३५ सहस्रार्जुननिमन्त्रणम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् ।
धर्मेण राज्यनीत्या स्वां पालयामास हि प्रजाम् ॥ १ ॥

ततस्तेन च भूपेन जिताः सर्वे महीभृतः ।
सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥ २ ॥

देवैः संस्थापितं नाम सहस्रार्जुन आदरात् ।
न समस्तेन कश्चिद्वै बभूव क्षात्रमण्डले ॥ ३ ॥

स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे ।
यदा क्रुद्धः स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥ ४ ॥

न सङ्ख्या वर्तते तस्य सैन्यानां च प्रजापते ।
यशसा तेजसा पूर्णं पूरितं तेन वै जगत् ॥ ५ ॥

सस्त्रीको नर्मदामध्ये चिक्रीड नृप एकदा ।
सहस्रबाहुभिर्धृत्वा जलौघं तत्र लीलया ॥ ६ ॥

यत्र वै नर्मदातीरे रावणः स महानुगः ।
पुपूज शाङ्करं लिङ्गं जलौघस्तत्र चागतः ॥ ७ ॥

पूजाविधिं स शीघ्रं समाप्य वै राक्षसाधिपः ।
पप्रच्छ केन दूतेशा जलौघः सम्प्रवर्तितः ॥ ८ ॥

गत्वा पश्यत मामत्र क्षोभयुक्तं स चाऽकरोत् ।
तं हनिष्यामि सङ्क्रुद्धो नित्यभङ्गेन दुःखितः ॥ ९ ॥

ततस्ते त्वरया जग्मुर्दृष्ट्वा तं कार्तवीर्यकम् ।
समाचख्युर्महादैत्यं रावणं विस्मिता विभो ॥ १० ॥

श्रुत्वा वृत्तान्तमेवं स रावणस्तं ययौ नृपम् ।
प्रधानैः षड्भिरत्यन्तं क्रोधयुक्तः प्रतापवान् ॥ ११ ॥

सहसा रावणं दृष्ट्वा गदां धृत्वा महाबलः ।
आर्द्रवस्त्रेण संयुक्तो युयुधे?ऽर्जुन एककः ॥ १२ ॥

गदायुद्धं महाघोरं तयोस्तत्र बभूव ह ।
ततः स गदया राजाऽपीडयद्रावणं परम् ॥ १३ ॥

कवचादिकमेतस्य राक्षसस्य नराधिपः ।
भेदयामास वै दक्ष रावणस्तत आपतत् ॥ १४ ॥

सङ्गृह्य स्वगृहं भूपो ययौ तत्र बबन्ध तम् ।
निकटे स्थापयामास सभायां खेलकारकम् ॥ १५ ॥

दशमस्तकयुक्तं तं दृष्ट्वा चिक्रीड भूमिपः ।
ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाऽऽययौ ॥ १६ ॥

तं प्रणम्य महाभागं गाणपत्यं विशेषतः ।
पुपूज भक्तिसंयुक्तो भोजयामास यत्नतः ॥ १७ ॥

पुनः प्रणम्य तं विप्रं कृताञ्जलिपुटः पुरः ।
संस्थितस्तमुवाचाऽथ मुनिः सर्वार्थकोविदः ॥ १८ ॥

रावणं मुञ्च राजेन्द्र मत्पौत्रं वरसंयुतम् ।
मित्रभावेन तिष्ठ त्वं रावणस्य महामते ॥ १९ ॥

तथेति तं जगादासावमुञ्चद्रावणं नृपः ।
पुलस्त्यः प्रययौ स्थानमाशिष्या चाभिनन्द्य तम् ॥ २० ॥

इत्यादितेजसा युक्तः साक्षाद्विष्णुमयो नृपः ।
नैव शक्यो वर्णयितुं धर्मशीलो बभूव ह ॥ २१ ॥

दिग्जये येन राज्ञा वै समुद्रः पादघाततः ।
ताडितः स विशीर्णोऽभूद्भयभीतः प्रजापते ॥ २२ ॥

यज्ञान् स विपुलांश्चक्रे भूरिदक्षिणसंयुतान् ।
स्वाहां स्वधा वषट्कारैर्मुमुदुर्देवतादयः ॥ २३ ॥

येन द्विजेन यत्तत्र प्रार्थितं तद्ददौ नृपः ।
स्वस्वधर्मरतान् लोकान् कारयामास यत्नतः ॥ २४ ॥

सदा गणेशभक्तिं स चकार नृपसत्तमः ।
गाणपत्यप्रियश्चासीत्तीर्थदेवातिथिप्रियः ॥ २५ ॥

आगतः स मयूरेशं यात्रां तत्र चकार ह।

[[७८]]

वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥ २६ ॥

गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
प्रवालगणनाथेति नाम कृत्वा पुपूज ह ॥ २७ ॥

एवं नानाविधैर्भावैर्गणेशमभजत् सदा ।
त्रिलोककीर्तिसङ्गीतो बभूव कृतवीर्यजः ॥ २८ ॥

चतुर्थीव्रतजेनैव तेजसा संयुतो बभौ ।
अङ्गहीनकभावेन मोहयुक्तो बभूव ह ॥ २९ ॥

देवादीनामभून् मान्यः श्रिया परमया युतः ।
भोगयुक्तः स्वभावेन विसस्मार गजाननम् ॥ ३० ॥

त्यक्त्वा मन्त्रं गणेशस्य ब्रह्मज्ञानमदेन सः ।
अहं गणेशरूपः सन् कं भजाम्यवदत् खलः ॥ ३१ ॥

ततो बभूवातिविघ्नसंयुक्तः सोऽर्जुनः प्रभो ।
तच्छृणुष्व महाभाग कथयामि प्रचेष्टितम् ॥ ३२ ॥

सैन्येन संयुतो राजा मृगयार्थं वनं ययौ ।
नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः ॥ ३३ ॥

जघान विविधांस्तत्र मृगांस्तान् नगरे स्वके ।
प्रेषयामास दूतैः स विभ्रमन् यत्र तत्र वै ॥ ३४ ॥

ततोऽकस्मान् महाराजो ददार्शाश्रममुत्तमम् ।
मुनेः प्रपच्छ राजाऽसौ सचिवान् कस्य चाश्रमः ॥ ३५ ॥

त ऊचुर्जमदग्नेर्वै मुनेराश्रम आगतः ।
ततः सोऽपि मुनिं दक्ष ययौ हर्षसमन्वितः ॥ ३६ ॥

प्रणम्य सचिवैर्मुख्यैः संवृतः स कृताञ्जलिः ।
उवाच मुनिशार्दूलं जमदग्निं महायशाः ॥ ३७ ॥

धन्यं मेऽद्य महायोगिन् जन्म ज्ञानादिकं तथा ।
कुलं च पितरो सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ ३८ ॥

ततस्तं मुनिमुख्योऽसावासनादिकमादरात् ।
दत्त्वा शिष्यैश्च सम्पूज्य पप्रच्छ कुशलादिकम् ॥ ३९ ॥

प्रयोजनं तथा विप्रः सम्पृच्छन् राजसत्तमम् ।
मानयामास तं भूपं विष्णोरंशसमुद्भवम् ॥ ४० ॥

ततो राजा मुनिं दक्ष जगाद प्रीतिसंयुतः ।
तवाशीर्वचनेनैव कुशलं मे प्रवर्तते ॥ ४१ ॥

मृगयाऽऽसक्तचित्तोऽहमागतो मुनिसत्तम ।
पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ॥ ४२ ॥

सर्वैः सह महाभाग पवित्रोऽहं न संशयः ।
दर्शनेनैव सन्तुष्ट आज्ञां देह्यधुना प्रभो ॥ ४३ ॥

गमिष्यामि ससैन्योऽहं नगरे स्वे महामते ।
न ते समश्च योगेन तपसा भासते मम ॥ ४४ ॥

जगाद मुनिमुख्योऽसौ ततस्तं हर्षसंयुतः ।
विष्णोरंशः स्वयं त्वं मेऽधुना सम्प्राप्त आश्रमे ॥ ४५ ॥

अनायासेन भो राजन्नतस्त्वां प्रार्थये विभो ।
भुङ्क्ष्व किञ्चिन्मया दत्तमपराह्णे समागतः ॥ ४६ ॥

ततो राजा जगादेदं वचनं तं प्रणम्य च ।
स्वामिन् वनेषु मे सैन्यं क्षुधितं भ्रमणे रतम् ॥ ४७ ॥

सन्त्यज्य कथमेकोऽहं भुनज्मि मुनिसत्तम ।
सर्वेषां भोजने शक्तिर्वर्तते नैव ते मुने ॥ ४८ ॥

वदामि तेन योगीन्द्र आज्ञां देहि च मे प्रभो ।
गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुतः ॥ ४९ ॥

ततस्तं राजशार्दूलमुवाच मुनिसत्तमः ।
न चिन्तां कुरु राजेन्द्र ससैन्यं भोजयाम्यऽहम् ॥ ५० ॥

[[३६]]

तपसा मे महाराज वश्यं ब्रह्माण्डमण्डलम् ।
अतस्त्वं गच्छ नद्यां वै स्नाना?र्थं स?र्वसंयुतः ॥ ५१ ॥

तथेति तं प्रणम्याऽसावगमत् सैन्यसंयुतः ।
स्नानार्थं विस्मितो भूत्वा सहस्रार्जुन आदरात् ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः ॥