३६ रेणुकाजमदग्निसञ्जीवनकरणम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

गते राजनि भो दक्ष जमदग्निर्महामुनिः ।
रेणुकां च समाहूय वृत्तान्तमवदत् स्वयम् ॥ १ ॥

ततस्ताभ्यां स्मृता देवी कामधेनुः प्रजापते ।
समागतां प्रसम्पूज्य प्रार्थयन्तावुभौ समम् ॥ २ ॥

कार्तवीर्यः ससैन्यश्च भोजनाय निमन्त्रितः ।
तदर्थं कुरु कल्याणि यत्नं प्रत्वरिता सखि ॥ ३ ॥

तयोर्वचनमाकर्ण्य कामधेन्वा महापुरम् ।
रचितं स्वप्रभावेण परिखावलयाङ्कितम् ॥ ४ ॥

चतुर्विधान्नसंयुक्तां निर्ममे पाकशालिकाम् ।
क्षणेन तां समालोक्य हर्षितश्चाऽभवन् मुनिः ॥ ५ ॥

शिष्यै राजानमाहूय ससैन्यं तं प्रजापते ।
भोजयामास विप्रोऽसावन्नैर्नानाविधैः परैः ॥ ६ ॥

अमृतकल्परूपं ते बुभुजुर्हर्षसंयुताः ।
तृप्तास्ते फलकन्दादीन् भक्षयामासुरादृताः ॥ ७ ॥

ताम्बूलानि ततः सर्वे बभक्षुः प्रेमसंयुताः ।
ततो वस्त्रादिभिस्ते च सत्कृता मुनिना बभुः ॥ ८ ॥

राजाऽथ विस्मितो भूत्वा प्रणनाम महामुनिम् ।
आज्ञां गृहीत्वा सैन्येन ययौ स्वनगरं प्रति ॥ ९ ॥

गच्छन्तं तं प्रधानं च ऊचे विनयसंयुतः ।
धेनुं प्रार्थय राजंस्त्वं ब्राह्मणस्तां प्रदास्यति ॥ १० ॥

इयं धेनुर्महाराज रत्नभूता न संशयः ।
तां विना राज्यमुग्रं ते निष्फलं भासतेऽधुना ॥ ११ ॥

तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः ।
विघ्नेन पीडितोऽत्यन्तमुवाच सचिवं वचः ॥ १२ ॥

गच्छ त्वं प्रार्थ्य विप्रं तं धेनुमानय यत्नतः ।
तथेति सैन्यमादाय मुनिं दुष्टः समाययौ ॥ १३ ॥

प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे वचः ।
मुने धेनुमिमां देहि राज्ञे ह्यतिथिरूपिणे ॥ १४ ॥

ततस्तं कोपसंयुक्त उवाच मुनिसत्तमः ।
न दास्यामि महामूर्ख धेनुं देवस्वरूपिणीम् ॥ १५ ॥

ततः सोऽपि महावीरैर्धृत्वा धेनुं बलात् खलः ।
निर्जगाम मुनेस्तस्याऽऽश्रमात् कोपसमन्वितः ॥ १६ ॥

ततो धेनुः समाक्रु?द्धा ससृजे बलमुत्कटम् ।
तेन सेन्यं हतं तस्य प्रधानसहितं प्रभो ॥ १७ ॥

ज्ञात्वा वृत्तान्तमुग्रं तं क्षुभितः कृतवीर्यजः ।
युद्धार्थं गर्वसंयुक्तो ययौ तस्याश्रमं विधे ॥ १८ ॥

[[८०]]

ततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै ।
राजा खेदसमायुक्तो पपाल गतमत्सरः ॥ १९ ॥

कामधेनुर्गता स्वर्गं पु?नः राजा समाययौ ।
हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥ २० ॥

ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् ।
एकविंशतिबाणैस्तां नृपो विव्याध सर्वतः ॥ २१ ॥

ततः सा क्षुभिताऽत्यन्तं तमुवाच नृपाधमम् ।
स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥ २२ ॥

सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते ।
ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥ २३ ॥

गते भूपे मुनेः पत्नी रुरोद करुणस्वरा ।
सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥ २४ ॥

स्मृतिमात्रेण रामः स ययौ मातुस्तदान्तिकम् ।
दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥ २५ ॥

मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः ।
प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥ २६ ॥

ततस्तं रेणुकादेवी सान्त्वयामास युक्तितः ।
मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥ २७ ॥

दत्तात्रेयं समानीय कुरु कर्म यथाविधि ।
आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥ २८ ॥

नान्यो वक्ता न सन्देहः ?तस्माद्यत्नपरो भव ।
जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥ २९ ॥

ततस्ते जनकं तत्र तस्य देहोद्भवेन च ।
रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥ ३० ॥

ममाङ्गे एकविंशच्च बाणास्तेन समर्पिताः ।
एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥ ३१ ॥

एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा ।
रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥ ३२ ॥

पञ्चमे दिवसे रामः कर्म कृत्वा समास्थितः ।
दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥ ३३ ॥

षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः ।
तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥ ३४ ॥

स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते ।
तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥ ३५ ॥

किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता ।
ततोऽन्तर्धानमकरोद्व्याघ्रः परम ?दुर्जयः ॥ ३६ ॥

एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ ।
दृष्ट्वा तां राममामन्त्र्योवाच योगविदां वरः ॥ ३७ ॥

समागता त्वया तात किमर्थं रेणुका स्मृता ।
न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥ ३८ ॥

वृत्तान्तं कथयामास रामस्तं मुनिसत्तमम् ।
चकार कर्म साङ्गं तद्दत्तेन सहितः प्रभुः ॥ ३९ ॥

सपिण्डीकरणं रामश्चकार द्वादशेऽहनि ।
पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥ ४० ॥

ततः स जमदग्निस्तं दिव्यदेहः समागतः ।
राममालिङ्ग्य संहृष्टो बभूव मुनिसत्तमः ॥ ४१ ॥

जमदग्निं ततो दत्तो रेणुकां हर्षसंयुतः ।
उवाच भावगम्भीरो बोधयन् बोधदायकः ॥ ४२ ॥

गणेशं मन्त्रराजेन भजतं भावपूर्वकम् ।
तेन विघ्नविहीनौ च शान्तिरूपौ भविष्यथः ॥ ४३ ॥

क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च ।
विघ्नराजमविज्ञाय जातौ दुःखेन संयुतौ ॥ ४४ ॥

[[८१]]

एवमुक्त्वा गणेशस्य ददौ मन्त्रं महामुनिः ।
ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥ ४५ ॥

दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः ।
पित्रोः सेवार्थमानन्दाद्रामस्तत्र स्थितोऽभवत् ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥