३७ परशुरामचरितकथनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

गत वर्षसहस्रे स तपतोराययौ प्रभुः ।
विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥ १ ॥

रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् ।
एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥ २ ॥

तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवतुः ।
ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥ ३ ॥

धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः ।
तपः स्वाध्याय एवं त आवयोर्नात्र संशयः ॥ ४ ॥

एवमुक्त्वा प्रणम्यैनं पूजयन्तौ गणेश्वरम् ।
सरोमाञ्चौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥ ५ ॥

रेणुकाजमदग्नी उचतुः ।
नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६ ॥

अनादये त्वनाधार वक्रतुण्डस्वरूपिणे ।
गणेशान अनन्तानां गणानां पतये नमः ॥ ७ ॥

नानाशक्तियुतायैव नानाभेदकराय ते ।
नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८ ॥

अमेयमायया चैव खेलकाय च ढुण्ढये ।
सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९ ॥

स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने ।
योगाकाराय योगाय शान्तिदाय नमो नमः ॥ १० ॥

अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च ।
लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ ११ ॥

महोदराय विघ्नानां पतये सुखदायिने ।
मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ १२ ॥

चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने ।
ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ १३ ॥

यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः ।
योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ १४ ॥

एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ ।
तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ १५ ॥

वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् ।
यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ १६ ॥

गणेशवचनं श्रुत्वा दम्पती तमथोचतुः ।
प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ हर्षसंयुतौ ॥ १७ ॥

तावूचतुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥ १८ ॥

योगशान्तिं च विघ्नेश देहि योगेश नौ परा ।
गाणपत्यप्रियां चैव सदा ह्यानन्ददायिकाम् ॥ १९ ॥

ओमित्युक्त्वा गणाध्यक्षः पुनः प्रोवाच तौ तदा ।
दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥ २० ॥

[[८२]]

भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् ।
यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥ २१ ॥

जमदग्ने सदा शान्तो भव मे भक्तिकारकः ।
रेणुके देहयुक्ता त्वं भज मां योगभाविता ॥ २२ ॥

लोकास्त्वां मस्तकाकारां पश्यन्त्यत्र न संशयः ।
ज्ञानदृष्ट्या तथा साङ्गां पश्येयुर्दैवतादयः ॥ २३ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥ २४ ॥

ततः कदाचिद्रामस्तौ प्रणिपत्य कृताञ्जलिः ।
उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥ २५ ॥

श्रीराम उवाच ।

अर्जुनं संहनिष्यामि तथा निःक्षत्रियां धराम् ।
करिष्यामि न सन्देहः पितरौ भवदाज्ञया ॥ २६ ॥

ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः ।
मा कुरुष्व वृथा हिंसां राम गर्वं परित्यज ॥ २७ ॥

ततस्तं भार्गवं राम उवाच विनयान्वितः ।
मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥ २८ ॥

तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः ।
देहत्यागं करिष्यामि तदर्थमथवा मुने ॥ २९ ॥

तस्याऽऽग्रहं समालोक्य न्यगदत् पुत्रमादरात् ।
शङ्करं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥ ३० ॥

तौ प्रणम्य जगामाऽसौ कैलासे शङ्करं प्रभुः ।
प्रणिपत्य महेशानं स्तुत्वा तं चाब्रवी?द्वचः ॥ ३१ ॥

कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् ।
एकविंशतिवारं च तत्रोपायं वद प्रभो ॥ ३२ ॥

तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः ।
रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥ ३३ ॥

पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः ।
वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥ ३४ ॥

वायुभक्षस्ततो मन्त्रं जजाप ध्यानसंयुतः ।
समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ३५ ॥

गते वर्षशते पूर्णे आययौ तं गजाननः ।
भक्तं भक्त्या समायुक्तं महोग्रतपसा युतम् ॥ ३६ ॥

उवाच तं महाभागं भार्गवं विष्णुमव्ययम् ।
वरं वृणु महाभाग भक्त्या दास्यामि भावितः ॥ ३७ ॥

श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः ।
ननाम दण्डवद्भूमौ तं पुपूज विशेषतः ॥ ३८ ॥

पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृताञ्जलिः ।
रामो भक्तिरसेनैव सम्प्लुतः साश्रुलोचनः ॥ ३९ ॥

राम उवाच ।

नमस्ते गणनाथाय भक्तानन्दविवर्धन ।
भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४० ॥

वेदान्तवेद्यरूपाय मनोवाणीमयाय च ।
मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१ ॥

गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे ।
सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२ ॥

अनादये च पूज्याय सर्वेषां सर्वदायिने ।
आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ ४३ ॥

विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् ।
सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ ४४ ॥

वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै ।
सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ ४५ ॥

[[३७]]

महोदराय सिद्धेश्च बुद्धेश्च पतये नमः ।
नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ ४६ ॥

नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः ।
सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ ४७ ॥

नानादैत्यनिहन्त्रे च देवानां मदहारिणे ।
सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ ४८ ॥

सर्वत्र योगरूपेण संयोगायोगहीनतः ।
संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ ४९ ॥

यं समर्था गणाध्यक्ष योगिनः शेषकादयः ।
शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ ५० ॥

तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् ।
तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ ५१ ॥

एवं संस्तुवतस्तस्य भक्तिभावेन मानद ।
भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ ५२ ॥

ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः ।
जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ ५३ ॥

तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः ।
उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ ५४ ॥

राम राम महाभाग शृणु मे परमं वचः ।
धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ ५५ ॥

त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् ।
पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ ५६ ॥

तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५७ ॥

यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव ।
मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ ५८ ॥

परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः ।
जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ ५९ ॥

निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः ।
एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ ६० ॥

नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् ।
उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ ६१ ॥

यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले ।
शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ ६२ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ जामदग्न्यं गणेश्वरः ।
रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥ ६३ ॥

सम्पूज्य स्वगृहं रामो ययौ हर्षसमन्वितः ।
रेणुकां जमदग्निं स ननाम परशोर्धरः ॥ ६४ ॥

तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः ।
जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥ ६५ ॥

सिद्धैश्च कवचैर्युक्ता राजानः सर्व आगताः ।
अवध्याः सर्वभावेन देवादीनां महाबलाः ॥ ६६ ॥

गणेशवरदानेन परशोस्तेजसा प्रभुः ।
रामः सर्वांश्च सङ्ग्रामे मारयामास यत्नतः ॥ ६७ ॥

कार्तवीर्यं तं जघान स ततो रोषतो दृढम् ।
युद्धं कृत्वा महाघोरं बाहूंश्चिच्छेद लीलया ॥ ६८ ॥

ममार कार्तवीर्यश्च पर्शुना च प्रजापते ।
ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥ ६९ ॥

निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः ।
पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥ ७० ॥

रामेण ते पुनः सर्वे हताः क्षत्रकुलोद्भवाः ।
निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥ ७१ ॥

[[८४]]

एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् ।
क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥ ७२ ॥

यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः ।
समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥ ७३ ॥

तत्राऽयं संस्थितो रामो भजते गणनायकम् ।
अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥ ७४ ॥

इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् ।
जमदग्ने रेणुकायाश्चरितं कथितं मया ॥ ७५ ॥

यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ।
भुक्तिमुक्तिप्रदं दक्ष चिन्तितार्थप्रदं परम् ॥ ७६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥