ।
कवचे सन्धृते दक्ष पीडाहीनो बभूव ह ॥ ३५ ॥

तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ ।
ददर्श तं महाविप्रं प्रणनाम कृताञ्जलिः ॥ ३६ ॥

रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत् ।
मा रुद त्वं महीपाल नैव शापं ददाम्यहम् ॥ ३७ ॥

मदीयकर्मदोषेण शूलप्रोतोऽहमेव च ।
अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥ ३८ ॥

ततो नृपेण विप्रार्थं लोहकारविचक्षणाः ।
समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥ ३९ ॥

शूलाग्रं हस्तगं तत्रैकभागं सङ्गतं बभौ ।
निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥ ४० ॥

शस्त्रैः सञ्छेदितं तैस्तत् शूलाग्रं हस्तगं विधे ।
यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥ ४१ ॥

राज्ञा सम्पूजितो विप्रः प्रययौ यमसन्निधिम् ।
उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥ ४२ ॥

माण्डव्य उवाच ।

मया किं प्रकृतं कर्म पापरूपं वदस्व माम् ।
येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥ ४३ ॥

तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः ।
प्राञ्जलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥ ४४ ॥

यम उवाच ।

बालभावे त्वया ब्रह्मन् कीटः कण्टकवेधितः ।
तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥ ४५ ॥

तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः ।
जगाद धर्मराजं तं माण्डव्यश्च प्रजापते ॥ ४६ ॥

अहो बालस्वभावेन कृतं कर्म मया किल ।
अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥ ४७ ॥

अतो नीतिविहीनस्त्वं पतिष्यसि धरातले ।
शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥ ४८ ॥

अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज ।
अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥ ४९ ॥

मम वाक्येन भवतु गणराजप्रसादतः ।
तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥ ५० ॥

माण्डव्यः स्वाश्रमे गत्वा तताप तप उत्तमम् ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ ५१ ॥

कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम् ।
बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥ ५२ ॥

अणिमाण्डव्यको नाम्ना तदादि स बभूव ह ।
स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥ ५३ ॥

नित्यं गणपतेर्विप्रो मूर्तिपूजापरोऽभवत् ।
सदा गणेशभावज्ञः सर्ववन्द्यो महायशाः ॥ ५४ ॥

माण्डव्यचरितं पुण्यं यः शृणोति नरोत्तमः ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः ॥

[[४१]]