॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः ।
पञ्चैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥ १ ॥
जयध्वजः शूरसेनो वृषभोऽथ पुरुर्जितौ ।
जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥ २ ॥
जयध्वजस्य पुत्रोऽभूत्तालजङ्घः प्रतापवान् ।
तस्य पुत्रशतं जज्ञे तालजङ्घा इति स्मृताः ॥ ३ ॥
तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः ।
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ ४ ॥
वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः ।
मधोः पुत्रशतं जज्ञे वृष्णिर्ज्येष्ठः स वंशकृत् ॥ ५ ॥
वीतिहोत्रसुतश्चैवानन्तनामा महायशाः ।
दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ ६ ॥
तस्य भार्या गुणैर्युक्ता पातिव्रत्यपरायणा ।
वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥ ७ ॥
तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् ।
गते बहुतिथे काले ययौ कण्वेन बोधितः ॥ ८ ॥
स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै ।
याजयामास तं कण्वः स विनीतो बभूव ह ॥ ९ ॥
तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः ।
सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥ १० ॥
यदुपुत्रस्य वंशं वै शृणु क्रोष्टोः प्रजापते ।
क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥ ११ ॥
तस्य पुत्रोऽ?भवच्छाहिः कुशेकुस्तत्सुतो मतः ।
कुशेकोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥ १२ ॥
पुत्रश्चित्ररथस्याऽभूच्छशबिन्दुस्ततोऽभवत् ।
दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥ १३ ॥
उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते ।
तस्माद्रुचकनामाऽभूत्ततः पञ्च सुता मताः ॥ १४ ॥
तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः ।
तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च कुशक्रथौ ॥ १५ ॥
लोमपादस्तृतीयस्तु बभ्रुस्तस्याऽऽत्मजोऽभवत् ।
कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥ १६ ॥
[[३८]]
उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततोऽभवत् ।
तस्य पुत्रो महाबाहुःप्रभावात् कौशिकः स्मृतः ॥ १७ ॥
अभूत्तस्य सुतो धीमान् सुमन्तुश्च ततोऽमलः ।
अमलस्य सुतः प्रोक्तो निःश्वेतश्च महाबलः ॥ १८ ॥
तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः ।
क्रथस्याप्यऽभवत्कुन्तिर्धृष्टिस्तस्याऽथ निर्वृतिः ॥ १९ ॥
दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः ।
विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥ २० ॥
तस्मान्नवरथो नाम बभूव च महाबलः ।
तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥ २१ ॥
तस्मात् करम्भिः सम्भूतो देवरातोऽभवत्ततः ।
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ २२ ॥
मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत ।
पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥ २३ ॥
अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः ।
आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥ २४ ॥
भजमानो भजिर्दिव्यो वृष्णिर्देववृधोऽन्धकः ।
महाभोजश्च विख्याता यादवेषु प्रजापते ॥ २५ ॥
भजमानस्य निम्लोचिः किङ्कणो वृष्णिरेव च ।
अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥ २६ ॥
बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः ।
सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥ २७ ॥
यशसा तेजसा राजा त्रिलोकेषु विराजितः ।
महाभोजकुले जाता भोजास्ते वै प्रकीर्तिताः ॥ २८ ॥
वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा ।
अनमित्रः शिनिस्तस्मान्निम्नोऽभूदनमित्रतः ॥ २९ ॥
सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ ।
सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमन्तकम् ॥ ३० ॥
शिनेरथ समुत्पन्नः पुत्रः सर्वार्थकोविदः ।
सत्यकः सत्यसम्पन्नः सत्यनामा महायशाः ॥ ३१ ॥
सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः ।
कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ ३२ ॥
अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः ।
श्वफल्कश्च सुतो वृष्णेः परश्चित्ररथोऽभवत् ॥ ३३ ॥
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
तस्यामजनयत् पुत्रमक्रूरं साधुसम्मतम् ॥ ३४ ॥
आसङ्गसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः ।
अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥ ३५ ॥
अभूच्चित्ररथात् पुत्रः पृथुश्चापृथुरेव हि ।
अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥ ३६ ॥
अथान्धको महाबाहुर्लेभे वै चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कम्बलबर्हिणम् ॥ ३७ ॥
कुकरस्य सुतो वह्निर्वह्नेस्तु तनयोऽभवत् ।
कपोतरोमा भो दक्ष पुत्रोऽभवदनुस्ततः ॥ ३८ ॥
सोऽभवत्तुम्बरोर्मित्रं सुतस्तस्याऽन्धकः स्मृतः ।
अन्धकादभवत् पुत्रस्तेजोयुक्तश्च दुन्दुभिः ॥ ३९ ॥
स गोवर्धनमासाद्य तताप विपुलं तपः ।
ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥ ४० ॥
वंशस्ते चाक्षयो भावी कीर्तिज्ञानादिकं यशः ।
सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥ ४१ ॥
[[८६]]
अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुन्दुभेः ।
पुनर्वसुः सुतस्तस्याहुकस्तस्य सुतः स्मृतः ॥ ४२ ॥
आहुकादुग्रसेनश्च देवकश्च प्रजापते ।
देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥ ४३ ॥
देववानुपदेवश्च सुदेवो देववर्धनः ।
तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥ ४४ ॥
धृतदेवा तथा चैवोपदेवा देवसाक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ ४५ ॥
देवकी वसुदेवाय ददौ सर्वाः प्रजापते ।
उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥ ४६ ॥
महायशा अभूत् पुत्रो भजमानाद्विदूरथः ।
तस्य शूरः शिनिस्तस्य स्वयम्भोजश्च तत्सुतः ॥ ४७ ॥
हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः ।
कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥ ४८ ॥
वसुदेवादयो दक्ष दश धर्मपरायणाः ।
वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥ ४९ ॥
देवकीपुत्रतां यातो देवैः सम्प्रार्थितो हरिः ।
भूमिभारावताराय साधूनां पालनाय च ॥ ५० ॥
रोहिणी च महाभागा वसुदेवादजीजनत् ।
सङ्कर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥ ५१ ॥
उमा देहधरा जाता योगनिद्रा च कौशिकी ।
नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥ ५२ ॥
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥ ५३ ॥
सुषेणश्च ततो दायि भद्रसेनो महाबलः ।
ऋतुः सम्मर्दनो भद्रः कीर्तिमानिति सञ्ज्ञिताः ॥ ५४ ॥
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत लोकनाथं तं बलभद्रं हलायुधम् ॥ ५५ ॥
जाते रामे च देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥