३९ विष्णुदेहधारणवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

रामस्य ?रेवती भार्या सुरूपाऽऽसीद्गुणान्विता ।
तस्यामुत्पादयामास द्वौ पुत्रौ निषधोल्मुकौ ॥ १ ॥

षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा ।
कृष्णस्य पत्न्यः सम्प्रोक्ताश्चारुरूपाः सुलोचनाः ॥ २ ॥

तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः ।
प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥ ३ ॥

प्रद्युम्नसाम्बमुख्याश्च महातेजोयुताः सुताः ।
महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥ ४ ॥

प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् ।
तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥ ५ ॥

[[८७]]

मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः ।
जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥ ६ ॥

दक्ष उवाच ।

कथं विष्णुः स्वयं साक्षान् मानुषे देहधारकः ।
बभूव तत्र यन्मूलं तदेव वद मानद ॥ ७ ॥

मुद्गल उवाच ।

कथां शृणु महारम्यां पुरा जातां प्रजापते ।
यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥ ८ ॥

पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः ।
राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥ ९ ॥

ततस्तान् हन्तुमत्यन्तं ययुर्देवा उदायुधाः ।
प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥ १० ॥

अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः ।
राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥ ११ ॥

शस्त्रादिभिर्विहीनान्नः कथं हन्तुं समुद्यताः ।
सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥ १२ ॥

अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् ।
मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥ १३ ॥

तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् ।
देवा हन्तुं प्रारभन्त पलायन्ताऽसुरास्तदा ॥ १४ ॥

शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः ।
उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥ १५ ॥

तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः ।
समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥ १६ ॥

रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् ।
नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥ १७ ॥

तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा ।
मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥ १८ ॥

तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः ।
तत्र संस्थास्ततो दक्ष निःश्वासा?त्छ्वाससंयुताः ॥ १९ ॥

एतस्मिन्नन्तरे तत्राजग्मुर्विष्णुपुरोगमाः ।
देवा उदायुधाः सर्वे दैत्यान् हन्तुं प्रचक्रमुः ॥ २० ॥

तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः ।
दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥ २१ ॥

तामनादृत्य देवेन्द्रो विष्णुना प्रेरितः स्वयम् ।
वज्रं धृत्वा ययौ हन्तुं दैत्यान् क्रोधविलोचनः ॥ २२ ॥

ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् ।
सवज्रं देवराजं तं स्तम्भितं प्रचकार ह ॥ २३ ॥

तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना ।
शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥ २४ ॥

एतस्मिन्नेव काले तु भृगुस्तत्र समागतः ।
मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥ २५ ॥

शशाप विष्णुमावेशात् पत त्वं पृथिवीतले ।
ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥ २६ ॥

भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते ।
जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥ २७ ॥

ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः ।
शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥ २८ ॥

तत्राऽतितपसा देवं वर्षमात्रं प्रजापते ।
निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥ २९ ॥

ततस्तं गणराजः स ययौ भक्तिनियन्त्रितः ।
उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥ ३० ॥

गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः ।

[[८८]]

पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥ ३१ ॥

अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह ।
वरं वरय दास्यामि मा खेदं कुरु केशव ॥ ३२ ॥

श्रीविष्णुरुवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥ ३३ ॥

अत्रैव वाससंस्थानं देहि ते भजनाय मे ।
निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥ ३४ ॥

ओमित्युक्त्वा स्वयं ढुण्ढिरूचिवान् भक्तमुत्तमम् ।
मा चिन्तां कुरु विष्णो त्वं शृणु मे परमं वचः ॥ ३५ ॥

भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा ।
करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥ ३६ ॥

तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति ।
मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥ ३७ ॥

देवैः सम्प्रार्थितस्त्वं वै दैत्यादीनां वधाय च ।
धर्मसंस्थापनार्थायाऽवतारं प्रधरिष्यसि ॥ ३८ ॥

तत्र ते कीर्तिरत्यन्तं भविष्यति विशेषतः ।
यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥ ३९ ॥

तत्र त्वदीयभक्ताश्च भविष्यन्ति विशेषतः ।
तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥ ४० ॥

पुनश्च देवकार्यं च कृत्वा देव जनार्दन ।
विकुण्ठे ते सदा वासो भविष्यति न संशयः ॥ ४१ ॥

स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः ।
मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥ ४२ ॥

अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति ।
वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥ ४३ ॥

इत्युक्त्वाऽन्तर्दधे दक्ष गणेशः करुणानिधिः ।
विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥ ४४ ॥

पूर्वदिग्भागदेशे वै स्थापितो गणनायकः ।
विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥ ४५ ॥

एत्तते कथितं दक्ष देहधारणकारणम् ।
विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥